| |
|

This overlay will guide you through the buttons:

प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ॥ ०४.१.०१ ॥
pradeṣṭārastrayastrayoamātyāḥ kaṇṭaka-śodhanaṃ kuryuḥ .. 04.1.01 ..
अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ॥ ०४.१.०२ ॥
arthya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇā nikṣepaṃ gṛhṇīyuḥ .. 04.1.02 ..
विपत्तौ श्रेणी निक्षेपं भजेत ॥ ०४.१.०३ ॥
vipattau śreṇī nikṣepaṃ bhajeta .. 04.1.03 ..
निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ॥ ०४.१.०४ ॥
nirdiṣṭa-deśa-kāla-kāryaṃ ca karma kuryuḥ . anirdiṣṭa-deśa-kālaṃ kārya-apadeśaṃ .. 04.1.04 ..
काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ॥ ०४.१.०५ ॥
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ .. 04.1.05 ..
अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ॥ ०४.१.०६ ॥
anyatra bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvaheyuḥ .. 04.1.06 ..
कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ॥ ०४.१.०७ ॥
kāryasyānyathā-karaṇe vetana-nāśastad-dvi-guṇaśca daṇḍaḥ .. 04.1.07 ..
तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ॥ ०४.१.०८ ॥
tantu-vāyā daśa-ekādaśikaṃ sūtraṃ vardhayeyuḥ .. 04.1.08 ..
वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ॥ ०४.१.०९ ॥
vṛddhic-chede cheda-dvi-guṇo daṇḍaḥ .. 04.1.09 ..
सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ॥ ०४.१.१० ॥
sūtra-mūlyaṃ vāna-vetanaṃ . kṣauma-kauśeyānāṃ adhyardha-guṇaṃ . pattra-ūrṇā-kambala-dukūlānāṃ dvi-guṇaṃ .. 04.1.10 ..
मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ॥ ०४.१.११ ॥
māna-hīne hīna-avahīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ . tulā-hīne hīna-catur-guṇo daṇḍaḥ . sūtra-parivartane mūlya-dvi-guṇaḥ .. 04.1.11 ..
तेन द्वि-पट-वानं व्याख्यातं ॥ ०४.१.१२ ॥
tena dvi-paṭa-vānaṃ vyākhyātaṃ .. 04.1.12 ..
ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ॥ ०४.१.१३ ॥
ūrṇā-tulāyāḥ pañca-paliko vihananac-chedo romac-chedaśca .. 04.1.13 ..
रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ॥ ०४.१.१४ ॥
rajakāḥ kāṣṭha-phalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ .. 04.1.14 ..
अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ॥ ०४.१.१५ ॥
anyatra nenijato vastra-upaghātaṃ ṣaṭ-paṇaṃ ca daṇḍaṃ dadyuḥ .. 04.1.15 ..
मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ॥ ०४.१.१६ ॥
mudgara-aṅkādanyadvāsaḥ paridadhānāstri-paṇaṃ daṇḍaṃ dadyuḥ .. 04.1.16 ..
पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ॥ ०४.१.१७ ॥
para-vastra-vikraya-avakraya-ādhāneṣu ca dvādaśa-paṇo daṇḍaḥ . parivartane mūlya-dvi-guṇo vastra-dānaṃ ca .. 04.1.17 ..
मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ॥ ०४.१.१८ ॥
mukula-avadātaṃ śilā-paṭṭa-śuddhaṃ dhauta-sūtra-varṇaṃ pramṛṣṭa-śvetaṃ caeka-rātra-uttaraṃ dadyuḥ .. 04.1.18 ..
पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ॥ ०४.१.१९ ॥
pañca-rātrikaṃ tanu-rāgaṃ . ṣaḍ-rātrikaṃ nīlaṃ . puṣpa-lākṣā-mañjiṣṭhā-raktaṃ guru-parikarma yatna-upacāryaṃ jātyaṃ vāsaḥ sapta-rātrikaṃ .. 04.1.19 ..
ततः परं वेतन-हानिं प्राप्नुयुः ॥ ०४.१.२० ॥
tataḥ paraṃ vetana-hāniṃ prāpnuyuḥ .. 04.1.20 ..
