| |
|

This overlay will guide you through the buttons:

चातुर्वर्ण्य-रक्षा-अर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत ॥ १४.१.०१ ॥
चातुर्वर्ण्य-रक्षा-अर्थम् औपनिषदिकम् अधर्मिष्ठेषु प्रयुञ्जीत ॥ १४।१।०१ ॥
cāturvarṇya-rakṣā-artham aupaniṣadikam adharmiṣṭheṣu prayuñjīta .. 14.1.01 ..
काल-कूट-आदिर्विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मभिर्म्लेच्छ-जातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च पर-शरीर-उपभोगेष्ववधातव्यः ॥ १४.१.०२ ॥
काल-कूट-आदिः विष-वर्गः श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशैः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धत्-छद्मभिः म्लेच्छ-जातीयैः अभिप्रेतैः स्त्रीभिः पुम्भिः च पर-शरीर-उपभोगेषु अवधातव्यः ॥ १४।१।०२ ॥
kāla-kūṭa-ādiḥ viṣa-vargaḥ śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśaiḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhat-chadmabhiḥ mleccha-jātīyaiḥ abhipretaiḥ strībhiḥ pumbhiḥ ca para-śarīra-upabhogeṣu avadhātavyaḥ .. 14.1.02 ..
राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानं कुर्युः । सत्त्र-आजीविनश्च रात्रि-चारिणोअग्नि-जीविनश्चाग्नि-निधानं ॥ १४.१.०३ ॥
राज-क्रीडा-भाण्ड-निधान-द्रव्य-उपब्भोगेषु गूढाः शस्त्र-निधानम् कुर्युः । सत्त्र-आजीविनः च रात्रि-चारिणः अग्नि-जीविनः च अग्नि-निधानम् ॥ १४।१।०३ ॥
rāja-krīḍā-bhāṇḍa-nidhāna-dravya-upabbhogeṣu gūḍhāḥ śastra-nidhānam kuryuḥ . sattra-ājīvinaḥ ca rātri-cāriṇaḥ agni-jīvinaḥ ca agni-nidhānam .. 14.1.03 ..
चित्र-भेक-कौण्डिन्यक-कृकण-पञ्च-कुष्ठ-शत-पदी-चूर्णं उच्चि-दिण्ग-कम्बली-शत-कन्द(कर्दम?)-इध्म-कृकलास-चूर्णं गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णं भल्लातक-अवल्गु-जर-सम्युक्तं सद्यः-प्राण-हरम् । एतेषां वा धूमः ॥ १४.१.०४ ॥
(कर्दम?)इध्म-कृकलास-चूर्णम् गृह-गोलिक-अन्ध-अहि-कक्र-कण्टक-पूति-कीट-गोमारिका-चूर्णम् भल्लातक-अवल्गु-जर-सम्युक्तम् सद्यस् प्राण-हरम् । एतेषाम् वा धूमः ॥ १४।१।०४ ॥
(kardama?)idhma-kṛkalāsa-cūrṇam gṛha-golika-andha-ahi-kakra-kaṇṭaka-pūti-kīṭa-gomārikā-cūrṇam bhallātaka-avalgu-jara-samyuktam sadyas prāṇa-haram . eteṣām vā dhūmaḥ .. 14.1.04 ..
कीटो वाअन्यतमस्तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ॥ १४.१.०५अ ब ॥
कीटः वा अ अन्यतमः तप्तः कृष्ण-सर्प-प्रियङ्गुभिः । ॥ १४।१।०५अ ब ॥
kīṭaḥ vā a anyatamaḥ taptaḥ kṛṣṇa-sarpa-priyaṅgubhiḥ . .. 14.1.05a ba ..
शोषयेदेष सम्योगः सद्यः-प्राण-हरो मतः ॥ १४.१.०५च्द् ॥
शोषयेत् एष सम्योगः सद्यस् प्राण-हरः मतः ॥ १४।१।०५च् ॥
śoṣayet eṣa samyogaḥ sadyas prāṇa-haraḥ mataḥ .. 14.1.05c ..
धाम-अर्गव-यातु-धान-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं आर्धमासिकः ॥ १४.१.०६ ॥
धाम-अर्गव-यातु-धान-मूलम् भल्लातक-पुष्प-चूर्ण-युक्तम् आर्धमासिकः ॥ १४।१।०६ ॥
dhāma-argava-yātu-dhāna-mūlam bhallātaka-puṣpa-cūrṇa-yuktam ārdhamāsikaḥ .. 14.1.06 ..
