| |
|

This overlay will guide you through the buttons:

घेरण्ड उवाच
आसनानि समस्तानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि शिवेन कथितानि च ॥१॥
आसनानि समस्तानि यावन्तः जीव-जन्तवः । चतुरशीति-लक्षाणि शिवेन कथितानि च ॥१॥
āsanāni samastāni yāvantaḥ jīva-jantavaḥ . caturaśīti-lakṣāṇi śivena kathitāni ca ..1..
तेषां मध्ये विशिष्टानि षोडशोनंशतं कृतम् । तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥२॥
तेषाम् मध्ये विशिष्टानि षोडश-ऊनंशतम् कृतम् । तेषाम् मध्ये मर्त्य-लोके द्वात्रिंशत्-आसनम् शुभम् ॥२॥
teṣām madhye viśiṣṭāni ṣoḍaśa-ūnaṃśatam kṛtam . teṣām madhye martya-loke dvātriṃśat-āsanam śubham ..2..
अथ आसनानां भेदाः।
सिद्धं पद्मं तथा भद्रं मुक्तं वज्रञ्च स्वस्तिकम् । सिंहञ्च गोमुखं वीरं धनुरासनमेव च ॥३॥
सिद्धम् पद्मम् तथा भद्रम् मुक्तम् वज्रम् च स्वस्तिकम् । सिंहम् च गोमुखम् वीरम् धनुरासनम् एव च ॥३॥
siddham padmam tathā bhadram muktam vajram ca svastikam . siṃham ca gomukham vīram dhanurāsanam eva ca ..3..
मृतं गुप्तं तथा मात्स्यं मत्येन्द्रासनमेव च । गोरक्षं पश्चिमोत्तानं उत्कटं सङ्कटं तथा ॥४॥
मृतम् गुप्तम् तथा मात्स्यम् मत्य-इन्द्रासनम् एव च । गोरक्षम् पश्चिमोत्तानम् उत्कटम् सङ्कटम् तथा ॥४॥
mṛtam guptam tathā mātsyam matya-indrāsanam eva ca . gorakṣam paścimottānam utkaṭam saṅkaṭam tathā ..4..
मयूरं कुक्कुटं कूर्म्मं तथाचोत्तानकूर्म्मकम् । उत्तानमण्डुकं वृक्षं मण्डुकं गरुडं वृषम् ॥५॥
मयूरम् कुक्कुटम् कूर्म्मम् तथा च उत्तानकूर्म्मकम् । उत्तानमण्डुकम् वृक्षम् मण्डुकम् गरुडम् वृषम् ॥५॥
mayūram kukkuṭam kūrmmam tathā ca uttānakūrmmakam . uttānamaṇḍukam vṛkṣam maṇḍukam garuḍam vṛṣam ..5..
शलभं मकरं चोष्टं भुजङ्गढ्चयोगासनम् । द्वात्रिंशदासनानितु मर्त्त्यलोकेहि सिद्धिदम् ॥६॥
शलभम् मकरम् चोष्टम् भुजङ्ग-ढ्च-योग-आसनम् । द्वात्रिंशत्-आसनानि तु मर्त्त्य-लोके हि सिद्धि-दम् ॥६॥
śalabham makaram coṣṭam bhujaṅga-ḍhca-yoga-āsanam . dvātriṃśat-āsanāni tu marttya-loke hi siddhi-dam ..6..
अथ आसनानां प्रयोगाः ।। अथ सिद्धासनम्।
योनिस्थानकमङ्घ्रिमूलघटितंसंपीड्य गुल्फेतरं मेढ्रोपर्यथ सन्निधाथ चिबुकं कृत्वा हृदि स्थापितम् । स्थाणुः संयमितेन्द्रियो>चलदृशा पश्यन् भ्रुवोरन्तरमेवंमोक्षविधायतेफलकरं सिद्धासनं प्रोच्यते ॥७॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितम् संपीड्य गुल्फ-इतरम् मेढ्र-उपरि अथ सन्निधा अथ चिबुकम् कृत्वा हृदि स्थापितम् । स्थाणुः संयमित-इन्द्रियः चल-दृशा पश्यन् भ्रुवोः अन्तरम् सिद्धासनम् प्रोच्यते ॥७॥
yoni-sthānakam aṅghri-mūla-ghaṭitam saṃpīḍya gulpha-itaram meḍhra-upari atha sannidhā atha cibukam kṛtvā hṛdi sthāpitam . sthāṇuḥ saṃyamita-indriyaḥ cala-dṛśā paśyan bhruvoḥ antaram siddhāsanam procyate ..7..