श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ॥ ०४.१.२१ ॥
śraddheyā rāga-vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ .. 04.1.21 ..
परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ॥ ०४.१.२२ ॥
parārdhyānāṃ paṇo vetanaṃ . madhyamānāṃ ardha-paṇaḥ . pratyavarāṇāṃ pādaḥ . sthūlakānāṃ māṣaka-dvi-māṣakaṃ . dvi-guṇaṃ raktakānāṃ .. 04.1.22 ..
प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ॥ ०४.१.२३ ॥
prathama-nejane catur-bhāgaḥ kṣayaḥ . dvitīye pañca-bhāgaḥ .. 04.1.23 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.२४ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.24 ..
रजकैस्तुन्न-वाया व्याख्याताः ॥ ०४.१.२५ ॥
rajakaistunna-vāyā vyākhyātāḥ .. 04.1.25 ..
सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ॥ ०४.१.२६ ॥
suvarṇa-kārāṇāṃ aśuci-hastādrūpyaṃ suvarṇaṃ anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ . virūpaṃ catur-viṃśati-paṇaḥ . cora-hastādaṣṭa-catvāriṃśat-paṇaḥ .. 04.1.26 ..
प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ॥ ०४.१.२७ ॥
pracchanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ . kṛta-bhāṇḍa-upadhau ca .. 04.1.27 ..
सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ॥ ०४.१.२८ ॥
suvarṇānmāṣakaṃ apaharato dvi-śato daṇḍaḥ . rūpya-dharaṇānmāṣakaṃ apaharato dvādaśa-paṇaḥ .. 04.1.28 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.२९ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.29 ..
वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ॥ ०४.१.३० ॥
varṇa-utkarṣaṃ apasāraṇaṃ yogaṃ vā sādhayataḥ pañca-śato daṇḍaḥ .. 04.1.30 ..
तयोरपचरणे रागस्यापहारं विद्यात् ॥ ०४.१.३१ ॥
tayorapacaraṇe rāgasyāpahāraṃ vidyāt .. 04.1.31 ..
माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ॥ ०४.१.३२ ॥
māṣako vetanaṃ rūpya-dharaṇasya . suvarṇasyāṣṭa-bhāgaḥ .. 04.1.32 ..
शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ॥ ०४.१.३३ ॥
śikṣā-viśeṣeṇa dvi-guṇo vetana-vṛddhiḥ .. 04.1.33 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.३४ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.34 ..
ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ॥ ०४.१.३५ ॥
tāmra-vṛtta-kaṃsa-vaikṛntaka-āra-kūṭakānāṃ pañcakaṃ śataṃ vetanaṃ .. 04.1.35 ..
ताम्र-पिण्डो दश-भाग-क्षयः ॥ ०४.१.३६ ॥
tāmra-piṇḍo daśa-bhāga-kṣayaḥ .. 04.1.36 ..
पल-हीने हीन-द्वि-गुणो दण्डः ॥ ०४.१.३७ ॥
pala-hīne hīna-dvi-guṇo daṇḍaḥ .. 04.1.37 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.३८ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.38 ..
सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ॥ ०४.१.३९ ॥
sīsa-trapu-piṇḍo viṃśati-bhāga-kṣayaḥ .. 04.1.39 ..
काकणी चास्य पल-वेतनं ॥ ०४.१.४० ॥
kākaṇī cāsya pala-vetanaṃ .. 04.1.40 ..
काल-आयस-पिण्डः पञ्च-भाग-क्षयः ॥ ०४.१.४१ ॥
kāla-āyasa-piṇḍaḥ pañca-bhāga-kṣayaḥ .. 04.1.41 ..
काकणी-द्वयं चास्य पल-वेतनं ॥ ०४.१.४२ ॥
kākaṇī-dvayaṃ cāsya pala-vetanaṃ .. 04.1.42 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.४३ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.43 ..
रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ॥ ०४.१.४४ ॥
rūpa-darśakasya sthitāṃ paṇa-yātrāṃ akopyāṃ kopayataḥ kopyāṃ akopayato dvādaśa-paṇo daṇḍaḥ .. 04.1.44 ..
