This overlay will guide you through the buttons:

| |
|
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे। सरसीव महाघर्मे सूपक्षीणे बभूवतुः॥ १॥
हन्यमाने बले तूर्णम् अन्योन्यम् ते महा-मृधे। सरसि इव महा-घर्मे सु उपक्षीणे बभूवतुः॥ १॥
hanyamāne bale tūrṇam anyonyam te mahā-mṛdhe. sarasi iva mahā-gharme su upakṣīṇe babhūvatuḥ.. 1..
स्वबलस्य तु घातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥ २॥
स्व-बलस्य तु घातेन विरूपाक्ष-वधेन च। बभूव द्विगुणम् क्रुद्धः रावणः राक्षस-अधिपः॥ २॥
sva-balasya tu ghātena virūpākṣa-vadhena ca. babhūva dviguṇam kruddhaḥ rāvaṇaḥ rākṣasa-adhipaḥ.. 2..
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः। बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्॥ ३॥
प्रक्षीणम् स्व-बलम् दृष्ट्वा वध्यमानम् वलीमुखैः। बभूव अस्य व्यथा युद्धे दृष्ट्वा दैव-विपर्ययम्॥ ३॥
prakṣīṇam sva-balam dṛṣṭvā vadhyamānam valīmukhaiḥ. babhūva asya vyathā yuddhe dṛṣṭvā daiva-viparyayam.. 3..
उवाच च समीपस्थं महोदरमनन्तरम्। अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता॥ ४॥
उवाच च समीप-स्थम् महोदरम् अनन्तरम्। अस्मिन् काले महा-बाहो जय-आशा त्वयि मे स्थिता॥ ४॥
uvāca ca samīpa-stham mahodaram anantaram. asmin kāle mahā-bāho jaya-āśā tvayi me sthitā.. 4..
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्। भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्॥ ५॥
जहि शत्रु-चमूम् वीर दर्शय अद्य पराक्रमम्। भर्तृ-पिण्डस्य कालः अयम् निर्वेष्टुम् साधु युध्यताम्॥ ५॥
jahi śatru-camūm vīra darśaya adya parākramam. bhartṛ-piṇḍasya kālaḥ ayam nirveṣṭum sādhu yudhyatām.. 5..
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्॥ ६॥
एवम् उक्तः तथा इति उक्त्वा राक्षस-इन्द्रः महोदरः। प्रविवेश अरि-सेनाम् स पतङ्गः इव पावकम्॥ ६॥
evam uktaḥ tathā iti uktvā rākṣasa-indraḥ mahodaraḥ. praviveśa ari-senām sa pataṅgaḥ iva pāvakam.. 6..
ततः स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ ७॥
ततस् स कदनम् चक्रे वानराणाम् महा-बलः। भर्तृ-वाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ ७॥
tatas sa kadanam cakre vānarāṇām mahā-balaḥ. bhartṛ-vākyena tejasvī svena vīryeṇa coditaḥ.. 7..
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्॥ ८॥
वानराः च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्य अरि-बलम् भीमम् जघ्नुः ते सर्व-राक्षसान्॥ ८॥
vānarāḥ ca mahāsattvāḥ pragṛhya vipulāḥ śilāḥ. praviśya ari-balam bhīmam jaghnuḥ te sarva-rākṣasān.. 8..
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः। चिच्छेद पाणिपादोरु वानराणां महाहवे॥ ९॥
महोदरः सु संक्रुद्धः शरैः काञ्चन-भूषणैः। चिच्छेद पाणि-पाद-ऊरु वानराणाम् महा-आहवे॥ ९॥
mahodaraḥ su saṃkruddhaḥ śaraiḥ kāñcana-bhūṣaṇaiḥ. ciccheda pāṇi-pāda-ūru vānarāṇām mahā-āhave.. 9..
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्। दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः॥ १०॥
ततस् ते वानराः सर्वे राक्षसैः अर्दिताः भृशम्। दिशः दश द्रुताः केचिद् केचिद् सुग्रीवम् आश्रिताः॥ १०॥
tatas te vānarāḥ sarve rākṣasaiḥ arditāḥ bhṛśam. diśaḥ daśa drutāḥ kecid kecid sugrīvam āśritāḥ.. 10..