अथ पद्मासनम् ॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्वायाधिविनाशनाशनकरं पद्मासनं प्रोच्यते ॥८॥
वाम-ऊरु-उपरि दक्षिणम् हि चरणम् संस्थाप्य वामम् तथा दक्ष-ऊरु-उपरि पश्चिमेन विधिना कृत्वा कराभ्याम् दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकम् नासा-अग्रम् आलोकयेत् एतत् वायाधि-विनाश-नाशन-करम् पद्मासनम् प्रोच्यते ॥८॥
vāma-ūru-upari dakṣiṇam hi caraṇam saṃsthāpya vāmam tathā dakṣa-ūru-upari paścimena vidhinā kṛtvā karābhyām dṛḍham . aṅguṣṭhau hṛdaye nidhāya cibukam nāsā-agram ālokayet etat vāyādhi-vināśa-nāśana-karam padmāsanam procyate ..8..
अथ भद्रासनम् ॥
गुल्फौ च वृषणस्याधो यत्क्रमेण समाहितः । पादाङ्गुष्ठौ कराभ्याढ्च धृत्वा च पृष्ठदेशतः ॥९॥
गुल्फौ च वृषणस्य अधस् यत् क्रमेण समाहितः । पादाङ्गुष्ठौ धृत्वा च पृष्ठ-देशतः ॥९॥
gulphau ca vṛṣaṇasya adhas yat krameṇa samāhitaḥ . pādāṅguṣṭhau dhṛtvā ca pṛṣṭha-deśataḥ ..9..
जालन्धरं समासाद्य नासाग्रमवलोकयेत् । भद्रसनं भवेदेतत्सर्वव्याधिविनाशकम् ॥१०॥
जालन्धरम् समासाद्य नासाग्रम् अवलोकयेत् । भद्रसनम् भवेत् एतत् सर्व-व्याधि-विनाशकम् ॥१०॥
jālandharam samāsādya nāsāgram avalokayet . bhadrasanam bhavet etat sarva-vyādhi-vināśakam ..10..
अथ मुक्तासनम्।
पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि । समकायशिरोग्रीवं मुक्तासनन्तु सिद्धिदम् ॥११॥
पायुमूले वाम-गुल्फम् दक्ष-गुल्फम् तथा उपरि । सम-काय-शिरः-ग्रीवम् मुक्तासनम् तु सिद्धि-दम् ॥११॥
pāyumūle vāma-gulpham dakṣa-gulpham tathā upari . sama-kāya-śiraḥ-grīvam muktāsanam tu siddhi-dam ..11..
अथ वज्रासनम्।
जङ्घाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ । वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् ॥१२॥
जङ्घाभ्याम् वज्र-वत् कृत्वा गुद-पार्श्वे पदौ उभौ । भवेत् ॥१२॥
jaṅghābhyām vajra-vat kṛtvā guda-pārśve padau ubhau . bhavet ..12..
अथ स्वास्तिकासनम्।
जानूर्वोरन्तरे कृत्वा योगी पदतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥१३॥
जानु-ऊर्वोः अन्तरे कृत्वा योगी पद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकम् तत् प्रचक्षते ॥१३॥
jānu-ūrvoḥ antare kṛtvā yogī pada-tale ubhe . ṛju-kāyaḥ samāsīnaḥ svastikam tat pracakṣate ..13..
अथ सिंहासनम्।
गुल्फौ च वृषणस्याधो व्युत्क्रेणोर्ध्वतां गतौ । चितिमूलौ भूमिसंस्थौ कृत्वा च जानुनोपरि ॥१४॥
गुल्फौ च वृषणस्य अधस् गतौ । चिति-मूलौ भूमि-संस्थौ कृत्वा च जानुना उपरि ॥१४॥
gulphau ca vṛṣaṇasya adhas gatau . citi-mūlau bhūmi-saṃsthau kṛtvā ca jānunā upari ..14..
व्यक्तवक्त्त्रो जलंध्रञ्च नासाग्रमवलोकयेत् । सिंहासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥१५॥
व्यक्त-वक्त्रः नासाग्रम् अवलोकयेत् । सिंहासनम् भवेत् एतत् सर्व-व्याधि-विनाशकम् ॥१५॥
vyakta-vaktraḥ nāsāgram avalokayet . siṃhāsanam bhavet etat sarva-vyādhi-vināśakam ..15..
