| |
|

This overlay will guide you through the buttons:

मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानां अन्येषां वा निशा-चराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥ १४.३.०१ ॥
मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानाम् अन्येषाम् वा निशा-चराणाम् सत्त्वानाम् एकस्य द्वयोः बहूनाम् वा दक्षिणानि वामानि च अक्षीणि गृहीत्वा द्विधा चूर्णम् कारयेत् ॥ १४।३।०१ ॥
mārjāra-uṣṭra-vṛka-varāha-śva-avi-dvāgulī-naptṛ-kāka-ulūkānām anyeṣām vā niśā-carāṇām sattvānām ekasya dvayoḥ bahūnām vā dakṣiṇāni vāmāni ca akṣīṇi gṛhītvā dvidhā cūrṇam kārayet .. 14.3.01 ..
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥ १४.३.०२ ॥
ततस् दक्षिणम् वामेन वामम् दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥ १४।३।०२ ॥
tatas dakṣiṇam vāmena vāmam dakṣiṇena samabhyajya rātrau tamasi ca paśyati .. 14.3.02 ..
एक-आम्लकं वराह-अक्षि ख-द्योतः काल-शारिवा । ॥ १४.३.०३अ ब ॥
। ॥ १४।३।०३अ ब ॥
. .. 14.3.03a ba ..
एतेनाभ्यक्त-नयनो रात्रौ रूपाणि पश्यति ॥ १४.३.०३च्द् ॥
एतेन अभ्यक्त-नयनः रात्रौ रूपाणि पश्यति ॥ १४।३।०३च् ॥
etena abhyakta-nayanaḥ rātrau rūpāṇi paśyati .. 14.3.03c ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ॥ १४.३.०४ ॥
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायाम् यवान् आवास्य अवि-क्षीरेण सेचयेत् ॥ १४।३।०४ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyām yavān āvāsya avi-kṣīreṇa secayet .. 14.3.04 ..
ततो यव-विरूढ-मालां आबध्य नष्टच्-छाया-रूपश्चरति ॥ १४.३.०५ ॥
ततस् यव-विरूढ-मालाम् आबध्य नष्ट-छाया-रूपः चरति ॥ १४।३।०५ ॥
tatas yava-virūḍha-mālām ābadhya naṣṭa-chāyā-rūpaḥ carati .. 14.3.05 ..
त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ॥ १४.३.०६ ॥
त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनाम् दक्षिणानि वामानि च अक्षीणि द्विधा चूर्णम् कारयेत् ॥ १४।३।०६ ॥
tri-ratra-upoṣitaḥ puṣyeṇa śva-mārjāra-ulūka-vāgulīnām dakṣiṇāni vāmāni ca akṣīṇi dvidhā cūrṇam kārayet .. 14.3.06 ..
ततो यथा-स्वं अभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ॥ १४.३.०७ ॥
ततस् यथा स्वम् अभ्यक्त-अक्षः नष्टत्-छाया-रूपः चरति ॥ १४।३।०७ ॥
tatas yathā svam abhyakta-akṣaḥ naṣṭat-chāyā-rūpaḥ carati .. 14.3.07 ..
त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत् ॥ १४.३.०८ ॥
त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकाम् अञ्जनीम् च कारयेत् ॥ १४।३।०८ ॥
tri-rātra-upoṣitaḥ puṣyeṇa puruṣa-ghātinaḥ kāṇḍakasya śalākām añjanīm ca kārayet .. 14.3.08 ..
ततो अन्यतमेनाक्षि-चूर्णेनाभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ॥ १४.३.०९ ॥
ततस् अन्यतमेन अक्षि-चूर्णेन अभ्यक्त-अक्षः नष्ट-छाया-रूपः चरति ॥ १४।३।०९ ॥
tatas anyatamena akṣi-cūrṇena abhyakta-akṣaḥ naṣṭa-chāyā-rūpaḥ carati .. 14.3.09 ..
त्रि-रात्र-उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत् ॥ १४.३.१० ॥
त्रि-रात्र-उपोषितः पुष्येण कालायसीम् अञ्जनीम् शलाकाम् च कारयेत् ॥ १४।३।१० ॥
tri-rātra-upoṣitaḥ puṣyeṇa kālāyasīm añjanīm śalākām ca kārayet .. 14.3.10 ..
ततो निशा-चराणां सत्त्वानां अन्यतमस्य शिरः-कपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥ १४.३.११ ॥
ततस् निशा-चराणाम् सत्त्वानाम् अन्यतमस्य शिरः-कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रियाः योनौ प्रवेश्य दाहयेत् ॥ १४।३।११ ॥
tatas niśā-carāṇām sattvānām anyatamasya śiraḥ-kapālam añjanena pūrayitvā mṛtāyāḥ striyāḥ yonau praveśya dāhayet .. 14.3.11 ..
तदञ्जनं पुष्येणौद्धृत्य तस्यां अञ्जन्यां निदध्यात् ॥ १४.३.१२ ॥
तत् अञ्जनम् पुष्येण आ उद्धृत्य तस्याम् अञ्जन्याम् निदध्यात् ॥ १४।३।१२ ॥
tat añjanam puṣyeṇa ā uddhṛtya tasyām añjanyām nidadhyāt .. 14.3.12 ..