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्। अभिदुद्राव सुग्रीवो महोदरमनन्तरम्॥ ११॥
प्रभग्नम् समरे दृष्ट्वा वानराणाम् महा-बलम्। अभिदुद्राव सुग्रीवः महोदरम् अनन्तरम्॥ ११॥
prabhagnam samare dṛṣṭvā vānarāṇām mahā-balam. abhidudrāva sugrīvaḥ mahodaram anantaram.. 11..
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्। चिक्षेप च महातेजास्तद्वधाय हरीश्वरः॥ १२॥
प्रगृह्य विपुलाम् घोराम् महीधर-समाम् शिलाम्। चिक्षेप च महा-तेजाः तद्-वधाय हरि-ईश्वरः॥ १२॥
pragṛhya vipulām ghorām mahīdhara-samām śilām. cikṣepa ca mahā-tejāḥ tad-vadhāya hari-īśvaraḥ.. 12..
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्॥ १३॥
ताम् आपतन्तीम् सहसा शिलाम् दृष्ट्वा महोदरः। असम्भ्रान्तः ततस् बाणैः निर्बिभेद दुरासदाम्॥ १३॥
tām āpatantīm sahasā śilām dṛṣṭvā mahodaraḥ. asambhrāntaḥ tatas bāṇaiḥ nirbibheda durāsadām.. 13..
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्॥ १४॥
रक्षसा तेन बाण-ओघैः निकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्र-चक्रम् इव आकुलम्॥ १४॥
rakṣasā tena bāṇa-oghaiḥ nikṛttā sā sahasradhā. nipapāta tadā bhūmau gṛdhra-cakram iva ākulam.. 14..
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः। सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा॥ १५॥
ताम् तु भिन्नाम् शिलाम् दृष्ट्वा सुग्रीवः क्रोध-मूर्च्छितः। सालम् उत्पाट्य चिक्षेप तम् स चिच्छेद ना एकधा॥ १५॥
tām tu bhinnām śilām dṛṣṭvā sugrīvaḥ krodha-mūrcchitaḥ. sālam utpāṭya cikṣepa tam sa ciccheda nā ekadhā.. 15..
शरैश्च विददारैनं शूरः परबलार्दनः। स ददर्श ततः क्रुद्धः परिघं पतितं भुवि॥ १६॥
शरैः च विददार एनम् शूरः पर-बल-अर्दनः। स ददर्श ततस् क्रुद्धः परिघम् पतितम् भुवि॥ १६॥
śaraiḥ ca vidadāra enam śūraḥ para-bala-ardanaḥ. sa dadarśa tatas kruddhaḥ parigham patitam bhuvi.. 16..
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघेणोग्रवेगेन जघानास्य हयोत्तमान्॥ १७॥
आविध्य तु स तम् दीप्तम् परिघम् तस्य दर्शयन्। परिघेण उग्र-वेगेन जघान अस्य हय-उत्तमान्॥ १७॥
āvidhya tu sa tam dīptam parigham tasya darśayan. parigheṇa ugra-vegena jaghāna asya haya-uttamān.. 17..
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्। गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः॥ १८॥
तस्मात् हत-हयात् वीरः सः अवप्लुत्य महा-रथात्। गदाम् जग्राह संक्रुद्धः राक्षसः अथ महोदरः॥ १८॥
tasmāt hata-hayāt vīraḥ saḥ avaplutya mahā-rathāt. gadām jagrāha saṃkruddhaḥ rākṣasaḥ atha mahodaraḥ.. 18..
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ॥ १९॥
गदा-परिघ-हस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गो-वृष-प्रख्यौ घनौ इव स विद्युतौ॥ १९॥
gadā-parigha-hastau tau yudhi vīrau samīyatuḥ. nardantau go-vṛṣa-prakhyau ghanau iva sa vidyutau.. 19..
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः। ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः॥ २०॥
ततस् क्रुद्धः गदाम् तस्मै चिक्षेप रजनीचरः। ज्वलन्तीम् भास्कर-आभासाम् सुग्रीवाय महोदरः॥ २०॥
tatas kruddhaḥ gadām tasmai cikṣepa rajanīcaraḥ. jvalantīm bhāskara-ābhāsām sugrīvāya mahodaraḥ.. 20..