अथ गोमुखासनम्।
पादौ च भूमो संस्थाप्य पृष्ठपार्श्वो निवेशयेत् । स्थिरकायं समासाद्य गोमुखं गोमुखाकृति ॥१६॥
पादौ च संस्थाप्य निवेशयेत् । स्थिरकायम् समासाद्य गोमुखम् गो-मुख-आकृति ॥१६॥
pādau ca saṃsthāpya niveśayet . sthirakāyam samāsādya gomukham go-mukha-ākṛti ..16..
अथ वीरासनम्।
एकपादमथैकस्मिन्विन्यसेदरूसंस्थितम् । इतरस्मिंस्तथा पश्चाद्वीरसनमितीरितम् ॥१७॥
एक-पादम् अथ एकस्मिन् विन्यसेत् अरू-संस्थितम् । इतरस्मिन् तथा पश्चात् वीरसनम् इति ईरितम् ॥१७॥
eka-pādam atha ekasmin vinyaset arū-saṃsthitam . itarasmin tathā paścāt vīrasanam iti īritam ..17..
अथ धनुरासनम्।
प्रसार्य्य पादौ भुवि दण्डरूपौ करौ च पृष्ठे धृतपादयुग्मम् । कृत्वा धनुस्तुल्यपरिवर्त्तिताङ्गं निगद्य योगी धनुरासनं तत् ॥१८॥
प्रसार्य्य पादौ भुवि दण्ड-रूपौ करौ च पृष्ठे धृत-पाद-युग्मम् । कृत्वा धनुः-तुल्य-परिवर्त्तित-अङ्गम् निगद्य योगी धनुरासनम् तत् ॥१८॥
prasāryya pādau bhuvi daṇḍa-rūpau karau ca pṛṣṭhe dhṛta-pāda-yugmam . kṛtvā dhanuḥ-tulya-parivarttita-aṅgam nigadya yogī dhanurāsanam tat ..18..
अथ मृतासनम् ॥
उत्तानं शववद्भूमौ शयानन्तु शनासनम् । शवासनं श्रमहरं चित्तविश्रान्तिकारणम् ॥१९॥
उत्तानम् शववत् भूमौ शयानम् तु शनासनम् । शवासनम् श्रम-हरम् चित्त-विश्रान्ति-कारणम् ॥१९॥
uttānam śavavat bhūmau śayānam tu śanāsanam . śavāsanam śrama-haram citta-viśrānti-kāraṇam ..19..
अथ गुप्तासनम्।
जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् ॥पादोपरि च संस्थाप्य गुदं गुप्तासनं ॥२०॥
जानु-ऊर्वोः अन्तरे पादौ कृत्वा पादौ च गोपयेत् ॥पाद-उपरि च संस्थाप्य गुदम् गुप्त-आसनम् ॥२०॥
jānu-ūrvoḥ antare pādau kṛtvā pādau ca gopayet ..pāda-upari ca saṃsthāpya gudam gupta-āsanam ..20..
अथ मत्सासनम्।
मुक्तपद्मासनं कृत्वा उत्तानशयनञ्चरेत् । कूर्पराभ्यां शिरो वेष्ट्यं मत्स्यानन्तु रोगहा ॥२१॥
मुक्तपद्मासनम् कृत्वा उत्तान-शयनम् चरेत् । कूर्पराभ्याम् शिरः वेष्ट्यम् रोग-हा ॥२१॥
muktapadmāsanam kṛtvā uttāna-śayanam caret . kūrparābhyām śiraḥ veṣṭyam roga-hā ..21..
अथ मत्स्येन्द्रासनम्।
उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः । नम्राङ्गं वामपादं हि दक्षजानूपरि न्यसेत् ॥२२॥
उदरम् पश्चिम-आभासम् कृत्वा तिष्ठति यत्नतः । नम्र-अङ्गम् वाम-पादम् हि दक्ष-जानु-उपरि न्यसेत् ॥२२॥
udaram paścima-ābhāsam kṛtvā tiṣṭhati yatnataḥ . namra-aṅgam vāma-pādam hi dakṣa-jānu-upari nyaset ..22..
तत्र याम्यं कूर्परञ्च याम्यकरे च वक्त्रकम् । भ्रुवोर्मध्ये गता दृष्टिः पीठं मात्स्येन्द्रमुच्यते ॥२३॥
तत्र याम्यम् कूर्परम् च याम्य-करे च वक्त्रकम् । भ्रुवोः मध्ये गता दृष्टिः पीठम् मात्स्येन्द्रम् उच्यते ॥२३॥
tatra yāmyam kūrparam ca yāmya-kare ca vaktrakam . bhruvoḥ madhye gatā dṛṣṭiḥ pīṭham mātsyendram ucyate ..23..
