| |
|

This overlay will guide you through the buttons:

स्व-पक्षे पर-प्रयुक्तानां दूषी-विष-गराणां प्रतीकारः ॥ १४.४.०१ ॥
स्व-पक्षे पर-प्रयुक्तानाम् दूषी-विष-गराणाम् प्रतीकारः ॥ १४।४।०१ ॥
sva-pakṣe para-prayuktānām dūṣī-viṣa-garāṇām pratīkāraḥ .. 14.4.01 ..
श्लेष्मातक-कपित्थ-दन्ति-दन्त-शठ-गोजि-शिरीष-पाटली-बलास्योनाग-पुनर्-नवा-श्वेत-वारण-क्वाथ-युक्तम्(?) चन्दन-साला-वृकी-लोहित-युक्तं नेजन-उदकं राज-उपभोग्यानां गुह्य-प्रक्षालनं स्त्रीणाम् । सेनायाश्च विष-प्रतीकारः ॥ १४.४.०२ ॥
श्लेष्मातक-कपित्थ-दन्ति-दन्त-शठ-गोजि-शिरीष-पाटली-बला-अस्यः नाग-पुनर् नवा-श्वेत-वारण-क्वाथ-युक्तम्(?) चन्दन-साला-वृकी-लोहित-युक्तम् नेजन-उदकम् राज-उपभोग्यानाम् गुह्य-प्रक्षालनम् स्त्रीणाम् । सेनायाः च विष-प्रतीकारः ॥ १४।४।०२ ॥
śleṣmātaka-kapittha-danti-danta-śaṭha-goji-śirīṣa-pāṭalī-balā-asyaḥ nāga-punar navā-śveta-vāraṇa-kvātha-yuktam(?) candana-sālā-vṛkī-lohita-yuktam nejana-udakam rāja-upabhogyānām guhya-prakṣālanam strīṇām . senāyāḥ ca viṣa-pratīkāraḥ .. 14.4.02 ..
पृषत-नकुल-नील-कण्ठ-गोधा-पित्त-युक्तं मही-राजी-चूर्णं सिन्दु-वारित-वरण-वारुणी-तण्डुलीयक-शत-पर्व-अग्र-पिण्डीतक-योगो मदन-दोष-हरः ॥ १४.४.०३ ॥
पृषत-नकुल-नील-कण्ठ-गोधा-पित्त-युक्तम् मही-राजी-चूर्णम् सिन्दु-वारित-वरण-वारुणी-तण्डुलीयक-शत-पर्व-अग्र-पिण्डीतक-योगः मदन-दोष-हरः ॥ १४।४।०३ ॥
pṛṣata-nakula-nīla-kaṇṭha-godhā-pitta-yuktam mahī-rājī-cūrṇam sindu-vārita-varaṇa-vāruṇī-taṇḍulīyaka-śata-parva-agra-piṇḍītaka-yogaḥ madana-doṣa-haraḥ .. 14.4.03 ..
सृगाल-विन्ना-मदन-सिन्दु-वारित-वरण-वारण-वली-मूल-कषायाणां अन्यतमस्य समस्तानां वा क्षीर-युक्तं पानं मदन-दोष-हरं ॥ १४.४.०४ ॥
सृगाल-विन्ना-मदन-सिन्दु-वारित-वरण-वारण-वली-मूल-कषायाणाम् अन्यतमस्य समस्तानाम् वा क्षीर-युक्तम् पानम् मदन-दोष-हरम् ॥ १४।४।०४ ॥
sṛgāla-vinnā-madana-sindu-vārita-varaṇa-vāraṇa-valī-mūla-kaṣāyāṇām anyatamasya samastānām vā kṣīra-yuktam pānam madana-doṣa-haram .. 14.4.04 ..
कैडर्य-पूति-तिल-तैलं उन्माद-हरं नस्तः-कर्म ॥ १४.४.०५ ॥
कैडर्य-पूति-तिल-तैलम् उन्माद-हरम् नस्तः कर्म ॥ १४।४।०५ ॥
kaiḍarya-pūti-tila-tailam unmāda-haram nastaḥ karma .. 14.4.05 ..
