This overlay will guide you through the buttons:

| |
|
महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः॥ १॥
महोदरे तु निहते महापार्श्वः महा-बलः। सुग्रीवेण समीक्ष्य अथ क्रोधात् संरक्त-लोचनः॥ १॥
mahodare tu nihate mahāpārśvaḥ mahā-balaḥ. sugrīveṇa samīkṣya atha krodhāt saṃrakta-locanaḥ.. 1..
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः॥ २॥
अङ्गदस्य चमूम् भीमाम् क्षोभयामास मार्गणैः। स वानराणाम् मुख्यानाम् उत्तमाङ्गानि राक्षसः॥ २॥
aṅgadasya camūm bhīmām kṣobhayāmāsa mārgaṇaiḥ. sa vānarāṇām mukhyānām uttamāṅgāni rākṣasaḥ.. 2..
पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः॥ ३॥
पातयामास कायेभ्यः फलम् वृन्तात् इव अनिलः। केषांचिद् इषुभिः बाहून् चिच्छेद अथ स राक्षसः॥ ३॥
pātayāmāsa kāyebhyaḥ phalam vṛntāt iva anilaḥ. keṣāṃcid iṣubhiḥ bāhūn ciccheda atha sa rākṣasaḥ.. 3..
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्। तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः॥ ४॥
वानराणाम् सु संरब्धः पार्श्वम् केषांचिद् आक्षिपत्। ते अर्दिताः बाण-वर्षेण महापार्श्वेन वानराः॥ ४॥
vānarāṇām su saṃrabdhaḥ pārśvam keṣāṃcid ākṣipat. te arditāḥ bāṇa-varṣeṇa mahāpārśvena vānarāḥ.. 4..
विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्॥ ५॥
विषाद-विमुखाः सर्वे बभूवुः गत-चेतसः। निशम्य बलम् उद्विग्नम् अङ्गदः राक्षस-अर्दितम्॥ ५॥
viṣāda-vimukhāḥ sarve babhūvuḥ gata-cetasaḥ. niśamya balam udvignam aṅgadaḥ rākṣasa-arditam.. 5..
वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्॥ ६॥
वेगम् चक्रे महा-वेगः समुद्रः इव पर्वसु। आयसम् परिघम् गृह्य सूर्य-रश्मि-सम-प्रभम्॥ ६॥
vegam cakre mahā-vegaḥ samudraḥ iva parvasu. āyasam parigham gṛhya sūrya-raśmi-sama-prabham.. 6..
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः॥ ७॥
समरे वानर-श्रेष्ठः महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वः विचेतनः॥ ७॥
samare vānara-śreṣṭhaḥ mahāpārśve nyapātayat. sa tu tena prahāreṇa mahāpārśvaḥ vicetanaḥ.. 7..
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि। तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः॥ ८॥
स सूतः स्यन्दनात् तस्मात् विसंज्ञः च अपतत् भुवि। तस्य ऋक्ष-राजः तेजस्वी नीलाञ्जन-चय-उपमः॥ ८॥
sa sūtaḥ syandanāt tasmāt visaṃjñaḥ ca apatat bhuvi. tasya ṛkṣa-rājaḥ tejasvī nīlāñjana-caya-upamaḥ.. 8..
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्॥ ९॥
निष्पत्य सु महा-वीर्यः स्व-यूथात् मेघ-संनिभात्। प्रगृह्य गिरि-शृङ्ग-आभाम् क्रुद्धः स विपुलाम् शिलाम्॥ ९॥
niṣpatya su mahā-vīryaḥ sva-yūthāt megha-saṃnibhāt. pragṛhya giri-śṛṅga-ābhām kruddhaḥ sa vipulām śilām.. 9..
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्। मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः॥ १०॥
अश्वान् जघान तरसा बभञ्ज स्यन्दनम् च तम्। मुहूर्तात् लब्ध-संज्ञः तु महापार्श्वः महा-बलः॥ १०॥
aśvān jaghāna tarasā babhañja syandanam ca tam. muhūrtāt labdha-saṃjñaḥ tu mahāpārśvaḥ mahā-balaḥ.. 10..
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत। जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे॥ ११॥
अङ्गदम् बहुभिः बाणैः भूयस् तम् प्रत्यविध्यत। जाम्बवन्तम् त्रिभिः बाणैः आजघान स्तनान्तरे॥ ११॥
aṅgadam bahubhiḥ bāṇaiḥ bhūyas tam pratyavidhyata. jāmbavantam tribhiḥ bāṇaiḥ ājaghāna stanāntare.. 11..
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः। गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ॥ १२॥
ऋक्ष-राजम् गवाक्षम् च जघान बहुभिः शरैः। गवाक्षम् जाम्बवन्तम् च स दृष्ट्वा शर-पीडितौ॥ १२॥
ṛkṣa-rājam gavākṣam ca jaghāna bahubhiḥ śaraiḥ. gavākṣam jāmbavantam ca sa dṛṣṭvā śara-pīḍitau.. 12..
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः। तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्॥ १३॥
जग्राह परिघम् घोरम् अङ्गदः क्रोध-मूर्च्छितः। तस्य अङ्गदः स रोष-अक्षः राक्षसस्य तम् आयसम्॥ १३॥
jagrāha parigham ghoram aṅgadaḥ krodha-mūrcchitaḥ. tasya aṅgadaḥ sa roṣa-akṣaḥ rākṣasasya tam āyasam.. 13..
