| |
|

This overlay will guide you through the buttons:

मार्जार-उष्ट्र-वृक-वराह-श्व-अवि-द्वागुली-नप्तृ-काक-उलूकानां अन्येषां वा निशा-चराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥ १४.३.०१ ॥
mārjāra-uṣṭra-vṛka-varāha-śva-avi-dvāgulī-naptṛ-kāka-ulūkānāṃ anyeṣāṃ vā niśā-carāṇāṃ sattvānāṃ ekasya dvayorbahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet .. 14.3.01 ..
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥ १४.३.०२ ॥
tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati .. 14.3.02 ..
एक-आम्लकं वराह-अक्षि ख-द्योतः काल-शारिवा । ॥ १४.३.०३अ ब ॥
eka-āmlakaṃ varāha-akṣi kha-dyotaḥ kāla-śārivā . .. 14.3.03a ba ..
एतेनाभ्यक्त-नयनो रात्रौ रूपाणि पश्यति ॥ १४.३.०३च्द् ॥
etenābhyakta-nayano rātrau rūpāṇi paśyati .. 14.3.03cd ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां यवानावास्याविक्षीरेण सेचयेत् ॥ १४.३.०४ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ yavānāvāsyāvikṣīreṇa secayet .. 14.3.04 ..
ततो यव-विरूढ-मालां आबध्य नष्टच्-छाया-रूपश्चरति ॥ १४.३.०५ ॥
tato yava-virūḍha-mālāṃ ābadhya naṣṭac-chāyā-rūpaścarati .. 14.3.05 ..
त्रि-रत्र-उपोषितः पुष्येण श्व-मार्जार-उलूक-वागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् ॥ १४.३.०६ ॥
tri-ratra-upoṣitaḥ puṣyeṇa śva-mārjāra-ulūka-vāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet .. 14.3.06 ..
ततो यथा-स्वं अभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ॥ १४.३.०७ ॥
tato yathā-svaṃ abhyakta-akṣo naṣṭac-chāyā-rūpaścarati .. 14.3.07 ..
त्रि-रात्र-उपोषितः पुष्येण पुरुष-घातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत् ॥ १४.३.०८ ॥
tri-rātra-upoṣitaḥ puṣyeṇa puruṣa-ghātinaḥ kāṇḍakasya śalākāṃ añjanīṃ ca kārayet .. 14.3.08 ..
ततो अन्यतमेनाक्षि-चूर्णेनाभ्यक्त-अक्षो नष्टच्-छाया-रूपश्चरति ॥ १४.३.०९ ॥
tato anyatamenākṣi-cūrṇenābhyakta-akṣo naṣṭac-chāyā-rūpaścarati .. 14.3.09 ..
त्रि-रात्र-उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत् ॥ १४.३.१० ॥
tri-rātra-upoṣitaḥ puṣyeṇa kālāyasīṃ añjanīṃ śalākāṃ ca kārayet .. 14.3.10 ..
ततो निशा-चराणां सत्त्वानां अन्यतमस्य शिरः-कपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥ १४.३.११ ॥
tato niśā-carāṇāṃ sattvānāṃ anyatamasya śiraḥ-kapālaṃ añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet .. 14.3.11 ..
तदञ्जनं पुष्येणौद्धृत्य तस्यां अञ्जन्यां निदध्यात् ॥ १४.३.१२ ॥
tadañjanaṃ puṣyeṇauddhṛtya tasyāṃ añjanyāṃ nidadhyāt .. 14.3.12 ..
तेनाभ्यक्त-अक्षो नष्ट-छाया-रूपश्चरति ॥ १४.३.१३ ॥
tenābhyakta-akṣo naṣṭa-chāyā-rūpaścarati .. 14.3.13 ..
यत्र ब्राह्मणं आहित-अग्निं दग्धं दह्यमानं वा पश्येत्तत्र त्रि-रात्र-उपोषितः पुष्येण स्वयं-मृतस्य वाससा प्रसेवं कृत्वा चिता-भस्मना पूरयित्वा तं आबध्य नष्टच्-छाया-रूपश्चरति ॥ १४.३.१४ ॥
yatra brāhmaṇaṃ āhita-agniṃ dagdhaṃ dahyamānaṃ vā paśyettatra tri-rātra-upoṣitaḥ puṣyeṇa svayaṃ-mṛtasya vāsasā prasevaṃ kṛtvā citā-bhasmanā pūrayitvā taṃ ābadhya naṣṭac-chāyā-rūpaścarati .. 14.3.14 ..