गदां तां सुमहाघोरामापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे॥ २१॥
गदाम् ताम् सु महा-घोराम् आपतन्तीम् महा-बलः। सुग्रीवः रोष-ताम्र-अक्षः समुद्यम्य महा-आहवे॥ २१॥
gadām tām su mahā-ghorām āpatantīm mahā-balaḥ. sugrīvaḥ roṣa-tāmra-akṣaḥ samudyamya mahā-āhave.. 21..
आजघान गदां तस्य परिघेण हरीश्वरः। पपात तरसा भिन्नः परिघस्तस्य भूतले॥ २२॥
आजघान गदाम् तस्य परिघेण हरि-ईश्वरः। पपात तरसा भिन्नः परिघः तस्य भू-तले॥ २२॥
ājaghāna gadām tasya parigheṇa hari-īśvaraḥ. papāta tarasā bhinnaḥ parighaḥ tasya bhū-tale.. 22..
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्॥ २३॥
ततस् जग्राह तेजस्वी सुग्रीवः वसुधा-तलात्। आयसम् मुसलम् घोरम् सर्वतस् हेम-भूषितम्॥ २३॥
tatas jagrāha tejasvī sugrīvaḥ vasudhā-talāt. āyasam musalam ghoram sarvatas hema-bhūṣitam.. 23..
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्। भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले॥ २४॥
स तम् उद्यम्य चिक्षेप सः अपि अस्य प्राक्षिपत् गदाम्। भिन्नौ अन्योन्यम् आसाद्य पेततुः तौ मही-तले॥ २४॥
sa tam udyamya cikṣepa saḥ api asya prākṣipat gadām. bhinnau anyonyam āsādya petatuḥ tau mahī-tale.. 24..
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ॥ २५॥
ततस् भिन्न-प्रहरणौ मुष्टिभ्याम् तौ समीयतुः। तेजः-बल-समाविष्टौ दीप्तौ इव हुताशनौ॥ २५॥
tatas bhinna-praharaṇau muṣṭibhyām tau samīyatuḥ. tejaḥ-bala-samāviṣṭau dīptau iva hutāśanau.. 25..
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः। तलैश्चान्योन्यमासाद्य पेततुश्च महीतले॥ २६॥
जघ्नतुः तौ तदा अन्योन्यम् नदन्तौ च पुनर् पुनर्। तलैः च अन्योन्यम् आसाद्य पेततुः च मही-तले॥ २६॥
jaghnatuḥ tau tadā anyonyam nadantau ca punar punar. talaiḥ ca anyonyam āsādya petatuḥ ca mahī-tale.. 26..
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्। भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ॥ २७॥
उत्पेततुः तदा तूर्णम् जघ्नतुः च परस्परम्। भुजैः चिक्षिपतुः वीरौ अन्योन्यम् अपराजितौ॥ २७॥
utpetatuḥ tadā tūrṇam jaghnatuḥ ca parasparam. bhujaiḥ cikṣipatuḥ vīrau anyonyam aparājitau.. 27..
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ। आजहार तदा खड्गमदूरपरिवर्तिनम्॥ २८॥
जग्मतुः तौ श्रमम् वीरौ बाहु-युद्धे परंतपौ। आजहार तदा खड्गम् अदूर-परिवर्तिनम्॥ २८॥
jagmatuḥ tau śramam vīrau bāhu-yuddhe paraṃtapau. ājahāra tadā khaḍgam adūra-parivartinam.. 28..
राक्षसश्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह। जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः॥ २९॥
राक्षसः चर्मणा सार्धम् महा-वेगः महोदरः। तथा एव च महा-खड्गम् चर्मणा पतितम् सह। जग्राह वानर-श्रेष्ठः सुग्रीवः वेगवत्तरः॥ २९॥
rākṣasaḥ carmaṇā sārdham mahā-vegaḥ mahodaraḥ. tathā eva ca mahā-khaḍgam carmaṇā patitam saha. jagrāha vānara-śreṣṭhaḥ sugrīvaḥ vegavattaraḥ.. 29..
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ॥ ३०॥
ततस् रोष-परीत-अङ्गौ नदन्तौ अभ्यधावताम्। उद्यत-असी रणे हृष्टौ युधि शस्त्र-विशारदौ॥ ३०॥
tatas roṣa-parīta-aṅgau nadantau abhyadhāvatām. udyata-asī raṇe hṛṣṭau yudhi śastra-viśāradau.. 30..
