| |
|

This overlay will guide you through the buttons:

शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ॥ १४.२.०१ ॥
शिरीष-उदुम्बर-शमी-चूर्णम् सर्पिषा संहृत्य अर्ध-मासिकः क्षुध्-योगः ॥ १४।२।०१ ॥
śirīṣa-udumbara-śamī-cūrṇam sarpiṣā saṃhṛtya ardha-māsikaḥ kṣudh-yogaḥ .. 14.2.01 ..
कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ॥ १४.२.०२ ॥
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ || 14.2.02 ||
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ || 14.2.02 ||
माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ॥ १४.२.०३ ॥
माष-यव-कुलत्थ-दर्भ-मूल-चूर्णम् वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतम् वा सम-सिद्धम् । साल-पृश्निपर्णी-मूल-कल्कम् पयसा पीत्वा । पयः वा तत् सिद्धम् मधु-घृताभ्याम् अशित्वा मासम् उपवसति ॥ १४।२।०३ ॥
māṣa-yava-kulattha-darbha-mūla-cūrṇam vā kṣīra-ghṛtābhyām . vallī-kṣīra-ghṛtam vā sama-siddham . sāla-pṛśniparṇī-mūla-kalkam payasā pītvā . payaḥ vā tat siddham madhu-ghṛtābhyām aśitvā māsam upavasati .. 14.2.03 ..
श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ॥ १४.२.०४ ॥
श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धम् तैलम् कटुक-आलाबौ मास-अर्ध-मास-स्थितम् चतुष्पद-द्वि-पदानाम् विरूप-करणम् ॥ १४।२।०४ ॥
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddha-arthakaiḥ siddham tailam kaṭuka-ālābau māsa-ardha-māsa-sthitam catuṣpada-dvi-padānām virūpa-karaṇam .. 14.2.04 ..
तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ॥ १४.२.०५ ॥
तक्र-यव-भक्षस्य सप्त-रात्रात् ऊर्ध्वम् श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धम् गौर-सर्षप-तैलम् विरूप-करणम् ॥ १४।२।०५ ॥
takra-yava-bhakṣasya sapta-rātrāt ūrdhvam śveta-gardabhasya leṇḍa-yavaiḥ siddham gaura-sarṣapa-tailam virūpa-karaṇam .. 14.2.05 ..
एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ॥ १४.२.०६ ॥
एतयोः अन्यतरस्य मूत्र-लेण्द-रस-सिद्धम् सिद्ध-अर्थक-तैलम् अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापम् श्वेती-करणम् ॥ १४।२।०६ ॥
etayoḥ anyatarasya mūtra-leṇda-rasa-siddham siddha-arthaka-tailam arka-tūla-pataṅga-cūrṇa-pratīvāpam śvetī-karaṇam .. 14.2.06 ..
श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ॥ १४.२.०७ ॥
श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणम् ॥ १४।२।०७ ॥
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇam .. 14.2.07 ..
श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ॥ १४.२.०८ ॥
श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अ स्तक्र-(?)धान्यम् च पक्ष-स्थितः योगः श्वेती-करणम् ॥ १४।२।०८ ॥
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-a stakra-(?)dhānyam ca pakṣa-sthitaḥ yogaḥ śvetī-karaṇam .. 14.2.08 ..
कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ॥ १४.२.०९ ॥
कटुक-अलाबौ वली-गते गतम् अर्ध-मास-स्थितम् गौर-सर्षप-पिष्टम् रोम्णाम् श्वेती-करणम् ॥ १४।२।०९ ॥
kaṭuka-alābau valī-gate gatam ardha-māsa-sthitam gaura-sarṣapa-piṣṭam romṇām śvetī-karaṇam .. 14.2.09 ..
अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ॥ १४.२.१०अ ब ॥
अलोजुना इति यः कीटः श्वेता च गृह-गोलिका । ॥ १४।२।१०अ ब ॥
alojunā iti yaḥ kīṭaḥ śvetā ca gṛha-golikā . .. 14.2.10a ba ..
एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ॥ १४.२.१०च्द् ॥
एतेन पिष्तेन अभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ॥ १४।२।१०च् ॥
etena piṣtena abhyaktāḥ keśāḥ syuḥ śaṅkha-pāṇḍarāḥ .. 14.2.10c ..
गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ॥ १४.२.११ ॥
गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ॥ १४।२।११ ॥
gomayena tinduka-ariṣṭa-kalkena vā mardita-aṅgasya bhallātaka-rasa-anuliptasya māsikaḥ kuṣṭha-yogaḥ .. 14.2.11 ..
कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ॥ १४.२.१२ ॥
कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिताः गुज्जाः कुष्ठ-योगः ॥ १४।२।१२ ॥
kṛṣṇa-sarpa-mukhe gṛha-golikā-mukhe vā sapta-rātra-uṣitāḥ gujjāḥ kuṣṭha-yogaḥ .. 14.2.12 ..
शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ॥ १४.२.१३ ॥
शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ॥ १४।२।१३ ॥
śuka-pitta-aṇḍa-rasa-abhyaṅgaḥ kuṣṭha-yogaḥ .. 14.2.13 ..
कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ॥ १४.२.१४ ॥
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ || 14.2.14 ||
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ || 14.2.14 ||
कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ॥ १४.२.१५ ॥
कुक्कुट-कोश-अतकी(?)मूल-युक्तम् आहारयमाणः मासेन गौरः भवति ॥ १४।२।१५ ॥
kukkuṭa-kośa-atakī(?)mūla-yuktam āhārayamāṇaḥ māsena gauraḥ bhavati .. 14.2.15 ..
वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ॥ १४.२.१६ ॥
भवति ॥ १४।२।१६ ॥
bhavati .. 14.2.16 ..
शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ॥ १४.२.१७ ॥
शकुन-कण्गु-तैल-युक्ताः हरि-ताल-मनः-शिलाः श्यामी-करणम् ॥ १४।२।१७ ॥
śakuna-kaṇgu-taila-yuktāḥ hari-tāla-manaḥ-śilāḥ śyāmī-karaṇam .. 14.2.17 ..
ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ॥ १४.२.१८ ॥
ज्वलति ॥ १४।२।१८ ॥
jvalati .. 14.2.18 ..
ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ॥ १४.२.१९ ॥
ख-द्योत-गण्डू-पद-चूर्णम् समुद्र-जन्तूनाम् भृङ्ग-कपालानाम् खदिर-कर्णिकाराणाम् पुष्प-चूर्णम् वा शकुन-कङ्गु-तैल-युक्तम् तेजन-चूर्णम् ॥ १४।२।१९ ॥
kha-dyota-gaṇḍū-pada-cūrṇam samudra-jantūnām bhṛṅga-kapālānām khadira-karṇikārāṇām puṣpa-cūrṇam vā śakuna-kaṅgu-taila-yuktam tejana-cūrṇam .. 14.2.19 ..
पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ॥ १४.२.२० ॥
पारिभद्रक-त्वद्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनम् अग्निना ॥ १४।२।२० ॥
pāribhadraka-tvad-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanam agninā .. 14.2.20 ..
परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ॥ १४.२.२१ ॥
परिभद्रक-त्वच्-तिल-कल्क-प्रदिग्धम् शरीरम् अग्निना ज्वलति ॥ १४।२।२१ ॥
paribhadraka-tvac-tila-kalka-pradigdham śarīram agninā jvalati .. 14.2.21 ..
पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ॥ १४.२.२२ ॥
पीलु-त्वद्-मषी-मयः पिण्डः हस्ते ज्वलति ॥ १४।२।२२ ॥
pīlu-tvad-maṣī-mayaḥ piṇḍaḥ haste jvalati .. 14.2.22 ..
मण्डूक-वसा-दिग्धोअग्निना ज्वलति ॥ १४.२.२३ ॥
मण्डूक-वसा-दिग्धः अग्निना ज्वलति ॥ १४।२।२३ ॥
maṇḍūka-vasā-digdhaḥ agninā jvalati .. 14.2.23 ..
तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ॥ १४.२.२४ ॥
तेन प्रदिग्धम् अङ्गम् कुश-आम्र-फल-तैल-सिक्तम् समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तम् वा ज्वलति ॥ १४।२।२४ ॥
tena pradigdham aṅgam kuśa-āmra-phala-taila-siktam samudra-maṇḍūkī-phenaka-sarja-rasa-cūrṇa-yuktam vā jvalati .. 14.2.24 ..
मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ॥ १४.२.२५ ॥
मण्डूक-कुलीर-आदीनाम् वसया सम-भागम् तैलम् सिद्धम् अभ्यङ्गम् गात्राणाम् अग्नि-प्रज्वालनम् ॥ १४।२।२५ ॥
maṇḍūka-kulīra-ādīnām vasayā sama-bhāgam tailam siddham abhyaṅgam gātrāṇām agni-prajvālanam .. 14.2.25 ..
वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ॥ १४.२.२६ ॥
वेणु-मूल-शैवल-लिप्तम् अङ्गम् मण्डूक-वसा-दिग्धम् अग्निना ज्वलति ॥ १४।२।२६ ॥
veṇu-mūla-śaivala-liptam aṅgam maṇḍūka-vasā-digdham agninā jvalati .. 14.2.26 ..
पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ॥ १४.२.२७ ॥
पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेन अभ्यक्त-पाद-अङ्गारेषु गच्छति ॥ १४।२।२७ ॥
pāribhadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddhena tailena abhyakta-pāda-aṅgāreṣu gacchati .. 14.2.27 ..
उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ॥ १४.२.२८अ ब ॥
उप उदका प्रतिबला वञ्जुलः पारिभद्रकः । ॥ १४।२।२८अ ब ॥
upa udakā pratibalā vañjulaḥ pāribhadrakaḥ . .. 14.2.28a ba ..
एतेषां मूल-कल्केन मण्डूक-वसया सह ॥ १४.२.२८च्द् ॥
एतेषाम् मूल-कल्केन मण्डूक-वसया सह ॥ १४।२।२८च् ॥
eteṣām mūla-kalkena maṇḍūka-vasayā saha .. 14.2.28c ..
साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ॥ १४.२.२९अ ब ॥
साधयेत् तैलम् एतेन पादौ अभ्यज्य निर्मलौ । ॥ १४।२।२९अ ब ॥
sādhayet tailam etena pādau abhyajya nirmalau . .. 14.2.29a ba ..
अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ॥ १४.२.२९च्द् ॥
अङ्गार-राशौ विचरेत् यथा कुसुम-संचये ॥ १४।२।२९च् ॥
aṅgāra-rāśau vicaret yathā kusuma-saṃcaye .. 14.2.29c ..
हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ॥ १४.२.३० ॥
हंस-क्रौञ्च-मयूराणाम् अन्येषाम् वा महा-शकुनीनाम् उदक-प्लवानाम् पुच्छेषु बद्धा नल-दीपिका रात्रौ उल्का-दर्शनम् ॥ १४।२।३० ॥
haṃsa-krauñca-mayūrāṇām anyeṣām vā mahā-śakunīnām udaka-plavānām puccheṣu baddhā nala-dīpikā rātrau ulkā-darśanam .. 14.2.30 ..
वैद्युतं भस्म-अङ्गि-शमनं ॥ १४.२.३१ ॥
vaidyutaṃ bhasma-aṅgi-śamanaṃ || 14.2.31 ||
vaidyutaṃ bhasma-aṅgi-śamanaṃ || 14.2.31 ||
स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ॥ १४.२.३२ ॥
स्त्री-पुष्प-पायिताः माषाः व्रजकुली-मूलम् मण्डूक-वसा-मिश्रम् चुल्लुयाम् दीप्तायाम् अपाचनम् ॥ १४।२।३२ ॥
strī-puṣpa-pāyitāḥ māṣāḥ vrajakulī-mūlam maṇḍūka-vasā-miśram culluyām dīptāyām apācanam .. 14.2.32 ..
चुल्ली-शोधनं प्रतीकारः ॥ १४.२.३३ ॥
cullī-śodhanaṃ pratīkāraḥ || 14.2.33 ||
cullī-śodhanaṃ pratīkāraḥ || 14.2.33 ||
पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ॥ १४.२.३४ ॥
पीलु-मयः मणिः अग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिः वा पिचु-परिवेष्टितः मुख्यात् अग्नि-धूम-उत्सर्गः ॥ १४।२।३४ ॥
pīlu-mayaḥ maṇiḥ agni-garbhaḥ suvarcalā-mūla-granthiḥ sūtra-granthiḥ vā picu-pariveṣṭitaḥ mukhyāt agni-dhūma-utsargaḥ .. 14.2.34 ..
कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ॥ १४.२.३५ ॥
कुश-आम्र-फल-तैल-सिक्तः अग्निः वर्ष-प्रवातेषु ज्वलति ॥ १४।२।३५ ॥
kuśa-āmra-phala-taila-siktaḥ agniḥ varṣa-pravāteṣu jvalati .. 14.2.35 ..
समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ॥ १४.२.३६ ॥
समुद्र-फेनकः तैल-युक्तः अम्भसि प्लवमानः ज्वलति ॥ १४।२।३६ ॥
samudra-phenakaḥ taila-yuktaḥ ambhasi plavamānaḥ jvalati .. 14.2.36 ..