ब्राह्मणस्य प्रेत-कार्ये यो गौर्मार्यते तस्यास्थि-मज्ज-चूर्ण-पूर्णाअहि-भस्त्रा पशूनां अन्तर्-धानं ॥ १४.३.१५ ॥
brāhmaṇasya preta-kārye yo gaurmāryate tasyāsthi-majja-cūrṇa-pūrṇāahi-bhastrā paśūnāṃ antar-dhānaṃ .. 14.3.15 ..
सर्प-दष्टस्य भस्मना पूर्णा प्रचलाक-भस्त्रा मृगाणां अन्तर्-धानं ॥ १४.३.१६ ॥
sarpa-daṣṭasya bhasmanā pūrṇā pracalāka-bhastrā mṛgāṇāṃ antar-dhānaṃ .. 14.3.16 ..
उलूक-वागुली-पुच्छ-पुरीष-जान्व्-अस्थि-चूर्ण-पूर्णाअहि-भस्त्रा पक्षिणां अन्तर्-धानं ॥ १४.३.१७ ॥
ulūka-vāgulī-puccha-purīṣa-jānv-asthi-cūrṇa-pūrṇāahi-bhastrā pakṣiṇāṃ antar-dhānaṃ .. 14.3.17 ..
इत्यष्टावन्तर्-धान-योगः ॥ १४.३.१८ ॥
ityaṣṭāvantar-dhāna-yogaḥ .. 14.3.18 ..
बलिं वैरोचनं वन्दे शत-मायं च शम्बरं । ॥ १४.३.१९अ ब ॥
baliṃ vairocanaṃ vande śata-māyaṃ ca śambaraṃ . .. 14.3.19a ba ..
भण्डीर-पाकं नरकं निकुम्भं कुम्भं एव च ॥ १४.३.१९च्द् ॥
bhaṇḍīra-pākaṃ narakaṃ nikumbhaṃ kumbhaṃ eva ca .. 14.3.19cd ..
देवलं नारदं वन्दे वन्दे सावर्णि-गालवं । ॥ १४.३.२०अ ब ॥
devalaṃ nāradaṃ vande vande sāvarṇi-gālavaṃ . .. 14.3.20a ba ..
एतेषां अनुयोगेन कृतं ते स्वापनं महत् ॥ १४.३.२०च्द् ॥
eteṣāṃ anuyogena kṛtaṃ te svāpanaṃ mahat .. 14.3.20cd ..
यथा स्वपन्त्यजगराः स्वपन्त्यपि चमू-खलाः । ॥ १४.३.२१अ ब ॥
yathā svapantyajagarāḥ svapantyapi camū-khalāḥ . .. 14.3.21a ba ..
तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥ १४.३.२१च्द् ॥
tathā svapantu puruṣā ye ca grāme kutūhalāḥ .. 14.3.21cd ..
भण्डकानां सहस्रेण रथ-नेमि-शतेन च । ॥ १४.३.२२अ ब ॥
bhaṇḍakānāṃ sahasreṇa ratha-nemi-śatena ca . .. 14.3.22a ba ..
इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः ॥ १४.३.२२च्द् ॥
imaṃ gṛhaṃ pravekṣyāmi tūṣṇīṃ āsantu bhāṇḍakāḥ .. 14.3.22cd ..
नमस्-कृत्वा च मनवे बद्ध्वा शुनक-फेलकाः । ॥ १४.३.२३अ ब ॥
namas-kṛtvā ca manave baddhvā śunaka-phelakāḥ . .. 14.3.23a ba ..
ये देवा देव-लोकेषु मानुषेषु च ब्राह्मणाः ॥ १४.३.२३च्द् ॥
ye devā deva-lokeṣu mānuṣeṣu ca brāhmaṇāḥ .. 14.3.23cd ..
अध्ययन-पारगाः सिद्धा ये च कौलास तापसाः । ॥ १४.३.२४अ ब ॥
adhyayana-pāragāḥ siddhā ye ca kaulāsa tāpasāḥ . .. 14.3.24a ba ..