अथ पश्चिमोत्तानासनम्।
प्रसार्य पादौ भुवि दण्डरूपौ संन्यस्तभालं चितियुग्ममध्ये । यत्नेन पादौ च धृतौ कराभ्यां योगीन्द्रपीठं पश्चिमोत्तानमाहुः ॥२४॥
प्रसार्य पादौ भुवि दण्ड-रूपौ संन्यस्त-भालम् चिति-युग्म-मध्ये । यत्नेन पादौ च धृतौ कराभ्याम् योगि-इन्द्र-पीठम् पश्चिम-उत्तानम् आहुः ॥२४॥
prasārya pādau bhuvi daṇḍa-rūpau saṃnyasta-bhālam citi-yugma-madhye . yatnena pādau ca dhṛtau karābhyām yogi-indra-pīṭham paścima-uttānam āhuḥ ..24..
अथ गोरक्षानम्।
जानूर्व्वोन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ । गुल्फौ चाच्छाद्या हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥
पादौ उत्तानौ व्यक्त-संस्थितौ । गुल्फौ च आच्छाद्याः हस्ताभ्याम् उत्तानाभ्याम् प्रयत्नतः ॥
pādau uttānau vyakta-saṃsthitau . gulphau ca ācchādyāḥ hastābhyām uttānābhyām prayatnataḥ ..
कण्ठसंकोचनं कृत्वा नासाग्रमवलोकयेत् । गोरक्षासनमित्याह योगिनां सिद्धिकारणम् ॥
कण्ठ-संकोचनम् कृत्वा नासा-अग्रम् अवलोकयेत् । गोरक्षासनम् इति आह योगिनाम् सिद्धि-कारणम् ॥
kaṇṭha-saṃkocanam kṛtvā nāsā-agram avalokayet . gorakṣāsanam iti āha yoginām siddhi-kāraṇam ..
अथ उत्कटासनम्।
अङ्गुष्ठाभ्यावष्टभ्य धरां गुल्फौ च खे गतौ । तत्रौपरि गुदं न्यस्य विज्ञेयमुत्कटानम् ॥२७॥
अङ्गुष्ठाभ्या अवष्टभ्य धराम् गुल्फौ च खे गतौ । तत्र ओपरि गुदम् न्यस्य विज्ञेयम् उत्कटानम् ॥२७॥
aṅguṣṭhābhyā avaṣṭabhya dharām gulphau ca khe gatau . tatra opari gudam nyasya vijñeyam utkaṭānam ..27..
अथ संङ्कटासनम्।
वामपादं चितेर्मूलं संन्यस्य धरणीतले । पाददण्डेन योगेन वेष्टयेद् वामपादकम् । जानुयुग्मेकरौ युग्मकेतत्तु संकटासनम् ॥२४॥
वाम-पादम् चितेः मूलम् संन्यस्य धरणी-तले । वेष्टयेत् । जानु-युग्म-एकरौ युग्मकेतत् तु संकटासनम् ॥२४॥
vāma-pādam citeḥ mūlam saṃnyasya dharaṇī-tale . veṣṭayet . jānu-yugma-ekarau yugmaketat tu saṃkaṭāsanam ..24..
अथ मयूरासनम्।
धरामवष्टभ्य करयोस्तसाभ्यां तत्कूर्परे स्थापित नाभिपार्श्वम् । उच्चासनो दण्डवदुत्थिः खे मायूरमेतं प्रवदन्ति पीठम् ॥२५॥
धराम् अवष्टभ्य करयोः तसाभ्याम् तद्-कूर्परे स्थापित नाभि-पार्श्वम् । उच्च-आसनः दण्ड-वत् उत्थिः खे मायूरम् एतम् प्रवदन्ति पीठम् ॥२५॥
dharām avaṣṭabhya karayoḥ tasābhyām tad-kūrpare sthāpita nābhi-pārśvam . ucca-āsanaḥ daṇḍa-vat utthiḥ khe māyūram etam pravadanti pīṭham ..25..
कुक्कुटासनम्।
पद्मासनं समासाद्य जानूर्वोरन्तरे करो । कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् ॥२६॥
पद्मासनम् समासाद्य जानु-ऊर्वोः अन्तरे करो । कूर्पराभ्याम् समासीनः मञ्च-स्थः कुक्कुटासनम् ॥२६॥
padmāsanam samāsādya jānu-ūrvoḥ antare karo . kūrparābhyām samāsīnaḥ mañca-sthaḥ kukkuṭāsanam ..26..