व्याघातक-मूलं भल्लातक-पुष्प-चूर्ण-युक्तं कीट-योगो मासिकः ॥ १४.१.०७ ॥
व्याघातक-मूलम् भल्लातक-पुष्प-चूर्ण-युक्तम् कीट-योगः मासिकः ॥ १४।१।०७ ॥
vyāghātaka-mūlam bhallātaka-puṣpa-cūrṇa-yuktam kīṭa-yogaḥ māsikaḥ .. 14.1.07 ..
कला-मात्रं पुरुषाणाम् । द्वि-गुणं खर-अश्वानाम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ॥ १४.१.०८ ॥
कला-मात्रम् पुरुषाणाम् । द्वि-गुणम् खर-अश्वानाम् । चतुर्-गुणम् हस्ति-उष्ट्राणाम् ॥ १४।१।०८ ॥
kalā-mātram puruṣāṇām . dvi-guṇam khara-aśvānām . catur-guṇam hasti-uṣṭrāṇām .. 14.1.08 ..
शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतो यावच्चरति तावन्मारयति ॥ १४.१.०९ ॥
शत-कर्दम-उच्चिदिङ्ग-कर-वीर-कटु-तुम्बी-मत्स्य-धूमः मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रवात-अनुवाते प्रणीतः यावत् चरति तावत् मारयति ॥ १४।१।०९ ॥
śata-kardama-uccidiṅga-kara-vīra-kaṭu-tumbī-matsya-dhūmaḥ madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā pravāta-anuvāte praṇītaḥ yāvat carati tāvat mārayati .. 14.1.09 ..
पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्र-गोप-चूर्णं पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णं वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तं अन्धी-करो धूमः ॥ १४.१.१० ॥
पूकि-कीट-मस्त्य-कटु-तुम्बी-शत-कर्दम-इध्म-इन्द्रगोप-चूर्णम् पूति-कीट-क्षुद्र-आराला-हेम-विदारी-चूर्णम् वा बस्त-शृङ्ग-खुर-चूर्ण-युक्तम् अन्धी-करः धूमः ॥ १४।१।१० ॥
pūki-kīṭa-mastya-kaṭu-tumbī-śata-kardama-idhma-indragopa-cūrṇam pūti-kīṭa-kṣudra-ārālā-hema-vidārī-cūrṇam vā basta-śṛṅga-khura-cūrṇa-yuktam andhī-karaḥ dhūmaḥ .. 14.1.10 ..
पूति-करञ्ज-पत्त्र-हरि-ताल-मनः-शिला-गुञ्ज-आरक्त-कार्पास-पलाल-अन्य-आस्फोट-काच-गो-शकृद्-रस-पिष्टं अन्धी-करो धूमः ॥ १४.१.११ ॥
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āsphoṭa-kāca-go-śakṛd-rasa-piṣṭaṃ andhī-karo dhūmaḥ || 14.1.11 ||
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āsphoṭa-kāca-go-śakṛd-rasa-piṣṭaṃ andhī-karo dhūmaḥ || 14.1.11 ||
सर्प-निर्मोकं गो-अश्व-पुरीषं अन्ध-अहिक-शिरश्चान्धी-करो धूमः ॥ १४.१.१२ ॥
सर्प-निर्मोकम् गो-अश्व-पुरीषम् अन्ध-अहिक-शिरः-च अन्धी-करः धूमः ॥ १४।१।१२ ॥
sarpa-nirmokam go-aśva-purīṣam andha-ahika-śiraḥ-ca andhī-karaḥ dhūmaḥ .. 14.1.12 ..