एतेभ्यः सर्व-सिद्धेभ्यः कृतं ते स्वापनं महत् ॥ १४.३.२४च्द् ॥
etebhyaḥ sarva-siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat .. 14.3.24cd ..
अतिगच्छन्ति च मय्यपगच्छन्तु संहताः ॥ १४.३.२५ ॥
atigacchanti ca mayyapagacchantu saṃhatāḥ .. 14.3.25 ..
अलिते । वलिते । मनवे स्वाहा ॥ १४.३.२६ ॥
alite . valite . manave svāhā .. 14.3.26 ..
एतस्य प्रयोगः ॥ १४.३.२७ ॥
etasya prayogaḥ .. 14.3.27 ..
त्रि-रात्र-उपोषितः कृष्ण-चतुर्-दश्यां पुष्य-योगिन्यां श्व-पाकी-हस्ताद्विलख-अवलेखनं क्रीणीयात् ॥ १४.३.२८ ॥
tri-rātra-upoṣitaḥ kṛṣṇa-catur-daśyāṃ puṣya-yoginyāṃ śva-pākī-hastādvilakha-avalekhanaṃ krīṇīyāt .. 14.3.28 ..
तन्-माषैः सह कण्डोलिकायां कृत्वाअसंकीर्ण आदहने निखानयेत् ॥ १४.३.२९ ॥
tan-māṣaiḥ saha kaṇḍolikāyāṃ kṛtvāasaṃkīrṇa ādahane nikhānayet .. 14.3.29 ..
द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥ १४.३.३० ॥
dvitīyasyāṃ caturdaśyāṃ uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet .. 14.3.30 ..
तत एकां गुलिकां अभिमन्त्रयित्वा यत्रएतन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४.३.३१ ॥
tata ekāṃ gulikāṃ abhimantrayitvā yatraetana mantreṇa kṣipati tatsarvaṃ prasvāpayati .. 14.3.31 ..
एतेनएव कल्पेन श्वा-विधः शल्यकं त्रि-कालं त्रिश्वेतं असंकीर्ण आदहने निखानयेत् ॥ १४.३.३२ ॥
etenaeva kalpena śvā-vidhaḥ śalyakaṃ tri-kālaṃ triśvetaṃ asaṃkīrṇa ādahane nikhānayet .. 14.3.32 ..
द्वितीयस्यां चतुर्दश्यां उद्धृत्यऽदहन-भस्मना सह यत्र-एतेन मन्त्रेण क्षिपति तत्सर्वं प्रस्वापयति ॥ १४.३.३३ ॥
dvitīyasyāṃ caturdaśyāṃ uddhṛtya'dahana-bhasmanā saha yatra-etena mantreṇa kṣipati tatsarvaṃ prasvāpayati .. 14.3.33 ..
सुवर्ण-पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश-ध्वजं । ॥ १४.३.३४अ ब ॥
suvarṇa-puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa-dhvajaṃ . .. 14.3.34a ba ..
सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् ॥ १४.३.३४च्द् ॥
sarvāśca devatā vande vande sarvāṃśca tāpasān .. 14.3.34cd ..
वशं मे ब्राह्मणा यान्तु भूमि-पालाश्च क्षत्रियाः । ॥ १४.३.३५अ ब ॥
vaśaṃ me brāhmaṇā yāntu bhūmi-pālāśca kṣatriyāḥ . .. 14.3.35a ba ..
वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा ॥ १४.३.३५च्द् ॥
vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā .. 14.3.35cd ..
स्वाहा अमिले किमिले वयु-चारे प्रयोगे फक्के वयुह्वे विहाले दन्त-कटके स्वाहा ॥ १४.३.३६ ॥
svāhā amile kimile vayu-cāre prayoge phakke vayuhve vihāle danta-kaṭake svāhā .. 14.3.36 ..
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ॥ १४.३.३७अ ब ॥
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ . .. 14.3.37a ba ..
श्वा-विधः शल्यकं चएतत्त्रि-श्वेतं ब्रह्म-निर्मितं ॥ १४.३.३७च्द् ॥
śvā-vidhaḥ śalyakaṃ caetattri-śvetaṃ brahma-nirmitaṃ .. 14.3.37cd ..