प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ॥ १४.२.३७ ॥
प्लवमानानाम् अस्थिषु कल्माष-वेणुना निर्मथितः अग्निः न औदकेन शाम्यति । उदकेन ज्वलति ॥ १४।२।३७ ॥
plavamānānām asthiṣu kalmāṣa-veṇunā nirmathitaḥ agniḥ na audakena śāmyati . udakena jvalati .. 14.2.37 ..
शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ॥ १४.२.३८ ॥
शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितः अग्निः स्त्रियाः पुरुषस्य वा अस्थिषु मनुष्य-पर्शुकया निर्मथितः अग्निः यत्र त्रिस् अपसव्यम् गच्छति न च अत्र अन्यः अग्निः ज्वलति ॥ १४।२।३८ ॥
śastra-hatasya śūla-protasya vā puruṣasya vāma-pārśva-parśuka-asthiṣu kalmāṣa-veṇunā nirmathitaḥ agniḥ striyāḥ puruṣasya vā asthiṣu manuṣya-parśukayā nirmathitaḥ agniḥ yatra tris apasavyam gacchati na ca atra anyaḥ agniḥ jvalati .. 14.2.38 ..
चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ॥ १४.२.३९अ ब ॥
चुच्चुन्दरी खञ्जरीटः खार-कीटः च पिष्यते । ॥ १४।२।३९अ ब ॥
cuccundarī khañjarīṭaḥ khāra-kīṭaḥ ca piṣyate . .. 14.2.39a ba ..
अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ॥ १४.२.३९च्द् ॥
अश्व-मूत्रेण संसृष्टाः निगलानाम् तु भञ्जनम् ॥ १४।२।३९च् ॥
aśva-mūtreṇa saṃsṛṣṭāḥ nigalānām tu bhañjanam .. 14.2.39c ..
अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ॥ १४.२.४० ॥
अयः-कान्तः वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ॥ १४।२।४० ॥
ayaḥ-kāntaḥ vā pāṣāṇaḥ kulīra-dardura-khāra-kīṭa-vasā-pradehena dvi-guṇaḥ .. 14.2.40 ..
नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ॥ १४.२.४१ ॥
नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टः चतुष्पद-द्वि-पदानाम् पाद-लेपः ॥ १४।२।४१ ॥
nāraka-garbhaḥ kaṅka-bhāsa-pārśva-utpala-udaka-piṣṭaḥ catuṣpada-dvi-padānām pāda-lepaḥ .. 14.2.41 ..
उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ॥ १४.२.४२ ॥
उलूक-गृध्र-वसाभ्याम् उष्ट्र-चर्म-उपानहौ अभ्यज्य वट-पत्त्रैः प्रतिच्छाद्य पञ्चाशत्-योजनानि अश्रान्तः गच्छति ॥ १४।२।४२ ॥
ulūka-gṛdhra-vasābhyām uṣṭra-carma-upānahau abhyajya vaṭa-pattraiḥ praticchādya pañcāśat-yojanāni aśrāntaḥ gacchati .. 14.2.42 ..
श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ॥ १४.२.४३ ॥
श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानाम् मज्जानः रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानाम् मज्जानः रेतांसि वा ॥ १४।२।४३ ॥
śyena-kaṅka-kāka-gṛdhra-haṃsa-krauñca-vīcī-rallānām majjānaḥ retāṃsi vā yojana-śatāya . siṃha-vyāghra-dvīpa-kāka-ulūkānām majjānaḥ retāṃsi vā .. 14.2.43 ..
सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ॥ १४.२.४४ ॥
सार्ववर्णिकानि गर्भ-पतनानि उष्ट्रिकायाम् अभिषूय श्मशाने प्रेत-शिशून् वा तद्-समुत्थितम् मेदः योजन-शताय ॥ १४।२।४४ ॥
sārvavarṇikāni garbha-patanāni uṣṭrikāyām abhiṣūya śmaśāne preta-śiśūn vā tad-samutthitam medaḥ yojana-śatāya .. 14.2.44 ..
अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ॥ १४.२.४५अ ॥
अनिष्टैः अद्भुत-उत्पातैः परस्य औद्वेगम् आचरेत् । ॥ १४।२।४५अ ॥
aniṣṭaiḥ adbhuta-utpātaiḥ parasya audvegam ācaret . .. 14.2.45a ..
आराज्यायैति निर्वादः समानः कोप उच्यते ॥ १४.२.४५ब ॥
आराज्याय एति निर्वादः समानः कोपः उच्यते ॥ १४।२।४५ब ॥
ārājyāya eti nirvādaḥ samānaḥ kopaḥ ucyate .. 14.2.45ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In