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ॥ ३१॥
दक्षिणम् मण्डलम् च उभौ सु तूर्णम् सम्परीयतुः। अन्योन्यम् अभिसंक्रुद्धौ जये प्रणिहितौ उभौ॥ ३१॥
dakṣiṇam maṇḍalam ca ubhau su tūrṇam samparīyatuḥ. anyonyam abhisaṃkruddhau jaye praṇihitau ubhau.. 31..
स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खड्गं पातयामास दुर्मतिः॥ ३२॥
स तु शूरः महा-वेगः वीर्य-श्लाघी महोदरः। महावर्मणि तम् खड्गम् पातयामास दुर्मतिः॥ ३२॥
sa tu śūraḥ mahā-vegaḥ vīrya-ślāghī mahodaraḥ. mahāvarmaṇi tam khaḍgam pātayāmāsa durmatiḥ.. 32..
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपगतं शिरः॥ ३३॥
लग्नम् उत्कर्षतः खड्गम् खड्गेन कपि-कुञ्जरः। जहार स शिरस्त्राणम् कुण्डल-उपगतम् शिरः॥ ३३॥
lagnam utkarṣataḥ khaḍgam khaḍgena kapi-kuñjaraḥ. jahāra sa śirastrāṇam kuṇḍala-upagatam śiraḥ.. 33..
निकृत्तशिरसस्तस्य पतितस्य महीतले। तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते॥ ३४॥
निकृत्त-शिरसः तस्य पतितस्य मही-तले। तत् बलम् राक्षस-इन्द्रस्य दृष्ट्वा तत्र न दृश्यते॥ ३४॥
nikṛtta-śirasaḥ tasya patitasya mahī-tale. tat balam rākṣasa-indrasya dṛṣṭvā tatra na dṛśyate.. 34..
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः॥ ३५॥
हत्वा तम् वानरैः सार्धम् ननाद मुदितः हरिः। चुक्रोध च दशग्रीवः बभौ हृष्टः च राघवः॥ ३५॥
hatvā tam vānaraiḥ sārdham nanāda muditaḥ hariḥ. cukrodha ca daśagrīvaḥ babhau hṛṣṭaḥ ca rāghavaḥ.. 35..
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः॥ ३६॥
विषण्ण-वदनाः सर्वे राक्षसाः दीन-चेतसः। विद्रवन्ति ततस् सर्वे भय-वित्रस्त-चेतसः॥ ३६॥
viṣaṇṇa-vadanāḥ sarve rākṣasāḥ dīna-cetasaḥ. vidravanti tatas sarve bhaya-vitrasta-cetasaḥ.. 36..
महोदरं तं विनिपात्य भूमौमहागिरेः कीर्णमिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्यासूर्यः स्वतेजोभिरिवाप्रधृष्यः॥ ३७॥
महोदरम् तम् विनिपात्य भूमौ महा-गिरेः कीर्णम् इव एक-देशम्। सूर्यात्मजः तत्र रराज लक्ष्म्या असूर्यः स्व-तेजोभिः इव अप्रधृष्यः॥ ३७॥
mahodaram tam vinipātya bhūmau mahā-gireḥ kīrṇam iva eka-deśam. sūryātmajaḥ tatra rarāja lakṣmyā asūryaḥ sva-tejobhiḥ iva apradhṛṣyaḥ.. 37..
अथ विजयमवाप्य वानरेन्द्रःसमरमुखे सुरसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै-र्हरुषसमाकुलितैर्निरीक्ष्यमाणः॥ ३८॥
अथ विजयम् अवाप्य वानर-इन्द्रः समर-मुखे सुर-सिद्ध-यक्ष-सङ्घैः। अवनि-तल-गतैः च भूत-सङ्घैः हरुष-समाकुलितैः निरीक्ष्यमाणः॥ ३८॥
atha vijayam avāpya vānara-indraḥ samara-mukhe sura-siddha-yakṣa-saṅghaiḥ. avani-tala-gataiḥ ca bhūta-saṅghaiḥ haruṣa-samākulitaiḥ nirīkṣyamāṇaḥ.. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In