प्रसुप्ताः सर्व-सिद्धा हि एतत्ते स्वापनं कृतं । ॥ १४.३.३८अ ब ॥
prasuptāḥ sarva-siddhā hi etatte svāpanaṃ kṛtaṃ . .. 14.3.38a ba ..
यावद्ग्रामस्य सीमान्तः सूर्यस्यौद्गमनादिति ॥ १४.३.३८च्द् ॥
yāvadgrāmasya sīmāntaḥ sūryasyaudgamanāditi .. 14.3.38cd ..
स्वाहा" ॥ १४.३.३९ ॥
svāhā" .. 14.3.39 ..
एतस्य प्रयोगः ॥ १४.३.४० ॥
etasya prayogaḥ .. 14.3.40 ..
श्वा-विधः शल्यकानि त्रि-श्वेतानि । सप्त-रात्र-उपोषितः कृष्ण-चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निं एतेन मन्त्रेणाष्ट-शत-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ॥ १४.३.४१ ॥
śvā-vidhaḥ śalyakāni tri-śvetāni . sapta-rātra-upoṣitaḥ kṛṣṇa-caturdaśyāṃ khādirābhiḥ samidhāmir(?) agniṃ etena mantreṇāṣṭa-śata-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt .. 14.3.41 ..
तत एकं एतेन मन्त्रेण ग्राम-द्वारि गृह-द्वारि वा यत्र निखन्यते तत्सर्वं प्रस्वापयति ॥ १४.३.४२ ॥
tata ekaṃ etena mantreṇa grāma-dvāri gṛha-dvāri vā yatra nikhanyate tatsarvaṃ prasvāpayati .. 14.3.42 ..
बलिं वैरोचनं वन्दे शतमायं च शम्बरं । ॥ १४.३.४३अ ब ॥
baliṃ vairocanaṃ vande śatamāyaṃ ca śambaraṃ . .. 14.3.43a ba ..
निकुम्भं नरकं कुम्भं तन्तु-कच्छं महा-असुरं ॥ १४.३.४३च्द् ॥
nikumbhaṃ narakaṃ kumbhaṃ tantu-kacchaṃ mahā-asuraṃ .. 14.3.43cd ..
अर्मालवं प्रमीलं च मण्ड-उलूकं घट-उबलं । ॥ १४.३.४४अ ब ॥
armālavaṃ pramīlaṃ ca maṇḍa-ulūkaṃ ghaṭa-ubalaṃ . .. 14.3.44a ba ..
कृष्ण-कंस-उपचारं च पौलोमीं च यशस्विनीं ॥ १४.३.४४च्द् ॥
kṛṣṇa-kaṃsa-upacāraṃ ca paulomīṃ ca yaśasvinīṃ .. 14.3.44cd ..
अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्-अर्थं शव-शारिकां । ॥ १४.३.४५अ ब ॥
abhimantrayitvā gṛhṇāmi siddhy-arthaṃ śava-śārikāṃ . .. 14.3.45a ba ..
जयतु जयति च नमः शलक-भूतेभ्यः स्वाहा ॥ १४.३.४५च्द् ॥
jayatu jayati ca namaḥ śalaka-bhūtebhyaḥ svāhā .. 14.3.45cd ..
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । ॥ १४.३.४६अ ब ॥
sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ . .. 14.3.46a ba ..
सुखं स्वपन्तु सिद्ध-अर्था यं अर्थं मार्गयामहे । ॥ १४.३.४६च्द् ॥
sukhaṃ svapantu siddha-arthā yaṃ arthaṃ mārgayāmahe . .. 14.3.46cd ..
यावदस्तं अयादुदयो यावदर्थं फलं मम ॥ १४.३.४६एक ॥
yāvadastaṃ ayādudayo yāvadarthaṃ phalaṃ mama .. 14.3.46eka ..
इति स्वाहा ॥ १४.३.४७ ॥
iti svāhā .. 14.3.47 ..