पारावत-प्लवक-क्रव्य-अदानां हस्ति-नर-वराहाणां च मूत्र-पुरीषं कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनां च बीजानि गो-मूत्रिका-भाण्डी-मूलं निम्ब-शिग्रु-फणिर्ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णं इत्येष धूमो मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशो ॥ १४.१.१३ ॥
पारावत-प्लवक-क्रव्य-अदानाम् हस्ति-नर-वराहाणाम् च मूत्र-पुरीषम् कासीस-हिङ्गु-यव-तुष-कण-तण्डुलाः कार्पास-कुटज-कोश-अतकीनाम् च बीजानि गो-मूत्रिका-भाण्डी-मूलम् निम्ब-शिग्रु-फणिः ज-काक्षीव-पीलुक-भङ्गः सर्प-शफरी-चर्म हस्ति-नख-शृङ्ग-चूर्णम् इति एष धूमः मदन-कोद्रव-पलालेन हस्ति-कर्ण-पलाश-पलालेन वा प्रणीतः प्रत्येकशः ॥ १४।१।१३ ॥
pārāvata-plavaka-kravya-adānām hasti-nara-varāhāṇām ca mūtra-purīṣam kāsīsa-hiṅgu-yava-tuṣa-kaṇa-taṇḍulāḥ kārpāsa-kuṭaja-kośa-atakīnām ca bījāni go-mūtrikā-bhāṇḍī-mūlam nimba-śigru-phaṇiḥ ja-kākṣīva-pīluka-bhaṅgaḥ sarpa-śapharī-carma hasti-nakha-śṛṅga-cūrṇam iti eṣa dhūmaḥ madana-kodrava-palālena hasti-karṇa-palāśa-palālena vā praṇītaḥ pratyekaśaḥ .. 14.1.13 ..
॥ यावच्चरति तावन्मारयति ॥
॥ यावत् चरति तावत् मारयति ॥
.. yāvat carati tāvat mārayati ..
काली-कुष्ठ-नड-शतावली-मूलं सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णं वा धूमः पूर्व-कल्पेनऽर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनां नेत्रघ्नः ॥ १४.१.१४ ॥
काली-कुष्ठ-नड-शतावली-मूलम् सर्प-प्रचलाक-कृकण-पञ्च-कुष्ठ-चूर्णम् वा धूमः पूर्व-कल्पेन अर्द्र-शुष्क-पलालेन वा प्रणीतः संग्राम-अवतरण-अवस्कन्दन-संकुलेषु कृत-नेजन-उदक-अक्षि-प्रतीकारैः प्रणीतः सर्व-प्राणिनाम् नेत्र-घ्नः ॥ १४।१।१४ ॥
kālī-kuṣṭha-naḍa-śatāvalī-mūlam sarpa-pracalāka-kṛkaṇa-pañca-kuṣṭha-cūrṇam vā dhūmaḥ pūrva-kalpena ardra-śuṣka-palālena vā praṇītaḥ saṃgrāma-avataraṇa-avaskandana-saṃkuleṣu kṛta-nejana-udaka-akṣi-pratīkāraiḥ praṇītaḥ sarva-prāṇinām netra-ghnaḥ .. 14.1.14 ..
शारिका-कपोत-बक-बलाका-लेण्डं अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टं अन्धी-करणं अञ्जनं उदक-दूषणं च ॥ १४.१.१५ ॥
शारिका-कपोत-बक-बलाका-लेण्डम् अर्क-अक्षि-पीलुक-स्नुहि-क्षीर-पिष्टम् अन्धी-करणम् अञ्जनम् उदक-दूषणम् च ॥ १४।१।१५ ॥
śārikā-kapota-baka-balākā-leṇḍam arka-akṣi-pīluka-snuhi-kṣīra-piṣṭam andhī-karaṇam añjanam udaka-dūṣaṇam ca .. 14.1.15 ..
यवक-शालि-मूल-मदन-फल-जाती-पत्त्र-नर-मूत्र-योगः प्लक्ष-विदारी-मूल-युक्तो मूक-उदुम्बर-मदन-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ॥ १४.१.१६ ॥
वा ॥ १४।१।१६ ॥
vā .. 14.1.16 ..
शृङ्गि-गौतम-वृक-कण्टक-अर-मयूर-पदी-योगो गुञ्जा-लाङ्गली-विष-मूलिक-इङ्गुदी-योगः कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगो मद्न-कोद्रव-क्वाथ-युक्तो हस्ति-कर्ण-पलाश-क्वाथ-युक्तो वा मदन-योगः ॥ १४.१.१७ ॥
कर-वीर-अक्षि-पीलुक-अर्क-मृग-मारणी-योगः मद्न-कोद्रव-क्वाथ-युक्तः हस्ति-कर्ण-पलाश-क्वाथ-युक्तः वा मदन-योगः ॥ १४।१।१७ ॥
kara-vīra-akṣi-pīluka-arka-mṛga-māraṇī-yogaḥ madna-kodrava-kvātha-yuktaḥ hasti-karṇa-palāśa-kvātha-yuktaḥ vā madana-yogaḥ .. 14.1.17 ..