तेनाभ्यक्त-अक्षो नष्ट-छाया-रूपश्चरति ॥ १४.३.१३ ॥
तेन अभ्यक्त-अक्षः नष्ट-छाया-रूपः चरति ॥ १४।३।१३ ॥
tena abhyakta-akṣaḥ naṣṭa-chāyā-rūpaḥ carati .. 14.3.13 ..
यत्र ब्राह्मणं आहित-अग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयं-मृतस्य वाससा प्रसेवं कृत्वा चिता-भस्मना पूरयित्वा तं आबध्य नष्टच्-छाया-रूपश्चरति ॥ १४.३.१४ ॥
यत्र ब्राह्मणम् आहित-अग्निम् दग्धम् दह्यमानम् वा पश्येत् तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयम् मृतस्य वाससा प्रसेवम् कृत्वा चिता-भस्मना पूरयित्वा तम् आबध्य नष्ट-छाया-रूपः चरति ॥ १४।३।१४ ॥
yatra brāhmaṇam āhita-agnim dagdham dahyamānam vā paśyet tatra tri-rātra-upoṣitaḥ puṣyeṇa svayam mṛtasya vāsasā prasevam kṛtvā citā-bhasmanā pūrayitvā tam ābadhya naṣṭa-chāyā-rūpaḥ carati .. 14.3.14 ..
ब्राह्मणस्य प्रेत-कार्ये यो गौर्मार्यते तस्यास्थि-मज्ज-चूर्ण-पूर्णाअहि-भस्त्रा पशूनां अन्तर्-धानं ॥ १४.३.१५ ॥
ब्राह्मणस्य प्रेत-कार्ये यः गौः मार्यते तस्य अस्थि-मज्ज-चूर्ण-पूर्णा अहि-भस्त्रा पशूनाम् अन्तर् धानम् ॥ १४।३।१५ ॥
brāhmaṇasya preta-kārye yaḥ gauḥ māryate tasya asthi-majja-cūrṇa-pūrṇā ahi-bhastrā paśūnām antar dhānam .. 14.3.15 ..
सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणां अन्तर्-धानं ॥ १४.३.१६ ॥
सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणाम् अन्तर् धानम् ॥ १४।३।१६ ॥
sarpa-daṣṭasya bhasmanā pūrṇā pracalāka-bhastrā mṛgāṇām antar dhānam .. 14.3.16 ..
उलूक-वागुली-पुच्छ-पुरीष-जान्व्-अस्थि-चूर्ण-पूर्णाअहि-भस्त्रा पक्षिणां अन्तर्-धानं ॥ १४.३.१७ ॥
उलूक-वागुली-पुच्छ-पुरीष-जानु-अस्थि-चूर्ण-पूर्णा अहि-भस्त्रा पक्षिणाम् अन्तर् धानम् ॥ १४।३।१७ ॥
ulūka-vāgulī-puccha-purīṣa-jānu-asthi-cūrṇa-pūrṇā ahi-bhastrā pakṣiṇām antar dhānam .. 14.3.17 ..
इत्यष्टावन्तर्-धान-योगः ॥ १४.३.१८ ॥
इति अष्टौ अन्तर् धान-योगः ॥ १४।३।१८ ॥
iti aṣṭau antar dhāna-yogaḥ .. 14.3.18 ..
बलिं वैरोचनं वन्दे शत-मायं च शम्बरं । ॥ १४.३.१९अ ब ॥
बलिम् वैरोचनम् वन्दे शत-मायम् च शम्बरम् । ॥ १४।३।१९अ ब ॥
balim vairocanam vande śata-māyam ca śambaram . .. 14.3.19a ba ..
भण्डीर-पाकं नरकं निकुम्भं कुम्भं एव च ॥ १४.३.१९च्द् ॥
भण्डीर-पाकम् नरकम् निकुम्भम् कुम्भम् एव च ॥ १४।३।१९च् ॥
bhaṇḍīra-pākam narakam nikumbham kumbham eva ca .. 14.3.19c ..
देवलं नारदं वन्दे वन्दे सावर्णि-गालवं । ॥ १४.३.२०अ ब ॥
देवलम् नारदम् वन्दे वन्दे सावर्णि-गालवम् । ॥ १४।३।२०अ ब ॥
devalam nāradam vande vande sāvarṇi-gālavam . .. 14.3.20a ba ..
एतेषां अनुयोगेन कृतं ते स्वापनं महत् ॥ १४.३.२०च्द् ॥
एतेषाम् अनुयोगेन कृतम् ते स्वापनम् महत् ॥ १४।३।२०च् ॥
eteṣām anuyogena kṛtam te svāpanam mahat .. 14.3.20c ..
यथा स्वपन्त्यजगराः स्वपन्त्यपि चमू-खलाः । ॥ १४.३.२१अ ब ॥
यथा स्वपन्ति अजगराः स्वपन्ति अपि चमू-खलाः । ॥ १४।३।२१अ ब ॥
yathā svapanti ajagarāḥ svapanti api camū-khalāḥ . .. 14.3.21a ba ..
तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥ १४.३.२१च्द् ॥
तथा स्वपन्तु पुरुषाः ये च ग्रामे कुतूहलाः ॥ १४।३।२१च् ॥
tathā svapantu puruṣāḥ ye ca grāme kutūhalāḥ .. 14.3.21c ..
