| |
|

This overlay will guide you through the buttons:

कलहे घ्नतः पुरुषं चित्रो घातः ॥ ०४.११.०१ ॥
कलहे घ्नतः पुरुषम् चित्रः घातः ॥ ०४।११।०१ ॥
kalahe ghnataḥ puruṣam citraḥ ghātaḥ .. 04.11.01 ..
सप्त-रात्रस्यान्तर्-मृते शुद्ध-वधः । पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्च-शतः समुत्थान-व्ययश्च ॥ ०४.११.०२ ॥
सप्त-रात्रस्य अन्तर् मृते शुद्ध-वधः । पक्षस्य अन्तर् उत्तमः । मासस्य अन्तः पञ्च-शतः समुत्थान-व्ययः च ॥ ०४।११।०२ ॥
sapta-rātrasya antar mṛte śuddha-vadhaḥ . pakṣasya antar uttamaḥ . māsasya antaḥ pañca-śataḥ samutthāna-vyayaḥ ca .. 04.11.02 ..
शस्त्रेण प्रहरत उत्तमो दण्डः ॥ ०४.११.०३ ॥
शस्त्रेण प्रहरतः उत्तमः दण्डः ॥ ०४।११।०३ ॥
śastreṇa praharataḥ uttamaḥ daṇḍaḥ .. 04.11.03 ..
मदेन हस्त-वधः । मोहेन द्वि-शतः ॥ ०४.११.०४ ॥
मदेन हस्त-वधः । मोहेन द्वि-शतः ॥ ०४।११।०४ ॥
madena hasta-vadhaḥ . mohena dvi-śataḥ .. 04.11.04 ..
वधे वधः ॥ ०४.११.०५ ॥
वधे वधः ॥ ०४।११।०५ ॥
vadhe vadhaḥ .. 04.11.05 ..
प्रहारेण गर्भं पातयत उत्तमो दण्डः । भैषज्येन मध्यमः । परिक्लेशेन पूर्वः साहस-दण्डः ॥ ०४.११.०६ ॥
प्रहारेण गर्भम् पातयतः उत्तमः दण्डः । भैषज्येन मध्यमः । परिक्लेशेन पूर्वः साहस-दण्डः ॥ ०४।११।०६ ॥
prahāreṇa garbham pātayataḥ uttamaḥ daṇḍaḥ . bhaiṣajyena madhyamaḥ . parikleśena pūrvaḥ sāhasa-daṇḍaḥ .. 04.11.06 ..
प्रसभ-स्त्री-पुरुष-घातक-अभिसारक-निग्राहक-अवघोषक-अवस्कन्दक-उपवेधकान्पथि-वेश्म-प्रतिरोधकान्राज-हस्त्य्-अश्व-रथानां हिंसकान्स्तेनान्वा शूलानारोहयेयुः ॥ ०४.११.०७ ॥
प्रसभ-स्त्री-पुरुष-घातक-अभिसारक-निग्राहक-अवघोषक-अवस्कन्दक-उपवेधकान् पथि वेश्म-प्रतिरोधकान् राज-हस्ति-अश्व-रथानाम् हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः ॥ ०४।११।०७ ॥
prasabha-strī-puruṣa-ghātaka-abhisāraka-nigrāhaka-avaghoṣaka-avaskandaka-upavedhakān pathi veśma-pratirodhakān rāja-hasti-aśva-rathānām hiṃsakān stenān vā śūlān ārohayeyuḥ .. 04.11.07 ..
यश्चएनान्दहेदपनयेद्वा स तं एव दण्डं लभेत । साहसं उत्तमं वा ॥ ०४.११.०८ ॥
यः च एनान् दहेत् अपनयेत् वा स तम् एव दण्डम् लभेत । साहसम् उत्तमम् वा ॥ ०४।११।०८ ॥
yaḥ ca enān dahet apanayet vā sa tam eva daṇḍam labheta . sāhasam uttamam vā .. 04.11.08 ..
हिंस्र-स्तेनानां भक्त-वास-उपकरण-अग्नि-मन्त्र-दान-वैयावृत्य-कर्मसुउत्तमो दण्डः । परिभाषणं अविज्ञाते ॥ ०४.११.०९ ॥
हिंस्र-स्तेनानाम् भक्त-वास-उपकरण-अग्नि-मन्त्र-दान-वैयावृत्य-कर्मसु उत्तमः दण्डः । परिभाषणम् अ विज्ञाते ॥ ०४।११।०९ ॥
hiṃsra-stenānām bhakta-vāsa-upakaraṇa-agni-mantra-dāna-vaiyāvṛtya-karmasu uttamaḥ daṇḍaḥ . paribhāṣaṇam a vijñāte .. 04.11.09 ..