व्याजी-परिशुद्धौ पण-यात्रा ॥ ०४.१.४५ ॥
vyājī-pariśuddhau paṇa-yātrā .. 04.1.45 ..
पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ॥ ०४.१.४६ ॥
paṇānmāṣakaṃ upajīvato dvādaśa-paṇo daṇḍaḥ .. 04.1.46 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.४७ ॥
tenauttaraṃ vyākhyātaṃ .. 04.1.47 ..
कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ॥ ०४.१.४८ ॥
kūṭa-rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ . kośe prakṣipato vadhaḥ .. 04.1.48 ..
चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ॥ ०४.१.४९ ॥
caraka-pāṃsu-dhāvakāḥ sāra-tri-bhāgaṃ . dvau rājā ratnaṃ ca .. 04.1.49 ..
रत्न-अपहार उत्तमो दण्डः ॥ ०४.१.५० ॥
ratna-apahāra uttamo daṇḍaḥ .. 04.1.50 ..
खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ॥ ०४.१.५१ ॥
khani-ratna-nidhi-nivedaneṣu ṣaṣṭhaṃ aṃśaṃ nivettā labheta . dvādaśaṃ aṃśaṃ bhṛtakaḥ .. 04.1.51 ..
शत-सहस्रादूर्ध्वं राज-गामी निधिः ॥ ०४.१.५२ ॥
śata-sahasrādūrdhvaṃ rāja-gāmī nidhiḥ .. 04.1.52 ..
ऊने षष्ठं अंशं दद्यात् ॥ ०४.१.५३ ॥
ūne ṣaṣṭhaṃ aṃśaṃ dadyāt .. 04.1.53 ..
पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ॥ ०४.१.५४ ॥
paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva-karaṇena samagraṃ labheta .. 04.1.54 ..
स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ॥ ०४.१.५५ ॥
sva-karaṇa-abhāve pañca-śato daṇḍaḥ . pracchanna-ādāne sahasraṃ .. 04.1.55 ..
भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ॥ ०४.१.५६ ॥
bhiṣajaḥ prāṇa-ābādhikaṃ anākhyāyaupakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ . karma-aparādhena vipattau madhyamaḥ .. 04.1.56 ..
मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ॥ ०४.१.५७ ॥
marma-vadha-vaiguṇya-karaṇe daṇḍa-pāruṣyaṃ vidyāt .. 04.1.57 ..
कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ॥ ०४.१.५८ ॥
kuśīlavā varṣā-rātraṃ ekasthā vaseyuḥ .. 04.1.58 ..
काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ॥ ०४.१.५९ ॥
kāma-dānaṃ atimātraṃ ekasyātivādaṃ ca varjayeyuḥ .. 04.1.59 ..
तस्यातिक्रमे द्वादश-पणो दण्डः ॥ ०४.१.६० ॥
tasyātikrame dvādaśa-paṇo daṇḍaḥ .. 04.1.60 ..
कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ॥ ०४.१.६१ ॥
kāmaṃ deśa-jāti-gotra-caraṇa-maithuna-avahāsena narmayeyuḥ .. 04.1.61 ..
कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ॥ ०४.१.६२ ॥
kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ .. 04.1.62 ..
तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ॥ ०४.१.६३ ॥
teṣāṃ ayaḥ-śūlena yāvataḥ paṇānabhivadeyustāvantaḥ śiphā-prahārā daṇḍāḥ .. 04.1.63 ..
शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ॥ ०४.१.६४ ॥
śeṣāṇāṃ karmaṇāṃ niṣpatti-vetanaṃ śilpināṃ kalpayet .. 04.1.64 ..
एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ॥ ०४.१.६५अ ब ॥
evaṃ corānacora-ākhyānvaṇik-kāru-kuśīlavān . .. 04.1.65a ba ..
भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ॥ ०४.१.६६च्द् ॥
bhikṣukānkuhakāṃścānyānvārayeddeśa-pīḍanāt .. 04.1.66cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In