अथ कूर्मासनम्।
गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ । ऋजुकाय शिरोग्रीवं कूर्मासनमितीरतम् ॥२७॥
गुल्फौ च वृषणस्य अधस् व्युत्क्रमेण समाहितौ । ऋजुकाय शिरः-ग्रीवम् कूर्मासनम् इति ईरतम् ॥२७॥
gulphau ca vṛṣaṇasya adhas vyutkrameṇa samāhitau . ṛjukāya śiraḥ-grīvam kūrmāsanam iti īratam ..27..
अथ उत्तानकूर्मासनम्।
कुक्कुटासन बन्धस्थं कराभ्यां धृतकन्धरम् । पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मम् ॥२८॥
कुक्कुटासन-बन्ध-स्थम् कराभ्याम् धृत-कन्धरम् । पीठम् कूर्म-वत् उत्तानम् एतत् उत्तानकूर्मम् ॥२८॥
kukkuṭāsana-bandha-stham karābhyām dhṛta-kandharam . pīṭham kūrma-vat uttānam etat uttānakūrmam ..28..
अथ उत्तानमण्डूकासनम्।
मण्डूकसनमध्यस्थं कूर्पराभ्यां धृतं शिरः । एतद्भेकवदुत्तानमेतदुत्तानमण्डूकम् ॥२९॥
मण्डूकसन-मध्य-स्थम् कूर्पराभ्याम् धृतम् शिरः । एतत् भेक-वत् उत्तानम् एतत् उत्तान-मण्डूकम् ॥२९॥
maṇḍūkasana-madhya-stham kūrparābhyām dhṛtam śiraḥ . etat bheka-vat uttānam etat uttāna-maṇḍūkam ..29..
अथ वृक्षासनम्।
वामोरुमूलदेशे च याम्यापादं निधायतु । तिष्ठेत्तु वृक्षवद् भूमौ वृक्षासनमिदं विदुः ॥३०॥
वाम-ऊरु-मूल-देशे च याम्या-पादम् निधायतु । तिष्ठेत् तु वृक्ष-वत् भूमौ वृक्षासनम् इदम् विदुः ॥३०॥
vāma-ūru-mūla-deśe ca yāmyā-pādam nidhāyatu . tiṣṭhet tu vṛkṣa-vat bhūmau vṛkṣāsanam idam viduḥ ..30..
अथ मण्डूकासनम्।
पादतलौ पृष्ठदेशे अंगुष्ठे द्वे च संस्पृशेत् । जानुयुग्मं पुरस्कृत्य साधयेन्मण्डूकासनम् ॥३१॥
पाद-तलौ पृष्ठ-देशे अंगुष्ठे द्वे च संस्पृशेत् । जानु-युग्मम् पुरस्कृत्य साधयेत् मण्डूक-आसनम् ॥३१॥
pāda-talau pṛṣṭha-deśe aṃguṣṭhe dve ca saṃspṛśet . jānu-yugmam puraskṛtya sādhayet maṇḍūka-āsanam ..31..
अथ गरूड़ासनम्।
जंघोरूभ्यां धरां पीड्य स्थिरकायो द्विजानुना । जानूपरिकरं युग्मं गरुडानमुच्यते ॥३२॥
जंघा-ऊरूभ्याम् धराम् पीड्य स्थिर-कायः द्वि-जानुना । जानु-उपरिकरम् युग्मम् गरुडानम् उच्यते ॥३२॥
jaṃghā-ūrūbhyām dharām pīḍya sthira-kāyaḥ dvi-jānunā . jānu-uparikaram yugmam garuḍānam ucyate ..32..
अथ वृषासानम्।
याम्यगुल्फे पादमूले वामभागे पदेतरम् । विपरीतंस्पृशेद् भूमिं वृषासनमिदं भवेद् ॥३३॥
याम्य-गुल्फे पाद-मूले वाम-भागे पद-इतरम् । विपरीतम् स्पृशेत् भूमिम् वृषासनम् इदम् भवेत् ॥३३॥
yāmya-gulphe pāda-mūle vāma-bhāge pada-itaram . viparītam spṛśet bhūmim vṛṣāsanam idam bhavet ..33..