समस्ता वा यवस-इन्धन-उदक-दूषणाः ॥ १४.१.१८ ॥
समस्ताः वा यवस-इन्धन-उदक-दूषणाः ॥ १४।१।१८ ॥
samastāḥ vā yavasa-indhana-udaka-dūṣaṇāḥ .. 14.1.18 ..
कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमो नेत्र-वधं उन्मादं च करोति ॥ १४.१.१९ ॥
कृत-कण्डल-कृकलास-गृह-गोलिक-अन्ध-अहिक-धूमः नेत्र-वधम् उन्मादम् च करोति ॥ १४।१।१९ ॥
kṛta-kaṇḍala-kṛkalāsa-gṛha-golika-andha-ahika-dhūmaḥ netra-vadham unmādam ca karoti .. 14.1.19 ..
कृकलास-गृह-गोलिका-योगः कुष्ठ-करः ॥ १४.१.२० ॥
kṛkalāsa-gṛha-golikā-yogaḥ kuṣṭha-karaḥ || 14.1.20 ||
kṛkalāsa-gṛha-golikā-yogaḥ kuṣṭha-karaḥ || 14.1.20 ||
स एव चित्रं एक-अन्त्र-मधु-युक्तः प्रमेहं आपादयति । मनुष्य-लोहित-युक्तः शोषं ॥ १४.१.२१ ॥
सः एव चित्रम् एक-अन्त्र-मधु-युक्तः प्रमेहम् आपादयति । मनुष्य-लोहित-युक्तः शोषम् ॥ १४।१।२१ ॥
saḥ eva citram eka-antra-madhu-yuktaḥ prameham āpādayati . manuṣya-lohita-yuktaḥ śoṣam .. 14.1.21 ..
दूषी-विषं मदन-कोद्रव-चूर्णं अपजिह्विका-योगः ॥ १४.१.२२ ॥
dūṣī-viṣaṃ madana-kodrava-cūrṇaṃ apajihvikā-yogaḥ || 14.1.22 ||
dūṣī-viṣaṃ madana-kodrava-cūrṇaṃ apajihvikā-yogaḥ || 14.1.22 ||
मातृ-वाहक-अञ्जलि-कार-प्रचलाक-भेक-अक्षि-पीलुक-योगो विषूचिका-करः ॥ १४.१.२३ ॥
कार ॥ १४।१।२३ ॥
kāra .. 14.1.23 ..
पञ्च-कुष्ठक-कौण्डिन्य-कराज-वृक्ष-पुष्प-मधु-योगो ज्वर-करः ॥ १४.१.२४ ॥
कराज-वृक्ष-पुष्प- ॥ १४।१।२४ ॥
karāja-vṛkṣa-puṣpa- .. 14.1.24 ..
भासन-कुल-जिह्वा-ग्रन्थिका-योगः खरी-क्षीर-पिष्टो मूक-बधिर--करो मास-अर्ध-मासिकः ॥ १४.१.२५ ॥
bhāsana-kula-jihvā-granthikā-yogaḥ kharī-kṣīra-piṣṭo mūka-badhira--karo māsa-ardha-māsikaḥ || 14.1.25 ||
bhāsana-kula-jihvā-granthikā-yogaḥ kharī-kṣīra-piṣṭo mūka-badhira--karo māsa-ardha-māsikaḥ || 14.1.25 ||
कला-मात्रं पुरुषाणां इत्समानं पूर्वेण ॥ १४.१.२६ ॥
कला-मात्रम् पुरुषाणाम् इत् समानम् पूर्वेण ॥ १४।१।२६ ॥
kalā-mātram puruṣāṇām it samānam pūrveṇa .. 14.1.26 ..
भङ्ग-क्वाथ-उपनयनं औषधानाम् । चूर्णं प्राण-भृताम् । सर्वेषां वा क्वाथ-उपनयनम् । एवं वीर्यवत्तरं भव्ति ॥ १४.१.२७ ॥
भङ्ग-क्वाथ-उपनयनम् औषधानाम् । चूर्णम् प्राण-भृताम् । सर्वेषाम् वा क्वाथ-उपनयनम् । एवम् वीर्यवत्तरम् भवति ॥ १४।१।२७ ॥
bhaṅga-kvātha-upanayanam auṣadhānām . cūrṇam prāṇa-bhṛtām . sarveṣām vā kvātha-upanayanam . evam vīryavattaram bhavati .. 14.1.27 ..