भण्डकानां सहस्रेण रथ-नेमि-शतेन च । ॥ १४.३.२२अ ब ॥
भण्डकानाम् सहस्रेण रथ-नेमि-शतेन च । ॥ १४।३।२२अ ब ॥
bhaṇḍakānām sahasreṇa ratha-nemi-śatena ca . .. 14.3.22a ba ..
इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः ॥ १४.३.२२च्द् ॥
इमम् गृहम् प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥ १४।३।२२च् ॥
imam gṛham pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ .. 14.3.22c ..
नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ॥ १४.३.२३अ ब ॥
नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ॥ १४।३।२३अ ब ॥
namas-kṛtvā ca manave baddhvā śunaka-phelakāḥ . .. 14.3.23a ba ..
ये देवा देव-लोकेषु मानुषेषु च ब्राह्मणाः ॥ १४.३.२३च्द् ॥
ये देवाः देव-लोकेषु मानुषेषु च ब्राह्मणाः ॥ १४।३।२३च् ॥
ye devāḥ deva-lokeṣu mānuṣeṣu ca brāhmaṇāḥ .. 14.3.23c ..
अध्ययन-पारगाः सिद्धा ये च कौलास तापसाः । ॥ १४.३.२४अ ब ॥
अध्ययन-पारगाः सिद्धाः ये च कौलास-तापसाः । ॥ १४।३।२४अ ब ॥
adhyayana-pāragāḥ siddhāḥ ye ca kaulāsa-tāpasāḥ . .. 14.3.24a ba ..
एतेभ्यः सर्व-सिद्धेभ्यः कृतं ते स्वापनं महत् ॥ १४.३.२४च्द् ॥
एतेभ्यः सर्व-सिद्धेभ्यः कृतम् ते स्वापनम् महत् ॥ १४।३।२४च् ॥
etebhyaḥ sarva-siddhebhyaḥ kṛtam te svāpanam mahat .. 14.3.24c ..
अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ॥ १४.३.२५ ॥
अतिगच्छन्ति च मयि अपगच्छन्तु संहताः ॥ १४।३।२५ ॥
atigacchanti ca mayi apagacchantu saṃhatāḥ .. 14.3.25 ..
अलिते । वलिते । मनवे स्वाहा ॥ १४.३.२६ ॥
अ ल्-इते । वलिते । मनवे स्वाहा ॥ १४।३।२६ ॥
a l-ite . valite . manave svāhā .. 14.3.26 ..
एतस्य प्रयोगः ॥ १४.३.२७ ॥
एतस्य प्रयोगः ॥ १४।३।२७ ॥
etasya prayogaḥ .. 14.3.27 ..
त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्यां पुष्य-योगिन्यां श्व-पाकी-हस्ताद्विलख-अवलेखनं क्रीणीयात् ॥ १४.३.२८ ॥
त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्याम् पुष्य-योगिन्याम् श्व-पाकी-हस्ताद्विलख-अवलेखनम् क्रीणीयात् ॥ १४।३।२८ ॥
tri-rātra-upoṣitaḥ kṛṣṇa-catur-daśyām puṣya-yoginyām śva-pākī-hastādvilakha-avalekhanam krīṇīyāt .. 14.3.28 ..
तन्-माषैः सह कण्डोलिकायां कृत्वाअसंकीर्ण आदहने निखानयेत् ॥ १४.३.२९ ॥
तत् माषैः सह कण्डोलिकायाम् कृत्वा असंकीर्णः आदहने निखानयेत् ॥ १४।३।२९ ॥
tat māṣaiḥ saha kaṇḍolikāyām kṛtvā asaṃkīrṇaḥ ādahane nikhānayet .. 14.3.29 ..
द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥ १४.३.३० ॥
द्वितीयस्याम् चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥ १४।३।३० ॥
dvitīyasyām caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet .. 14.3.30 ..
तत एकां गुलिकां अभिमन्त्रयित्वा यत्रएतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४.३.३१ ॥
ततस् एकाम् गुलिकाम् मन्त्रेण क्षिपति तत् सर्वम् प्रस्वापयति ॥ १४।३।३१ ॥
tatas ekām gulikām mantreṇa kṣipati tat sarvam prasvāpayati .. 14.3.31 ..
एतेनएव कल्पेन श्वा-विधः शल्यकं त्रि-कालं त्रिश्वेतं असंकीर्ण आदहने निखानयेत् ॥ १४.३.३२ ॥
एतेन एव कल्पेन श्वा-विधः शल्यकम् त्रि-कालम् त्रि-श्वेतम् असंकीर्णः आदहने निखानयेत् ॥ १४।३।३२ ॥
etena eva kalpena śvā-vidhaḥ śalyakam tri-kālam tri-śvetam asaṃkīrṇaḥ ādahane nikhānayet .. 14.3.32 ..
द्वितीयस्यां चतुर्दश्यां उद्धृत्यऽदहन-भस्मना सह यत्र-एतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४.३.३३ ॥
द्वितीयस्याम् चतुर्दश्याम् उद्धृत्य अदहन-भस्मना सह यत्र एतेन मन्त्रेण क्षिपति तत् सर्वम् प्रस्वापयति ॥ १४।३।३३ ॥
dvitīyasyām caturdaśyām uddhṛtya adahana-bhasmanā saha yatra etena mantreṇa kṣipati tat sarvam prasvāpayati .. 14.3.33 ..