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्। द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत्॥ १४॥
दूर-स्थितस्य परिघम् रवि-रश्मि-सम-प्रभम्। द्वाभ्याम् भुजाभ्याम् संगृह्य भ्रामयित्वा च वेगवत्॥ १४॥
dūra-sthitasya parigham ravi-raśmi-sama-prabham. dvābhyām bhujābhyām saṃgṛhya bhrāmayitvā ca vegavat.. 14..
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः। स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः॥ १५॥
महापार्श्वस्य चिक्षेप वध-अर्थम् वालिनः सुतः। स तु क्षिप्तः बलवता परिघः तस्य रक्षसः॥ १५॥
mahāpārśvasya cikṣepa vadha-artham vālinaḥ sutaḥ. sa tu kṣiptaḥ balavatā parighaḥ tasya rakṣasaḥ.. 15..
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्॥ १६॥
धनुः च स शरम् हस्तात् शिरस्त्राणम् च पातयत्। तम् समासाद्य वेगेन वालि-पुत्रः प्रतापवान्॥ १६॥
dhanuḥ ca sa śaram hastāt śirastrāṇam ca pātayat. tam samāsādya vegena vāli-putraḥ pratāpavān.. 16..
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः॥ १७॥
तलेन अभ्यहनत् क्रुद्धः कर्ण-मूले स कुण्डले। स तु क्रुद्धः महा-वेगः महापार्श्वः महा-द्युतिः॥ १७॥
talena abhyahanat kruddhaḥ karṇa-mūle sa kuṇḍale. sa tu kruddhaḥ mahā-vegaḥ mahāpārśvaḥ mahā-dyutiḥ.. 17..
करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसारमयं दृढम्॥ १८॥
करेण एकेन जग्राह सु महान्तम् परश्वधम्। तम् तैल-धौतम् विमलम् शैल-सार-मयम् दृढम्॥ १८॥
kareṇa ekena jagrāha su mahāntam paraśvadham. tam taila-dhautam vimalam śaila-sāra-mayam dṛḍham.. 18..
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्॥ १९॥
राक्षसः परम-क्रुद्धः वालि-पुत्रे न्यपातयत्। तेन वाम-अंसफलके भृशम् प्रत्यवपातितम्॥ १९॥
rākṣasaḥ parama-kruddhaḥ vāli-putre nyapātayat. tena vāma-aṃsaphalake bhṛśam pratyavapātitam.. 19..
अङ्गदो मोक्षयामास सरोषः स परश्वधम्। स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः॥ २०॥
अङ्गदः मोक्षयामास स रोषः स परश्वधम्। स वीरः वज्र-संकाशम् अङ्गदः मुष्टिम् आत्मनः॥ २०॥
aṅgadaḥ mokṣayāmāsa sa roṣaḥ sa paraśvadham. sa vīraḥ vajra-saṃkāśam aṅgadaḥ muṣṭim ātmanaḥ.. 20..
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः। राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति॥ २१॥
संवर्तयत् सु संक्रुद्धः पितुः तुल्य-पराक्रमः। राक्षसस्य स्तन-अभ्याशे मर्म-ज्ञः हृदयम् प्रति॥ २१॥
saṃvartayat su saṃkruddhaḥ pituḥ tulya-parākramaḥ. rākṣasasya stana-abhyāśe marma-jñaḥ hṛdayam prati.. 21..
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महामृधे॥ २२॥
इन्द्र-अशनि-सम-स्पर्शम् स मुष्टिम् विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महा-मृधे॥ २२॥
indra-aśani-sama-sparśam sa muṣṭim vinyapātayat. tena tasya nipātena rākṣasasya mahā-mṛdhe.. 22..
पफाल हृदयं चास्य स पपात हतो भुवि। तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे॥ २३॥
पफाल हृदयम् च अस्य स पपात हतः भुवि। तस्मिन् विनिहते भूमौ तत् सैन्यम् सम्प्रचुक्षुभे॥ २३॥
paphāla hṛdayam ca asya sa papāta hataḥ bhuvi. tasmin vinihate bhūmau tat sainyam sampracukṣubhe.. 23..
अभवच्च महान् क्रोधः समरे रावणस्य तु। वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः॥ २४॥
अभवत् च महान् क्रोधः समरे रावणस्य तु। वानराणाम् प्रहृष्टानाम् सिंह-नादः सु पुष्कलः॥ २४॥
abhavat ca mahān krodhaḥ samare rāvaṇasya tu. vānarāṇām prahṛṣṭānām siṃha-nādaḥ su puṣkalaḥ.. 24..
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्। सहेन्द्रेणेव देवानां नादः समभवन्महान्॥ २५॥
स्फोटयन् इव शब्देन लङ्काम् स अट्टाल-गोपुराम्। सह इन्द्रेण इव देवानाम् नादः समभवत् महान्॥ २५॥
sphoṭayan iva śabdena laṅkām sa aṭṭāla-gopurām. saha indreṇa iva devānām nādaḥ samabhavat mahān.. 25..
अथेन्द्रशत्रुस्त्रिदशालयानांवनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रःपुनश्च युद्धाभिमुखोऽवतस्थे॥ २६॥
अथ इन्द्रशत्रुः त्रिदशालयानाम् वनौकसाम् च एव महा-प्रणादम्। श्रुत्वा स रोषम् युधि राक्षस-इन्द्रः पुनर् च युद्ध-अभिमुखः अवतस्थे॥ २६॥
atha indraśatruḥ tridaśālayānām vanaukasām ca eva mahā-praṇādam. śrutvā sa roṣam yudhi rākṣasa-indraḥ punar ca yuddha-abhimukhaḥ avatasthe.. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In