इति योग-सम्पत् ॥ १४.१.२८ ॥
इति योग-सम्पद् ॥ १४।१।२८ ॥
iti yoga-sampad .. 14.1.28 ..
शाल्मली विदारी-धान्य-सिद्धो मूल-वत्स-नाभ-सम्युक्तश्चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोअन्यान्दश-पुरुषान्दशति । ते दष्टा दशान्यान्दशन्ति पुरुषान् ॥ १४.१.२९ ॥
शाल्मली विदारी-धान्य-सिद्धः मूल-वत्स-नाभ-सम्युक्तः चुच्छुन्दरी-शोणित-प्रलेपेन दिग्धः बाणः यम् विध्यति स विद्धः अन्यान् दश-पुरुषान् दशति । ते दष्टाः दश अन्यान् दशन्ति पुरुषान् ॥ १४।१।२९ ॥
śālmalī vidārī-dhānya-siddhaḥ mūla-vatsa-nābha-samyuktaḥ cucchundarī-śoṇita-pralepena digdhaḥ bāṇaḥ yam vidhyati sa viddhaḥ anyān daśa-puruṣān daśati . te daṣṭāḥ daśa anyān daśanti puruṣān .. 14.1.29 ..
बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानां पुष्पैरेलक-अक्षि-गुग्गुलु-हालाहलानां च कषायं बस्त-नर-शोणित-युक्तं दंश-योगः ॥ १४.१.३० ॥
बल्लातक-यातु-धानाव-अनुधा-मार्गव-बाणानाम् पुष्पैः एलक-अक्षि-गुग्गुलु-हालाहलानाम् च कषायम् बस्त-नर-शोणित-युक्तम् दंश-योगः ॥ १४।१।३० ॥
ballātaka-yātu-dhānāva-anudhā-mārgava-bāṇānām puṣpaiḥ elaka-akṣi-guggulu-hālāhalānām ca kaṣāyam basta-nara-śoṇita-yuktam daṃśa-yogaḥ .. 14.1.30 ..
ततोअर्ध-धरणिको योगः सक्तु-पिण्याकाभ्यां उदके प्रणीतो धनुः-शत-आयामं उदक-आशयं दूषयति ॥ १४.१.३१ ॥
ततोअर्ध-धरणिकः योगः सक्तु-पिण्याकाभ्याम् उदके प्रणीतः धनुः-शत-आयामम् उदक-आशयम् दूषयति ॥ १४।१।३१ ॥
tatoardha-dharaṇikaḥ yogaḥ saktu-piṇyākābhyām udake praṇītaḥ dhanuḥ-śata-āyāmam udaka-āśayam dūṣayati .. 14.1.31 ..
मत्स्य-परम्परा ह्येतेन दष्टाअभिमृष्टा वा विषी-भवति । यश्चएतदुदकं पिबति स्पृशति वा ॥ १४.१.३२ ॥
मत्स्य-परम्परा हि एतेन दष्टा अभिमृष्टा वा । यः च एतत् उदकम् पिबति स्पृशति वा ॥ १४।१।३२ ॥
matsya-paramparā hi etena daṣṭā abhimṛṣṭā vā . yaḥ ca etat udakam pibati spṛśati vā .. 14.1.32 ..
रक्त-श्वेत-सर्षपैर्गोधा त्रि-पक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येनौद्धृता यावत्पश्यति तावन्मारयति । कृष्ण-सर्पो वा ॥ १४.१.३३ ॥
रक्त-श्वेत-सर्षपैः गोधा त्रि-पक्षम् उष्ट्रिकायाम् भूमौ निखातायाम् निहिता वध्येन औद्धृता यावत् पश्यति तावत् मारयति । कृष्ण-सर्पः वा ॥ १४।१।३३ ॥
rakta-śveta-sarṣapaiḥ godhā tri-pakṣam uṣṭrikāyām bhūmau nikhātāyām nihitā vadhyena auddhṛtā yāvat paśyati tāvat mārayati . kṛṣṇa-sarpaḥ vā .. 14.1.33 ..