सुवर्ण-पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश-ध्वजं । ॥ १४.३.३४अ ब ॥
सुवर्णपुष्पीम् ब्रह्माणीम् ब्रह्माणम् च कुश-ध्वजम् । ॥ १४।३।३४अ ब ॥
suvarṇapuṣpīm brahmāṇīm brahmāṇam ca kuśa-dhvajam . .. 14.3.34a ba ..
सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ॥ १४.३.३४च्द् ॥
सर्वाः च देवताः वन्दे वन्दे सर्वान् च तापसान् ॥ १४।३।३४च् ॥
sarvāḥ ca devatāḥ vande vande sarvān ca tāpasān .. 14.3.34c ..
वशं मे ब्राह्मणा यान्तु भूमि-पालाश्च क्षत्रियाः । ॥ १४.३.३५अ ब ॥
वशम् मे ब्राह्मणाः यान्तु भूमि-पालाः च क्षत्रियाः । ॥ १४।३।३५अ ब ॥
vaśam me brāhmaṇāḥ yāntu bhūmi-pālāḥ ca kṣatriyāḥ . .. 14.3.35a ba ..
वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ॥ १४.३.३५च्द् ॥
वशम् वैश्याः च शूद्राः च वश-ताम् यान्तु मे सदा ॥ १४।३।३५च् ॥
vaśam vaiśyāḥ ca śūdrāḥ ca vaśa-tām yāntu me sadā .. 14.3.35c ..
स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ॥ १४.३.३६ ॥
स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ॥ १४।३।३६ ॥
svāhā amile kimile vayu-cāre prayoge phakke vayuhve vihāle danta-kaṭake svāhā .. 14.3.36 ..
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ॥ १४.३.३७अ ब ॥
सुखम् स्वपन्तु शुनकाः ये च ग्रामे कुतूहलाः । ॥ १४।३।३७अ ब ॥
sukham svapantu śunakāḥ ye ca grāme kutūhalāḥ . .. 14.3.37a ba ..
श्वा-विधः शल्यकं चएतत्त्रि-श्वेतं ब्रह्म-निर्मितं ॥ १४.३.३७च्द् ॥
श्वा-विधः शल्यकम् च एतत् त्रि-श्वेतम् ब्रह्म-निर्मितम् ॥ १४।३।३७च् ॥
śvā-vidhaḥ śalyakam ca etat tri-śvetam brahma-nirmitam .. 14.3.37c ..
प्रसुप्ताः सर्व-सिद्धा हि एतत्ते स्वापनं कृतं । ॥ १४.३.३८अ ब ॥
प्रसुप्ताः सर्व-सिद्धाः हि एतत् ते स्वापनम् कृतम् । ॥ १४।३।३८अ ब ॥
prasuptāḥ sarva-siddhāḥ hi etat te svāpanam kṛtam . .. 14.3.38a ba ..
यावद्ग्रामस्य सीमान्तः सूर्यस्यौद्गमनादिति ॥ १४.३.३८च्द् ॥
यावत् ग्रामस्य सीमान्तः सूर्यस्य औद्गमनात् इति ॥ १४।३।३८च् ॥
yāvat grāmasya sīmāntaḥ sūryasya audgamanāt iti .. 14.3.38c ..
स्वाहा" ॥ १४.३.३९ ॥
स्वाहा" ॥ १४।३।३९ ॥
svāhā" .. 14.3.39 ..
एतस्य प्रयोगः ॥ १४.३.४० ॥
एतस्य प्रयोगः ॥ १४।३।४० ॥
etasya prayogaḥ .. 14.3.40 ..
श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्ट-शत-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ॥ १४.३.४१ ॥
श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्याम् खादिराभिः समिधामिः(?) अग्निम् एतेन मन्त्रेण अष्ट-शत-सम्पातम् कृत्वा मधु-घृताभ्याम् अभिजुहुयात् ॥ १४।३।४१ ॥
śvā-vidhaḥ śalyakāni tri-śvetāni . sapta-rātra-upoṣitaḥ kṛṣṇa-caturdaśyām khādirābhiḥ samidhāmiḥ(?) agnim etena mantreṇa aṣṭa-śata-sampātam kṛtvā madhu-ghṛtābhyām abhijuhuyāt .. 14.3.41 ..
तत एकं एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ॥ १४.३.४२ ॥
ततस् एकम् एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत् सर्वम् प्रस्वापयति ॥ १४।३।४२ ॥
tatas ekam etena mantreṇa grāma-dvāri gṛha-dvāri vā yatra nikhanyate tat sarvam prasvāpayati .. 14.3.42 ..
बलिं वैरोचनं वन्दे शतमायं च शम्बरं । ॥ १४.३.४३अ ब ॥
बलिम् वैरोचनम् वन्दे शत-मायम् च शम्बरम् । ॥ १४।३।४३अ ब ॥
balim vairocanam vande śata-māyam ca śambaram . .. 14.3.43a ba ..
निकुम्भं नरकं कुम्भं तन्तु-कच्छं महा-असुरं ॥ १४.३.४३च्द् ॥
निकुम्भम् नरकम् कुम्भम् तन्तु-कच्छम् महा-असुरम् ॥ १४।३।४३च् ॥
nikumbham narakam kumbham tantu-kaccham mahā-asuram .. 14.3.43c ..