हिंस्र-स्तेनानां पुत्र-दारं असमन्त्रं विसृजेत् । समन्त्रं आददीत ॥ ०४.११.१० ॥
हिंस्र-स्तेनानाम् पुत्र-दारम् अ स मन्त्रम् विसृजेत् । स मन्त्रम् आददीत ॥ ०४।११।१० ॥
hiṃsra-stenānām putra-dāram a sa mantram visṛjet . sa mantram ādadīta .. 04.11.10 ..
राज्य-कामुकं अन्तःपुर-प्रधर्षकं अटव्य्-अमित्र-उत्साहकं दुर्ग-राष्ट्र-दण्ड-कोपकं वा शिरो-हस्त-प्रदीपिकं घातयेत् ॥ ०४.११.११ ॥
राज्य-कामुकम् अन्तःपुर-प्रधर्षकम् अटवी-अमित्र-उत्साहकम् दुर्ग-राष्ट्र-दण्ड-कोपकम् वा शिरः-हस्त-प्रदीपिकम् घातयेत् ॥ ०४।११।११ ॥
rājya-kāmukam antaḥpura-pradharṣakam aṭavī-amitra-utsāhakam durga-rāṣṭra-daṇḍa-kopakam vā śiraḥ-hasta-pradīpikam ghātayet .. 04.11.11 ..
ब्राह्मणं तमः प्रवेशयेत् ॥ ०४.११.१२ ॥
ब्राह्मणम् तमः प्रवेशयेत् ॥ ०४।११।१२ ॥
brāhmaṇam tamaḥ praveśayet .. 04.11.12 ..
मातृ-पितृ-पुत्र-भ्रात्र्-आचार्य-तपस्वि-घातकं वाअ-त्वक्-शिरः-प्रादीपिकं घातयेत् ॥ ०४.११.१३ ॥
मातृ-पितृ-पुत्र-भ्रातृ-आचार्य-तपस्वि-घातकम् वा अ त्वक्-शिरः-प्रादीपिकम् घातयेत् ॥ ०४।११।१३ ॥
mātṛ-pitṛ-putra-bhrātṛ-ācārya-tapasvi-ghātakam vā a tvak-śiraḥ-prādīpikam ghātayet .. 04.11.13 ..
तेषां आक्रोशे जिह्वाच्-छेदः । अङ्ग-अभिरदने तद्-अङ्गान्मोच्यः ॥ ०४.११.१४ ॥
तेषाम् आक्रोशे जिह्वात् छेदः । अङ्ग-अभिरदने तद्-अङ्गात् मोच्यः ॥ ०४।११।१४ ॥
teṣām ākrośe jihvāt chedaḥ . aṅga-abhiradane tad-aṅgāt mocyaḥ .. 04.11.14 ..
यदृच्छा-घाते पुंसः पशु-यूथ-स्तेये च शुद्ध-वधः ॥ ०४.११.१५ ॥
यदृच्छा-घाते पुंसः पशु-यूथ-स्तेये च शुद्ध-वधः ॥ ०४।११।१५ ॥
yadṛcchā-ghāte puṃsaḥ paśu-yūtha-steye ca śuddha-vadhaḥ .. 04.11.15 ..
दश-अवरं च यूथं विद्यात् ॥ ०४.११.१६ ॥
दश-अवरम् च यूथम् विद्यात् ॥ ०४।११।१६ ॥
daśa-avaram ca yūtham vidyāt .. 04.11.16 ..
उदक-धारणं सेतुं भिन्दतस्तत्रएवाप्सु निमज्जनम् । अनुदकं उत्तमः साहस-दण्डः । भग्न-उत्सृष्टकं मध्यमः ॥ ०४.११.१७ ॥
उदक-धारणम् सेतुम् भिन्दतः तत्र एव अप्सु निमज्जनम् । अनुदकम् उत्तमः साहस-दण्डः । भग्न-उत्सृष्टकम् मध्यमः ॥ ०४।११।१७ ॥
udaka-dhāraṇam setum bhindataḥ tatra eva apsu nimajjanam . anudakam uttamaḥ sāhasa-daṇḍaḥ . bhagna-utsṛṣṭakam madhyamaḥ .. 04.11.17 ..