अथ शलभासनम्।
अध्यास्यः शेते कर युग्मं वक्षे भूमिमवष्टभ्यकरयोस्तलाभ्याम् । पादौ च शून्ये च वितस्तिचार्ध्यं वदन्ति पीठंशलभं मुनीन्द्राः ॥३४॥
अध्यास्यः शेते कर युग्मम् वक्षे भूमिम् अवष्टभ्य करयोः तलाभ्याम् । पादौ च शून्ये च वितस्ति-चार्ध्यम् वदन्ति पीठंशलभम् मुनि-इन्द्राः ॥३४॥
adhyāsyaḥ śete kara yugmam vakṣe bhūmim avaṣṭabhya karayoḥ talābhyām . pādau ca śūnye ca vitasti-cārdhyam vadanti pīṭhaṃśalabham muni-indrāḥ ..34..
अथ मकरासनम्।
अध्यास्य शेते हृदयं निधाय, भूमौ च पादौ च प्रसार्यमाणौ । शिरश्च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत् ॥३५॥
अध्यास्य शेते हृदयम् निधाय, भूमौ च पादौ च प्रसार्यमाणौ । शिरः च धृत्वा कर-दण्ड-युग्मे देह-अग्नि-कारम् मकर-आसनम् तत् ॥३५॥
adhyāsya śete hṛdayam nidhāya, bhūmau ca pādau ca prasāryamāṇau . śiraḥ ca dhṛtvā kara-daṇḍa-yugme deha-agni-kāram makara-āsanam tat ..35..
अथ उष्ट्रानम्।
अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् । आकुञ्चयेत्सम्यगुदरास्यगाढ-मौष्ट्रञ्च पीठं योगिनो वदन्ति ॥३६॥
अध्यास्य शेते पद-युग्म-व्यस्तम् पृष्ठे निधाय अपि धृतम् कराभ्याम् । आकुञ्चयेत् सम्यक् उदर-आस्य-गाढम् औष्ट्रम् च पीठम् योगिनः वदन्ति ॥३६॥
adhyāsya śete pada-yugma-vyastam pṛṣṭhe nidhāya api dhṛtam karābhyām . ākuñcayet samyak udara-āsya-gāḍham auṣṭram ca pīṭham yoginaḥ vadanti ..36..
अथ भुजङ्गानम्।
अंगुष्ठनाभिपर्यन्तमधोभूमौविनिन्यसेत् । करतलाभ्यांधरां धृत्वा उर्ध्वंशीर्ष फणीवहि ॥
अंगुष्ठ-नाभि-पर्यन्तम् अधस् भूमौ विनिन्यसेत् । कर-तलाभ्याम् धराम् धृत्वा उर्ध्वम् शीर्ष फणीवहि ॥
aṃguṣṭha-nābhi-paryantam adhas bhūmau vininyaset . kara-talābhyām dharām dhṛtvā urdhvam śīrṣa phaṇīvahi ..
देहाग्निवर्धते नित्यं सर्वरोग विनाशनम् । जागर्ति भुजगी देवी भुजगासन साधनात् ॥३७॥
देह-अग्नि वर्धते नित्यम् सर्व-रोग-विनाशनम् । जागर्ति भुजगी देवी भुजगासन-साधनात् ॥३७॥
deha-agni vardhate nityam sarva-roga-vināśanam . jāgarti bhujagī devī bhujagāsana-sādhanāt ..37..
अथ योगसनम्।
उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥
उत्तानौ चरणौ कृत्वा संस्थाप्य जानुना उपरि । आसन-उपरि संस्थाप्य उत्तानम् कर-युग्मकम् ॥
uttānau caraṇau kṛtvā saṃsthāpya jānunā upari . āsana-upari saṃsthāpya uttānam kara-yugmakam ..
पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतद् योगिनां योगसाधनम् ॥३८॥
पूरकैः वायुम् आकृष्य नासा-अग्रम् अवलोकयेत् । योग-आसनम् भवेत् एतत् योगिनाम् योग-साधनम् ॥३८॥
pūrakaiḥ vāyum ākṛṣya nāsā-agram avalokayet . yoga-āsanam bhavet etat yoginām yoga-sādhanam ..38..
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे आसनप्रयोगो नाम द्वितीयोपदेशः समाप्तः ॥
इति श्री-घेरण्डसंहितायाम् घेरण्ड-चण्ड-संवादे आसनप्रयोगः नाम द्वितीय-उपदेशः समाप्तः ॥
iti śrī-gheraṇḍasaṃhitāyām gheraṇḍa-caṇḍa-saṃvāde āsanaprayogaḥ nāma dvitīya-upadeśaḥ samāptaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In