अर्मालवं प्रमीलं च मण्ड-उलूकं घट-उबलं । ॥ १४.३.४४अ ब ॥
अर्मालवम् प्रमीलम् च मण्ड-उलूकम् घट-उबलम् । ॥ १४।३।४४अ ब ॥
armālavam pramīlam ca maṇḍa-ulūkam ghaṭa-ubalam . .. 14.3.44a ba ..
कृष्ण-कंस-उपचारं च पौलोमीं च यशस्विनीं ॥ १४.३.४४च्द् ॥
कृष्ण-कंस-उपचारम् च पौलोमीम् च यशस्विनीम् ॥ १४।३।४४च् ॥
kṛṣṇa-kaṃsa-upacāram ca paulomīm ca yaśasvinīm .. 14.3.44c ..
अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्-अर्थं शव-शारिकां । ॥ १४.३.४५अ ब ॥
गृह्णामि सिद्धि-अर्थम् शव-शारिकाम् । ॥ १४।३।४५अ ब ॥
gṛhṇāmi siddhi-artham śava-śārikām . .. 14.3.45a ba ..
जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ॥ १४.३.४५च्द् ॥
जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ॥ १४।३।४५च् ॥
jayatu jayati ca namaḥ śalaka-bhūtebhyaḥ svāhā .. 14.3.45c ..
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ॥ १४.३.४६अ ब ॥
सुखम् स्वपन्तु शुनकाः ये च ग्रामे कुतूहलाः । ॥ १४।३।४६अ ब ॥
sukham svapantu śunakāḥ ye ca grāme kutūhalāḥ . .. 14.3.46a ba ..
सुखं स्वपन्तु सिद्ध-अर्था यं अर्थं मार्गयामहे । ॥ १४.३.४६च्द् ॥
सुखम् स्वपन्तु सिद्ध-अर्थाः यम् अर्थम् मार्गयामहे । ॥ १४।३।४६च् ॥
sukham svapantu siddha-arthāḥ yam artham mārgayāmahe . .. 14.3.46c ..
यावदस्तं अयादुदयो यावदर्थं फलं मम ॥ १४.३.४६एक ॥
यावत् अस्तम् अयात् उदयः यावत्-अर्थम् फलम् मम ॥ १४।३।४६एक- ॥
yāvat astam ayāt udayaḥ yāvat-artham phalam mama .. 14.3.46eka- ..
इति स्वाहा ॥ १४.३.४७ ॥
इति स्वाहा ॥ १४।३।४७ ॥
iti svāhā .. 14.3.47 ..
एतस्य प्रयोगः ॥ १४.३.४८ ॥
एतस्य प्रयोगः ॥ १४।३।४८ ॥
etasya prayogaḥ .. 14.3.48 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां असंकीर्ण आदहने बलिं कृत्वाएतेन मन्त्रेण शव-शारिकां गृहीत्वा पौत्री-पोट्टलिकं बध्नीयात् ॥ १४.३.४९ ॥
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्याम् असंकीर्णः आदहने बलिम् कृत्वा एतेन मन्त्रेण शव-शारिकाम् गृहीत्वा पौत्री-पोट्टलिकम् बध्नीयात् ॥ १४।३।४९ ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyām asaṃkīrṇaḥ ādahane balim kṛtvā etena mantreṇa śava-śārikām gṛhītvā pautrī-poṭṭalikam badhnīyāt .. 14.3.49 ..
तन्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्रएतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ॥ १४.३.५० ॥
तद्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्र एतेन मन्त्रेण निखन्यते तत् सर्वम् प्रस्वापयति ॥ १४।३।५० ॥
tad-madhye śvā-vidhaḥ śalyakena viddhvā yatra etena mantreṇa nikhanyate tat sarvam prasvāpayati .. 14.3.50 ..
उपैमि शरणं चाग्निं दैवतानि दिशो दश । ॥ १४.३.५१अ ब ॥
उपैमि शरणम् च अग्निम् दैवतानि दिशः दश । ॥ १४।३।५१अ ब ॥
upaimi śaraṇam ca agnim daivatāni diśaḥ daśa . .. 14.3.51a ba ..
अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥ १४.३.५१च्द् ॥
अपयान्तु च सर्वाणि वश-ताम् यान्तु मे सदा ॥ १४।३।५१च् ॥
apayāntu ca sarvāṇi vaśa-tām yāntu me sadā .. 14.3.51c ..
स्वाहा" ॥ १४.३.५२ ॥
स्वाहा" ॥ १४।३।५२ ॥
svāhā" .. 14.3.52 ..
एतस्य प्रयोगः ॥ १४.३.५३ ॥
एतस्य प्रयोगः ॥ १४।३।५३ ॥
etasya prayogaḥ .. 14.3.53 ..
त्रि-रात्र-उपोस्षितः पुष्येण शर्करा एक-विंशति-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ॥ १४.३.५४ ॥
त्रि-रात्र-उपोस्षितः पुष्येण शर्कराः एक-विंशति-सम्पातम् कृत्वा मधु-घृताभ्याम् अभिजुहुयात् ॥ १४।३।५४ ॥
tri-rātra-uposṣitaḥ puṣyeṇa śarkarāḥ eka-viṃśati-sampātam kṛtvā madhu-ghṛtābhyām abhijuhuyāt .. 14.3.54 ..