विष-दायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेदगर्भिणीम् । गर्भिणीं मास-अवर-प्रजातां ॥ ०४.११.१८ ॥
विष-दायकम् पुरुषम् स्त्रियम् च पुरुष-घ्नीम् अपः प्रवेशयेत् अगर्भिणीम् । गर्भिणीम् मास-अवर-प्रजाताम् ॥ ०४।११।१८ ॥
viṣa-dāyakam puruṣam striyam ca puruṣa-ghnīm apaḥ praveśayet agarbhiṇīm . garbhiṇīm māsa-avara-prajātām .. 04.11.18 ..
पति-गुरु-प्रजा-घातिकां अग्नि-विषदां संधिच्-छेदिकां वा गोभिः पाटयेत् ॥ ०४.११.१९ ॥
पति-गुरु-प्रजा-घातिकाम् अग्नि-विष-दाम् संधिच्-छेदिकाम् वा गोभिः पाटयेत् ॥ ०४।११।१९ ॥
pati-guru-prajā-ghātikām agni-viṣa-dām saṃdhic-chedikām vā gobhiḥ pāṭayet .. 04.11.19 ..
विवीत-क्षेत्र-खल-वेश्म-द्रव्य-हस्ति-वन-आदीपिकं अग्निना दाहयेत् ॥ ०४.११.२० ॥
विवीत-क्षेत्र-खल-वेश्म-द्रव्य-हस्ति-वन-आदीपिकम् अग्निना दाहयेत् ॥ ०४।११।२० ॥
vivīta-kṣetra-khala-veśma-dravya-hasti-vana-ādīpikam agninā dāhayet .. 04.11.20 ..
राज-आक्रोशक-मन्त्र-भेदकयोरनिष्ट-प्रवृत्तिकस्य ब्राह्मण-महानस-अवलेहिनश्च जिह्वां उत्पाटयेत् ॥ ०४.११.२१ ॥
राज-आक्रोशक-मन्त्र-भेदकयोः अनिष्ट-प्रवृत्तिकस्य ब्राह्मण-महानस-अवलेहिनः च जिह्वाम् उत्पाटयेत् ॥ ०४।११।२१ ॥
rāja-ākrośaka-mantra-bhedakayoḥ aniṣṭa-pravṛttikasya brāhmaṇa-mahānasa-avalehinaḥ ca jihvām utpāṭayet .. 04.11.21 ..
प्रहरण-आवरण-स्तेनं अनायुधीयं इषुभिर्घातयेत् ॥ ०४.११.२२ ॥
प्रहरण-आवरण-स्तेनम् अन् आयुधीयम् इषुभिः घातयेत् ॥ ०४।११।२२ ॥
praharaṇa-āvaraṇa-stenam an āyudhīyam iṣubhiḥ ghātayet .. 04.11.22 ..
आयुधीयस्यौत्तमः ॥ ०४.११.२३ ॥
आयुधीयस्य औत्तमः ॥ ०४।११।२३ ॥
āyudhīyasya auttamaḥ .. 04.11.23 ..
मेढ्र-फल-उपघातिनस्तदेवच्छेदयेत् ॥ ०४.११.२४ ॥
मेढ्र-फल-उपघातिनः तत् एव छेदयेत् ॥ ०४।११।२४ ॥
meḍhra-phala-upaghātinaḥ tat eva chedayet .. 04.11.24 ..
जिह्वा-नास-उपघाते संदंश-वधः ॥ ०४.११.२५ ॥
जिह्वा-नास-उपघाते संदंश-वधः ॥ ०४।११।२५ ॥
jihvā-nāsa-upaghāte saṃdaṃśa-vadhaḥ .. 04.11.25 ..
एते शास्त्रेष्वनुगताः क्लेश-दण्डा महात्मनां । ॥ ०४.११.२६अ ब ॥
एते शास्त्रेषु अनुगताः क्लेश-दण्डाः महात्मनाम् । ॥ ०४।११।२६अ ब ॥
ete śāstreṣu anugatāḥ kleśa-daṇḍāḥ mahātmanām . .. 04.11.26a ba ..
अक्लिष्टानां तु पापानां धर्म्यः शुद्ध-वधः स्मृतः ॥ ०४.११.२६च्द् ॥
अक्लिष्टानाम् तु पापानाम् धर्म्यः शुद्ध-वधः स्मृतः ॥ ०४।११।२६च् ॥
akliṣṭānām tu pāpānām dharmyaḥ śuddha-vadhaḥ smṛtaḥ .. 04.11.26c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In