विद्युत्-प्रदग्धोअङ्गारो ज्वालो वा विद्युत्-प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाअभिहुतोअग्निः प्रणीतश्च निस्प्रतीकारो दहति ॥ १४.१.३४ ॥
विद्युत्-प्रदग्धः अङ्गारः ज्वालः वा विद्युत्-प्रदग्धैः काष्ठैः गृहीतः च अनुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणा अभिहुतः अग्निः प्रणीतः च निस्प्रतीकारः दहति ॥ १४।१।३४ ॥
vidyut-pradagdhaḥ aṅgāraḥ jvālaḥ vā vidyut-pradagdhaiḥ kāṣṭhaiḥ gṛhītaḥ ca anuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇā abhihutaḥ agniḥ praṇītaḥ ca nispratīkāraḥ dahati .. 14.1.34 ..
कर्मारादग्निं आहृत्य क्षौद्रेण जुहुयात्पृथक् । ॥ १४.१.३५अ ब ॥
कर्मारात् अग्निम् आहृत्य क्षौद्रेण जुहुयात् पृथक् । ॥ १४।१।३५अ ब ॥
karmārāt agnim āhṛtya kṣaudreṇa juhuyāt pṛthak . .. 14.1.35a ba ..
सुरया शौण्डिकादग्निं मार्गतोअग्निं घृतेन च ॥ १४.१.३५च्द् ॥
सुरया शौण्डिकात् अग्निम् मार्गतः अग्निम् घृतेन च ॥ १४।१।३५च् ॥
surayā śauṇḍikāt agnim mārgataḥ agnim ghṛtena ca .. 14.1.35c ..
माल्येन चएक-पत्न्य्-अग्निं पुंश्चल्य्-अग्निं च सर्षपैः । ॥ १४.१.३६अ ब ॥
माल्येन च एक-पत्नी-अग्निम् पुंश्चली-अग्निम् च सर्षपैः । ॥ १४।१।३६अ ब ॥
mālyena ca eka-patnī-agnim puṃścalī-agnim ca sarṣapaiḥ . .. 14.1.36a ba ..
दध्ना च सूतिकास्वग्निं आहित-अग्निं च तण्डुलैः ॥ १४.१.३६च्द् ॥
दध्ना च सूतिकासु अग्निम् आहित-अग्निम् च तण्डुलैः ॥ १४।१।३६च् ॥
dadhnā ca sūtikāsu agnim āhita-agnim ca taṇḍulaiḥ .. 14.1.36c ..
चण्डाल-अग्निं च मांसेन चित-अग्निं मानुषेण च ॥ १४.१.३७अ ब ॥
चण्डाल-अग्निम् च मांसेन चित-अग्निम् मानुषेण च ॥ १४।१।३७अ ब ॥
caṇḍāla-agnim ca māṃsena cita-agnim mānuṣeṇa ca .. 14.1.37a ba ..
समस्तान्बस्त-वसया मानुषेण ध्रुवेण च ॥ १४.१.३७च्द् ॥
समस्तान् बस्त-वसया मानुषेण ध्रुवेण च ॥ १४।१।३७च् ॥
samastān basta-vasayā mānuṣeṇa dhruveṇa ca .. 14.1.37c ..
जुहुयादग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ॥ १४.१.३८अ ब ॥
जुहुयात् अग्नि-मन्त्रेण राज-वृक्षस्य दारुभिः । ॥ १४।१।३८अ ब ॥
juhuyāt agni-mantreṇa rāja-vṛkṣasya dārubhiḥ . .. 14.1.38a ba ..
एष निष्प्रतिकारोअग्निर्द्विषतां नेत्र-मोहनः ॥ १४.१.३८च्द् ॥
एष निष्प्रतिकारः अग्निः द्विषताम् नेत्र-मोहनः ॥ १४।१।३८च् ॥
eṣa niṣpratikāraḥ agniḥ dviṣatām netra-mohanaḥ .. 14.1.38c ..
अदिते नमस्ते । अनुमते नमस्ते । सरस्वति नमस्ते । देव सवितर्नमास्ते ॥ १४.१.३९ ॥
अदिते नमः ते । अनुमते नमः ते । सरस्वति नमः ते । देव सवितर् नमः अस्ते ॥ १४।१।३९ ॥
adite namaḥ te . anumate namaḥ te . sarasvati namaḥ te . deva savitar namaḥ aste .. 14.1.39 ..
अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ॥ १४.१.४० ॥
अग्नये स्वाहा । सोमाय स्वाहा । भूः स्वाहा भुवः स्वाहा ॥ १४।१।४० ॥
agnaye svāhā . somāya svāhā . bhūḥ svāhā bhuvaḥ svāhā .. 14.1.40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In