ततो गन्ध-माल्येन पूजयित्वा निखानयेत् ॥ १४.३.५५ ॥
ततस् गन्ध-माल्येन पूजयित्वा निखानयेत् ॥ १४।३।५५ ॥
tatas gandha-mālyena pūjayitvā nikhānayet .. 14.3.55 ..
द्वितीयेन पुष्येणौद्धृत्यएकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात् ॥ १४.३.५६ ॥
द्वितीयेन पुष्येण उद्धृत्य एकाम् शर्कराम् कपाटम् आहन्यात् ॥ १४।३।५६ ॥
dvitīyena puṣyeṇa uddhṛtya ekām śarkarām kapāṭam āhanyāt .. 14.3.56 ..
अभ्यन्तरं चतसृणां शर्कराणां द्वारं अपाव्रियते ॥ १४.३.५७ ॥
अभ्यन्तरम् चतसृणाम् शर्कराणाम् द्वारम् अपाव्रियते ॥ १४।३।५७ ॥
abhyantaram catasṛṇām śarkarāṇām dvāram apāvriyate .. 14.3.57 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत् । अभिमन्त्रयेच्चएतेन ॥ १४.३.५८ ॥
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्याम् भग्नस्य ऋषभम् कारयेत् । अभिमन्त्रयेत् च एतेन ॥ १४।३।५८ ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyām bhagnasya ṛṣabham kārayet . abhimantrayet ca etena .. 14.3.58 ..
द्वि-गो-युक्तं गो-यानं आहृतं भवति ॥ १४.३.५९ ॥
द्वि-गो-युक्तम् गो-यानम् आहृतम् भवति ॥ १४।३।५९ ॥
dvi-go-yuktam go-yānam āhṛtam bhavati .. 14.3.59 ..
ततः परम-आकाशे विरामति ॥ १४.३.६० ॥
ततस् परम-आकाशे विरामति ॥ १४।३।६० ॥
tatas parama-ākāśe virāmati .. 14.3.60 ..
रवि-सगन्धः परिघमति सर्वं पृणाति ॥ १४.३.६१ ॥
रवि-स गन्धः सर्वम् पृणाति ॥ १४।३।६१ ॥
ravi-sa gandhaḥ sarvam pṛṇāti .. 14.3.61 ..
चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः सनारी-भगोअसि स्वाहा ॥ १४.३.६२ ॥
चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः स नारी-भगः असि स्वाहा ॥ १४।३।६२ ॥
caṇḍālī-kumbhī-tumba-kaṭuka-sāra-oghaḥ sa nārī-bhagaḥ asi svāhā .. 14.3.62 ..
ताल-उद्घाटनं प्रस्वापनं च ॥ १४.३.६३ ॥
ताल-उद्घाटनम् प्रस्वापनम् च ॥ १४।३।६३ ॥
tāla-udghāṭanam prasvāpanam ca .. 14.3.63 ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां तुवरी-रावास्यौदकेन सेचयेत् (?) ॥ १४.३.६४ ॥
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायाम् सेचयेत् (?) ॥ १४।३।६४ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyām secayet (?) .. 14.3.64 ..
जातानां पुष्येणएव गृहीत्वा रज्जुकां वर्तयेत् ॥ १४.३.६५ ॥
जातानाम् पुष्येण एव गृहीत्वा रज्जुकाम् वर्तयेत् ॥ १४।३।६५ ॥
jātānām puṣyeṇa eva gṛhītvā rajjukām vartayet .. 14.3.65 ..
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्-छेदनं करोति ॥ १४.३.६६ ॥
ततस् सज्यानाम् धनुषाम् यन्त्राणाम् च पुरस्तात् छेदनम् ज्या-छेदनम् करोति ॥ १४।३।६६ ॥
tatas sajyānām dhanuṣām yantrāṇām ca purastāt chedanam jyā-chedanam karoti .. 14.3.66 ..
उदक-अहि-भस्त्रां उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनं मुख-ग्रहश्च ॥ १४.३.६७ ॥
उदक-अहि-भस्त्राम् उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनम् मुख-ग्रहः च ॥ १४।३।६७ ॥
udaka-ahi-bhastrām ucchvāsa-mṛttikayā striyāḥ puruṣasya vā pūrayet . nāsikā-bandhanam mukha-grahaḥ ca .. 14.3.67 ..
वराह-भस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुनाअवबध्नीयात् । आनाह-कारणं ॥ १४.३.६८ ॥
वराह-भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुना अवबध्नीयात् । आनाह-कारणम् ॥ १४।३।६८ ॥
varāha-bhastrām ucchvāsamṛttikayā pūrayitvā markaṭa-snāyunā avabadhnīyāt . ānāha-kāraṇam .. 14.3.68 ..