प्रियङ्गु-नक्त-माल-योगः कुष्ठ-हरः ॥ १४.४.०६ ॥
priyaṅgu-nakta-māla-yogaḥ kuṣṭha-haraḥ || 14.4.06 ||
priyaṅgu-nakta-māla-yogaḥ kuṣṭha-haraḥ || 14.4.06 ||
कुष्ठ-लोध्र-योगः पाक-शोषघ्नः ॥ १४.४.०७ ॥
kuṣṭha-lodhra-yogaḥ pāka-śoṣaghnaḥ || 14.4.07 ||
kuṣṭha-lodhra-yogaḥ pāka-śoṣaghnaḥ || 14.4.07 ||
कट-फल-द्रवन्ती-विलङ्ग-चूर्णं नस्तः-कर्म शिरो-रोग-हरं ॥ १४.४.०८ ॥
कट-फल-द्रवन्ती-विलङ्ग-चूर्णम् नस्तः कर्म शिरः-रोग-हरम् ॥ १४।४।०८ ॥
kaṭa-phala-dravantī-vilaṅga-cūrṇam nastaḥ karma śiraḥ-roga-haram .. 14.4.08 ..
प्रियङ्गु-मञ्जिष्ठा - तगर - लाक्षारस - मधुक-हरिद्रा-क्षौद्र-योगो रज्जु-उदक-विष-प्रहार-पतन-निह्संज्ञानां पुनः-प्रत्यानयनाय ॥ १४.४.०९ ॥
प्रियङ्गु-मञ्जिष्ठा-तगर-लाक्षा-रस-मधुक-हरिद्रा-क्षौद्र-योगः रज्जु-उदक-विष-प्रहार-पतन-निह्संज्ञानाम् पुनर् प्रत्यानयनाय ॥ १४।४।०९ ॥
priyaṅgu-mañjiṣṭhā-tagara-lākṣā-rasa-madhuka-haridrā-kṣaudra-yogaḥ rajju-udaka-viṣa-prahāra-patana-nihsaṃjñānām punar pratyānayanāya .. 14.4.09 ..
मनुष्याणां अक्ष-मात्रम् । गव-अश्वानां द्वि-गुणम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ॥ १४.४.१० ॥
मनुष्याणाम् अक्ष-मात्रम् । गव-अश्वानाम् द्वि-गुणम् । चतुर्-गुणम् हस्ति-उष्ट्राणाम् ॥ १४।४।१० ॥
manuṣyāṇām akṣa-mātram . gava-aśvānām dvi-guṇam . catur-guṇam hasti-uṣṭrāṇām .. 14.4.10 ..
रुक्म-गर्भश्चएषां मणिः सर्व-विष-हरः ॥ १४.४.११ ॥
रुक्म-गर्भः च एषाम् मणिः सर्व-विष-हरः ॥ १४।४।११ ॥
rukma-garbhaḥ ca eṣām maṇiḥ sarva-viṣa-haraḥ .. 14.4.11 ..
जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्व-विष-हरः ॥ १४.४.१२ ॥
जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकानाम् अक्षीबे जातस्य अश्वत्थस्य मणिः सर्व-विष-हरः ॥ १४।४।१२ ॥
jīvantī-śvetā-muṣkaka-puṣpa-vandākānām akṣībe jātasya aśvatthasya maṇiḥ sarva-viṣa-haraḥ .. 14.4.12 ..
तूर्याणां तैः प्रलिप्तानां शब्दो विष-विनाशनः । ॥ १४.४.१३अ ब ॥
तूर्याणाम् तैः प्रलिप्तानाम् शब्दः विष-विनाशनः । ॥ १४।४।१३अ ब ॥
tūryāṇām taiḥ praliptānām śabdaḥ viṣa-vināśanaḥ . .. 14.4.13a ba ..
लिप्त-ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥ १४.४.१३च्द् ॥
लिप्त-ध्वजम् पताकाम् वा दृष्ट्वा भवति निर्विषः ॥ १४।४।१३च् ॥
lipta-dhvajam patākām vā dṛṣṭvā bhavati nirviṣaḥ .. 14.4.13c ..
एतैः कृत्वा प्रतीकारं स्व-सैन्यानां अथऽत्मनः । ॥ १४.४.१४अ ब ॥
एतैः कृत्वा प्रतीकारम् स्व-सैन्यानाम् अथ आत्मनः । ॥ १४।४।१४अ ब ॥
etaiḥ kṛtvā pratīkāram sva-sainyānām atha ātmanaḥ . .. 14.4.14a ba ..
अमित्रेषु प्रयुञ्जीत विष-धूम-अम्बु-दूषणान् ॥ १४.४.१४च्द् ॥
अमित्रेषु प्रयुञ्जीत विष-धूम-अम्बु-दूषणान् ॥ १४।४।१४च् ॥
amitreṣu prayuñjīta viṣa-dhūma-ambu-dūṣaṇān .. 14.4.14c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In