एतस्य प्रयोगः ॥ १४.३.४८ ॥
etasya prayogaḥ .. 14.3.48 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां असंकीर्ण आदहने बलिं कृत्वाएतेन मन्त्रेण शव-शारिकां गृहीत्वा पौत्री-पोट्टलिकं बध्नीयात् ॥ १४.३.४९ ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ asaṃkīrṇa ādahane baliṃ kṛtvāetena mantreṇa śava-śārikāṃ gṛhītvā pautrī-poṭṭalikaṃ badhnīyāt .. 14.3.49 ..
तन्-मध्ये श्वा-विधः शल्यकेन विद्ध्वा यत्रएतेन मन्त्रेण निखन्यते तत्सर्वं प्रस्वापयति ॥ १४.३.५० ॥
tan-madhye śvā-vidhaḥ śalyakena viddhvā yatraetena mantreṇa nikhanyate tatsarvaṃ prasvāpayati .. 14.3.50 ..
उपैमि शरणं चाग्निं दैवतानि दिशो दश । ॥ १४.३.५१अ ब ॥
upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa . .. 14.3.51a ba ..
अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥ १४.३.५१च्द् ॥
apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā .. 14.3.51cd ..
स्वाहा" ॥ १४.३.५२ ॥
svāhā" .. 14.3.52 ..
एतस्य प्रयोगः ॥ १४.३.५३ ॥
etasya prayogaḥ .. 14.3.53 ..
त्रि-रात्र-उपोस्षितः पुष्येण शर्करा एक-विंशति-सम्पातं कृत्वा मधु-घृताभ्यां अभिजुहुयात् ॥ १४.३.५४ ॥
tri-rātra-uposṣitaḥ puṣyeṇa śarkarā eka-viṃśati-sampātaṃ kṛtvā madhu-ghṛtābhyāṃ abhijuhuyāt .. 14.3.54 ..
ततो गन्ध-माल्येन पूजयित्वा निखानयेत् ॥ १४.३.५५ ॥
tato gandha-mālyena pūjayitvā nikhānayet .. 14.3.55 ..
द्वितीयेन पुष्येणौद्धृत्यएकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात् ॥ १४.३.५६ ॥
dvitīyena puṣyeṇauddhṛtyaekāṃ śarkarāṃ abhimantrayitvā kapāṭaṃ āhanyāt .. 14.3.56 ..
अभ्यन्तरं चतसृणां शर्कराणां द्वारं अपाव्रियते ॥ १४.३.५७ ॥
abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāraṃ apāvriyate .. 14.3.57 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत् । अभिमन्त्रयेच्चएतेन ॥ १४.३.५८ ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet . abhimantrayeccaetena .. 14.3.58 ..
द्वि-गो-युक्तं गो-यानं आहृतं भवति ॥ १४.३.५९ ॥
dvi-go-yuktaṃ go-yānaṃ āhṛtaṃ bhavati .. 14.3.59 ..
ततः परम-आकाशे विरामति ॥ १४.३.६० ॥
tataḥ parama-ākāśe virāmati .. 14.3.60 ..
रवि-सगन्धः परिघमति सर्वं पृणाति ॥ १४.३.६१ ॥
ravi-sagandhaḥ parighamati sarvaṃ pṛṇāti .. 14.3.61 ..
चण्डाली-कुम्भी-तुम्ब-कटुक-सार-ओघः सनारी-भगोअसि स्वाहा ॥ १४.३.६२ ॥
caṇḍālī-kumbhī-tumba-kaṭuka-sāra-oghaḥ sanārī-bhagoasi svāhā .. 14.3.62 ..
ताल-उद्घाटनं प्रस्वापनं च ॥ १४.३.६३ ॥
tāla-udghāṭanaṃ prasvāpanaṃ ca .. 14.3.63 ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां तुवरी-रावास्यौदकेन सेचयेत् (?) ॥ १४.३.६४ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ tuvarī-rāvāsyaudakena secayet (?) .. 14.3.64 ..
जातानां पुष्येणएव गृहीत्वा रज्जुकां वर्तयेत् ॥ १४.३.६५ ॥
jātānāṃ puṣyeṇaeva gṛhītvā rajjukāṃ vartayet .. 14.3.65 ..
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्-छेदनं करोति ॥ १४.३.६६ ॥
tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāc-chedanaṃ karoti .. 14.3.66 ..