कृष्ण-चतुर्दश्यां शस्त्र-हताया गोः कपिलायाः पित्तेन राज-वृक्षमयीं अमित्र-प्रतिमां अञ्ज्यात् । अन्धी-करणं ॥ १४.३.६९ ॥
कृष्ण-चतुर्दश्याम् शस्त्र-हतायाः गोः कपिलायाः पित्तेन राज-वृक्ष-मयीम् अमित्र-प्रतिमाम् अञ्ज्यात् । अन्धी-करणम् ॥ १४।३।६९ ॥
kṛṣṇa-caturdaśyām śastra-hatāyāḥ goḥ kapilāyāḥ pittena rāja-vṛkṣa-mayīm amitra-pratimām añjyāt . andhī-karaṇam .. 14.3.69 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां बलिं कृत्वा शूल-प्रोतस्य पुरुषस्यास्थ्ना कीलकान्कारयेत् ॥ १४.३.७० ॥
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्याम् बलिम् कृत्वा शूल-प्रोतस्य कीलकान् कारयेत् ॥ १४।३।७० ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyām balim kṛtvā śūla-protasya kīlakān kārayet .. 14.3.70 ..
एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति । पदेअस्यऽसने वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्-छेदं करोति ॥ १४.३.७१ ॥
एतेषाम् एकः पुरीषे मूत्रे वा निखातः आनाहम् करोति । वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्ति-छेदम् करोति ॥ १४।३।७१ ॥
eteṣām ekaḥ purīṣe mūtre vā nikhātaḥ ānāham karoti . vā nikhātaḥ śoṣeṇa mārayati . āpaṇe kṣetre gṛhe vā vṛtti-chedam karoti .. 14.3.71 ..
एतेनएव कल्पेन विद्युद्-दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥ १४.३.७२ ॥
एतेन एव कल्पेन विद्युत्-दग्धस्य वृक्षस्य कीलकाः व्याख्याताः ॥ १४।३।७२ ॥
etena eva kalpena vidyut-dagdhasya vṛkṣasya kīlakāḥ vyākhyātāḥ .. 14.3.72 ..
पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ॥ १४.३.७३अ ब ॥
पुनर्नवम् अवाचीनम् निम्बः काम-मधुः च यः । ॥ १४।३।७३अ ब ॥
punarnavam avācīnam nimbaḥ kāma-madhuḥ ca yaḥ . .. 14.3.73a ba ..
कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ॥ १४.३.७३च्द् ॥
कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ॥ १४।३।७३च् ॥
kapi-roma manuṣya-asthi baddhvā mṛtaka-vāsasā .. 14.3.73c ..
निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । ॥ १४.३.७४अ ब ॥
निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदम् नयेत् । ॥ १४।३।७४अ ब ॥
nikhanyate gṛhe yasya dṛṣṭvā vā yat padam nayet . .. 14.3.74a ba ..
सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ॥ १४.३.७४च्द् ॥
स पुत्र-दारः स धनः त्रीन् पक्षान् न अतिवर्तते ॥ १४।३।७४च् ॥
sa putra-dāraḥ sa dhanaḥ trīn pakṣān na ativartate .. 14.3.74c ..
पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ॥ १४.३.७५अ ब ॥
पुनर्नवम् अवाचीनम् निम्बः काम-मधुः च यः । ॥ १४।३।७५अ ब ॥
punarnavam avācīnam nimbaḥ kāma-madhuḥ ca yaḥ . .. 14.3.75a ba ..
स्वयं-गुप्ता मनुष्य-अस्थि पदे यस्य निखन्यते ॥ १४.३.७५च्द् ॥
स्वयम् गुप्ता मनुष्य-अस्थि-पदे यस्य निखन्यते ॥ १४।३।७५च् ॥
svayam guptā manuṣya-asthi-pade yasya nikhanyate .. 14.3.75c ..
द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । ॥ १४.३.७६अ ब ॥
द्वारे गृहस्य सेनायाः ग्रामस्य नगरस्य वा । ॥ १४।३।७६अ ब ॥
dvāre gṛhasya senāyāḥ grāmasya nagarasya vā . .. 14.3.76a ba ..
सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ॥ १४.३.७६च्द् ॥
स पुत्र-दारः स धनः त्रीन् पक्षान् न अतिवर्तते ॥ १४।३।७६च् ॥
sa putra-dāraḥ sa dhanaḥ trīn pakṣān na ativartate .. 14.3.76c ..
अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ॥ १४.३.७७अ ब ॥
अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ॥ १४।३।७७अ ब ॥
aja-markaṭa-romāṇi mārjāra-nakulasya ca . .. 14.3.77a ba ..
ब्राह्मणानां श्व-पाकानां काक-उलूकस्य चऽहरेत् । ॥ १४.३.७७च्द् ॥
ब्राह्मणानाम् श्व-पाकानाम् काक-उलूकस्य च आहरेत् । ॥ १४।३।७७च् ॥
brāhmaṇānām śva-pākānām kāka-ulūkasya ca āharet . .. 14.3.77c ..
एतेन विष्ठाअवक्षुण्णा सद्य उत्साद-कारिका ॥ १४.३.७७च्द् ॥
एतेन विष्ठा अवक्षुण्णा सद्यस् उत्साद-कारिका ॥ १४।३।७७च् ॥
etena viṣṭhā avakṣuṇṇā sadyas utsāda-kārikā .. 14.3.77c ..
प्रेत-निर्मालिका किण्वं रोमाणि नकुलस्य च । ॥ १४.३.७८अ ब ॥
च । ॥ १४।३।७८अ ब ॥
ca . .. 14.3.78a ba ..