उदक-अहि-भस्त्रां उच्छ्वास-मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् । नासिका-बन्धनं मुख-ग्रहश्च ॥ १४.३.६७ ॥
udaka-ahi-bhastrāṃ ucchvāsa-mṛttikayā striyāḥ puruṣasya vā pūrayet . nāsikā-bandhanaṃ mukha-grahaśca .. 14.3.67 ..
वराह-भस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कट-स्नायुनाअवबध्नीयात् । आनाह-कारणं ॥ १४.३.६८ ॥
varāha-bhastrāṃ ucchvāsamṛttikayā pūrayitvā markaṭa-snāyunāavabadhnīyāt . ānāha-kāraṇaṃ .. 14.3.68 ..
कृष्ण-चतुर्दश्यां शस्त्र-हताया गोः कपिलायाः पित्तेन राज-वृक्षमयीं अमित्र-प्रतिमां अञ्ज्यात् । अन्धी-करणं ॥ १४.३.६९ ॥
kṛṣṇa-caturdaśyāṃ śastra-hatāyā goḥ kapilāyāḥ pittena rāja-vṛkṣamayīṃ amitra-pratimāṃ añjyāt . andhī-karaṇaṃ .. 14.3.69 ..
चतुर्-भक्त-उपवासी कृष्ण-चतुर्दश्यां बलिं कृत्वा शूल-प्रोतस्य पुरुषस्यास्थ्ना कीलकान्कारयेत् ॥ १४.३.७० ॥
catur-bhakta-upavāsī kṛṣṇa-caturdaśyāṃ baliṃ kṛtvā śūla-protasya puruṣasyāsthnā kīlakānkārayet .. 14.3.70 ..
एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति । पदेअस्यऽसने वा निखातः शोषेण मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्-छेदं करोति ॥ १४.३.७१ ॥
eteṣāṃ ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti . padeasya'sane vā nikhātaḥ śoṣeṇa mārayati . āpaṇe kṣetre gṛhe vā vṛttic-chedaṃ karoti .. 14.3.71 ..
एतेनएव कल्पेन विद्युद्-दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥ १४.३.७२ ॥
etenaeva kalpena vidyud-dagdhasya vṛkṣasya kīlakā vyākhyātāḥ .. 14.3.72 ..
पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ॥ १४.३.७३अ ब ॥
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ . .. 14.3.73a ba ..
कपि-रोम मनुष्य-अस्थि बद्ध्वा मृतक-वाससा ॥ १४.३.७३च्द् ॥
kapi-roma manuṣya-asthi baddhvā mṛtaka-vāsasā .. 14.3.73cd ..
निखन्यते गृहे यस्य दृष्ट्वा वा यत्पदं नयेत् । ॥ १४.३.७४अ ब ॥
nikhanyate gṛhe yasya dṛṣṭvā vā yatpadaṃ nayet . .. 14.3.74a ba ..
सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ॥ १४.३.७४च्द् ॥
saputra-dāraḥ sadhana-strīnpakṣānnātivartate .. 14.3.74cd ..
पुनर्नवं अवाचीनं निम्बः काम-मधुश्च यः । ॥ १४.३.७५अ ब ॥
punarnavaṃ avācīnaṃ nimbaḥ kāma-madhuśca yaḥ . .. 14.3.75a ba ..
स्वयं-गुप्ता मनुष्य-अस्थि पदे यस्य निखन्यते ॥ १४.३.७५च्द् ॥
svayaṃ-guptā manuṣya-asthi pade yasya nikhanyate .. 14.3.75cd ..
द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । ॥ १४.३.७६अ ब ॥
dvāre gṛhasya senāyā grāmasya nagarasya vā . .. 14.3.76a ba ..
सपुत्र-दारः सधन-स्त्रीन्पक्षान्नातिवर्तते ॥ १४.३.७६च्द् ॥
saputra-dāraḥ sadhana-strīnpakṣānnātivartate .. 14.3.76cd ..
अज-मर्कट-रोमाणि मार्जार-नकुलस्य च । ॥ १४.३.७७अ ब ॥
aja-markaṭa-romāṇi mārjāra-nakulasya ca . .. 14.3.77a ba ..
ब्राह्मणानां श्व-पाकानां काक-उलूकस्य चऽहरेत् । ॥ १४.३.७७च्द् ॥
brāhmaṇānāṃ śva-pākānāṃ kāka-ulūkasya ca'haret . .. 14.3.77cd ..