वृश्चिक-आल्य्(?)-अहि-कृत्तिश्च पदे यस्य निखन्यते । ॥ १४.३.७८च्द् ॥
वृश्चिक-आली(?)अहि-कृत्तिः च पदे यस्य निखन्यते । ॥ १४।३।७८च् ॥
vṛścika-ālī(?)ahi-kṛttiḥ ca pade yasya nikhanyate . .. 14.3.78c ..
भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ॥ १४.३.७८एफ़् ॥
भवति अपुरुषः सद्यस् यावत् तत् न अपनीयते ॥ १४।३।७८ए फ़् ॥
bhavati apuruṣaḥ sadyas yāvat tat na apanīyate .. 14.3.78e f ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां गुञ्जा आवास्यौदकेन सेचयेत् ॥ १४.३.७९ ॥
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायाम् गुञ्जाः आवास्य औदकेन सेचयेत् ॥ १४।३।७९ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyām guñjāḥ āvāsya audakena secayet .. 14.3.79 ..
जातानां अमावास्यायां पौर्णमास्यां वा पुष्य-योगिन्यां गुञ्ज-वल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ॥ १४.३.८० ॥
जातानाम् अमावास्यायाम् पौर्णमास्याम् वा पुष्य-योगिन्याम् गुञ्ज-वल्लीः ग्राहयित्वा मण्डलिकानि कारयेत् ॥ १४।३।८० ॥
jātānām amāvāsyāyām paurṇamāsyām vā puṣya-yoginyām guñja-vallīḥ grāhayitvā maṇḍalikāni kārayet .. 14.3.80 ..
तेष्वन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ॥ १४.३.८१ ॥
तेषु अन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ॥ १४।३।८१ ॥
teṣu anna-pāna-bhājanāni nyastāni na kṣīyante .. 14.3.81 ..
रात्रि-प्रेक्षायां प्रवृत्तायां प्रदीप-अग्निषु मृत-धेनोः स्तनानुत्कृत्य दाहयेत् ॥ १४.३.८२ ॥
रात्रि-प्रेक्षायाम् प्रवृत्तायाम् प्रदीप-अग्निषु मृत-धेनोः स्तनान् उत्कृत्य दाहयेत् ॥ १४।३।८२ ॥
rātri-prekṣāyām pravṛttāyām pradīpa-agniṣu mṛta-dhenoḥ stanān utkṛtya dāhayet .. 14.3.82 ..
दग्धान्वृष-मूत्रेण पेषयित्वा नव-कुम्भं अन्तर्-लेपयेत् ॥ १४.३.८३ ॥
दग्धान् वृष-मूत्रेण पेषयित्वा नव-कुम्भम् अन्तर् लेपयेत् ॥ १४।३।८३ ॥
dagdhān vṛṣa-mūtreṇa peṣayitvā nava-kumbham antar lepayet .. 14.3.83 ..
तं ग्रामं अपसव्यं परिणीय यत्तत्र न्यस्तं नव-नीतं एषां तत्सर्वं आगच्छति ॥ १४.३.८४ ॥
तम् ग्रामम् अपसव्यम् परिणीय यत् तत्र न्यस्तम् नव-नीतम् एषाम् तत् सर्वम् आगच्छति ॥ १४।३।८४ ॥
tam grāmam apasavyam pariṇīya yat tatra nyastam nava-nītam eṣām tat sarvam āgacchati .. 14.3.84 ..
कृष्ण-चतुर्दश्यां पुष्य-योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥ १४.३.८५ ॥
कृष्ण-चतुर्दश्याम् पुष्य-योगिन्याम् शुनः लग्नकस्य योनौ कालायसीम् मुद्रिकाम् प्रेषयेत् ॥ १४।३।८५ ॥
kṛṣṇa-caturdaśyām puṣya-yoginyām śunaḥ lagnakasya yonau kālāyasīm mudrikām preṣayet .. 14.3.85 ..
तां स्वयं पतितां गृह्णीयात् ॥ १४.३.८५ ॥
ताम् स्वयम् पतिताम् गृह्णीयात् ॥ १४।३।८५ ॥
tām svayam patitām gṛhṇīyāt .. 14.3.85 ..
तया वृक्ष-फलान्याकारितान्यागच्छन्ति ॥ १४.३.८७ ॥
तया वृक्ष-फलानि आकारितानि आगच्छन्ति ॥ १४।३।८७ ॥
tayā vṛkṣa-phalāni ākāritāni āgacchanti .. 14.3.87 ..
मन्त्र-भैषज्य-सम्युक्ता योगा माया-कृताश्च ये । ॥ १४.३.८८अ ब ॥
मन्त्र-भैषज्य-सम्युक्ताः योगाः माया-कृताः च ये । ॥ १४।३।८८अ ब ॥
mantra-bhaiṣajya-samyuktāḥ yogāḥ māyā-kṛtāḥ ca ye . .. 14.3.88a ba ..
उपहन्यादमित्रांस्तैः स्व-जनं चाभिपालयेत् ॥ १४.३.८८च्द् ॥
उपहन्यात् अमित्रान् तैः स्व-जनम् च अभिपालयेत् ॥ १४।३।८८च् ॥
upahanyāt amitrān taiḥ sva-janam ca abhipālayet .. 14.3.88c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In