एतेन विष्ठाअवक्षुण्णा सद्य उत्साद-कारिका ॥ १४.३.७७च्द् ॥
etena viṣṭhāavakṣuṇṇā sadya utsāda-kārikā .. 14.3.77cd ..
प्रेत-निर्मालिका किण्वं रोमाणि नकुलस्य च । ॥ १४.३.७८अ ब ॥
preta-nirmālikā kiṇvaṃ romāṇi nakulasya ca . .. 14.3.78a ba ..
वृश्चिक-आल्य्(?)-अहि-कृत्तिश्च पदे यस्य निखन्यते । ॥ १४.३.७८च्द् ॥
vṛścika-āly(?)-ahi-kṛttiśca pade yasya nikhanyate . .. 14.3.78cd ..
भवत्यपुरुषः सद्यो यावत्तन्नापनीयते ॥ १४.३.७८एफ़् ॥
bhavatyapuruṣaḥ sadyo yāvattannāpanīyate .. 14.3.78ef ..
त्रि-रात्र-उपोषितः पुष्येण शस्त्र-हतस्य शूल-प्रोतस्य वा पुंसः शिरः-कपाले मृत्तिकायां गुञ्जा आवास्यौदकेन सेचयेत् ॥ १४.३.७९ ॥
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya vā puṃsaḥ śiraḥ-kapāle mṛttikāyāṃ guñjā āvāsyaudakena secayet .. 14.3.79 ..
जातानां अमावास्यायां पौर्णमास्यां वा पुष्य-योगिन्यां गुञ्ज-वल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् ॥ १४.३.८० ॥
jātānāṃ amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya-yoginyāṃ guñja-vallīrgrāhayitvā maṇḍalikāni kārayet .. 14.3.80 ..
तेष्वन्न-पान-भाजनानि न्यस्तानि न क्षीयन्ते ॥ १४.३.८१ ॥
teṣvanna-pāna-bhājanāni nyastāni na kṣīyante .. 14.3.81 ..
रात्रि-प्रेक्षायां प्रवृत्तायां प्रदीप-अग्निषु मृत-धेनोः स्तनानुत्कृत्य दाहयेत् ॥ १४.३.८२ ॥
rātri-prekṣāyāṃ pravṛttāyāṃ pradīpa-agniṣu mṛta-dhenoḥ stanānutkṛtya dāhayet .. 14.3.82 ..
दग्धान्वृष-मूत्रेण पेषयित्वा नव-कुम्भं अन्तर्-लेपयेत् ॥ १४.३.८३ ॥
dagdhānvṛṣa-mūtreṇa peṣayitvā nava-kumbhaṃ antar-lepayet .. 14.3.83 ..
तं ग्रामं अपसव्यं परिणीय यत्तत्र न्यस्तं नव-नीतं एषां तत्सर्वं आगच्छति ॥ १४.३.८४ ॥
taṃ grāmaṃ apasavyaṃ pariṇīya yattatra nyastaṃ nava-nītaṃ eṣāṃ tatsarvaṃ āgacchati .. 14.3.84 ..
कृष्ण-चतुर्दश्यां पुष्य-योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥ १४.३.८५ ॥
kṛṣṇa-caturdaśyāṃ puṣya-yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet .. 14.3.85 ..
तां स्वयं पतितां गृह्णीयात् ॥ १४.३.८५ ॥
tāṃ svayaṃ patitāṃ gṛhṇīyāt .. 14.3.85 ..
तया वृक्ष-फलान्याकारितान्यागच्छन्ति ॥ १४.३.८७ ॥
tayā vṛkṣa-phalānyākāritānyāgacchanti .. 14.3.87 ..
मन्त्र-भैषज्य-सम्युक्ता योगा माया-कृताश्च ये । ॥ १४.३.८८अ ब ॥
mantra-bhaiṣajya-samyuktā yogā māyā-kṛtāśca ye . .. 14.3.88a ba ..
उपहन्यादमित्रांस्तैः स्व-जनं चाभिपालयेत् ॥ १४.३.८८च्द् ॥
upahanyādamitrāṃstaiḥ sva-janaṃ cābhipālayet .. 14.3.88cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In