| |
|

This overlay will guide you through the buttons:

सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ॥ ०४.१२.०१ ॥
सवर्णाम् अप्राप्त-फलाम् प्रकुर्वतः हस्त-वधः । चतुः-शतः वा दण्डः ॥ ०४।१२।०१ ॥
savarṇām aprāpta-phalām prakurvataḥ hasta-vadhaḥ . catuḥ-śataḥ vā daṇḍaḥ .. 04.12.01 ..
मृतायां वधः ॥ ०४.१२.०२ ॥
मृतायाम् वधः ॥ ०४।१२।०२ ॥
mṛtāyām vadhaḥ .. 04.12.02 ..
प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ॥ ०४.१२.०३ ॥
प्राप्त-फलाम् प्रकुर्वतः मध्यमा-प्रदेशिनी-वधो । द्वि-शतः वा दण्डः ॥ ०४।१२।०३ ॥
prāpta-phalām prakurvataḥ madhyamā-pradeśinī-vadho . dvi-śataḥ vā daṇḍaḥ .. 04.12.03 ..
पितुश्चावहीनं दद्यात् ॥ ०४.१२.०४ ॥
पितुः च अवहीनम् दद्यात् ॥ ०४।१२।०४ ॥
pituḥ ca avahīnam dadyāt .. 04.12.04 ..
न च प्राकाम्यं अकामायां लब्भेत ॥ ०४.१२.०५ ॥
न च प्राकाम्यम् अकामायाम् लब्भेत ॥ ०४।१२।०५ ॥
na ca prākāmyam akāmāyām labbheta .. 04.12.05 ..
सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ॥ ०४.१२.०६ ॥
स कामायाम् चतुष्पञ्चाशत्-पणः दण्डः । स्त्रियाः तु अर्ध-दण्डः ॥ ०४।१२।०६ ॥
sa kāmāyām catuṣpañcāśat-paṇaḥ daṇḍaḥ . striyāḥ tu ardha-daṇḍaḥ .. 04.12.06 ..
पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ॥ ०४.१२.०७ ॥
पर-शुल्क-अवरुद्धायाम् हस्त-वधः । चतुः-शतः वा दण्डः । शुल्क-दानम् च ॥ ०४।१२।०७ ॥
para-śulka-avaruddhāyām hasta-vadhaḥ . catuḥ-śataḥ vā daṇḍaḥ . śulka-dānam ca .. 04.12.07 ..
सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ॥ ०४.१२.०८ ॥
सप्त-आर्तव-प्रजाताम् वरणात् ऊर्ध्वम् अ लभमानः प्रकृत्य प्राकामी स्यात् । न च पितुः अवहीनम् दद्यात् ॥ ०४।१२।०८ ॥
sapta-ārtava-prajātām varaṇāt ūrdhvam a labhamānaḥ prakṛtya prākāmī syāt . na ca pituḥ avahīnam dadyāt .. 04.12.08 ..
ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ॥ ०४.१२.०९ ॥
ऋतु-प्रतिरोधिभिः स्वाम्यात् अपक्रामति ॥ ०४।१२।०९ ॥
ṛtu-pratirodhibhiḥ svāmyāt apakrāmati .. 04.12.09 ..
त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ॥ ०४.१२.१० ॥
त्रि-वर्ष-प्रजात-आर्तवायाः तुल्यः गन्तुम् अदोषः । ततस् परम् ॥ ०४।१२।१० ॥
tri-varṣa-prajāta-ārtavāyāḥ tulyaḥ gantum adoṣaḥ . tatas param .. 04.12.10 ..
पितृ-द्रव्य-आदाने स्तेयं भजेत ॥ ०४.१२.११ ॥
पितृ-द्रव्य-आदाने स्तेयम् भजेत ॥ ०४।१२।११ ॥
pitṛ-dravya-ādāne steyam bhajeta .. 04.12.11 ..
परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ॥ ०४.१२.१२ ॥
परम् उद्दिश्य अन्यस्य विन्दतः द्वि-शतः दण्डः ॥ ०४।१२।१२ ॥
param uddiśya anyasya vindataḥ dvi-śataḥ daṇḍaḥ .. 04.12.12 ..
न च प्राकांयं अकामायां लभेत ॥ ०४.१२.१३ ॥
न च प्राकांयम् अकामायाम् लभेत ॥ ०४।१२।१३ ॥
na ca prākāṃyam akāmāyām labheta .. 04.12.13 ..
कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ॥ ०४.१२.१४ ॥
कन्याम् अन्याम् दर्शयित्वा अन्याम् प्रयच्छतः शत्यः दण्डः तुल्यायाम् । हीनायाम् द्वि-गुणः ॥ ०४।१२।१४ ॥
kanyām anyām darśayitvā anyām prayacchataḥ śatyaḥ daṇḍaḥ tulyāyām . hīnāyām dvi-guṇaḥ .. 04.12.14 ..
प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ॥ ०४.१२.१५ ॥
प्रकर्मण्य-कुमार्याः चतुष्पञ्चाशत्-पणः दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ॥ ०४।१२।१५ ॥
prakarmaṇya-kumāryāḥ catuṣpañcāśat-paṇaḥ daṇḍaḥ . śulka-vyaya-karmaṇī ca pratidadyāt .. 04.12.15 ..
अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ॥ ०४.१२.१६ ॥
अवस्थाय तद्-जातम् पश्चात् कृता द्वि-गुणम् दद्यात् ॥ ०४।१२।१६ ॥
avasthāya tad-jātam paścāt kṛtā dvi-guṇam dadyāt .. 04.12.16 ..
अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ॥ ०४.१२.१७ ॥
अन्य-शोणित-उपधाने द्विशतः दण्डः । मिथ्या अभिशंसिनः च पुंसः ॥ ०४।१२।१७ ॥
anya-śoṇita-upadhāne dviśataḥ daṇḍaḥ . mithyā abhiśaṃsinaḥ ca puṃsaḥ .. 04.12.17 ..
शुल्क-व्यय-कर्मणी च जीयेत ॥ ०४.१२.१८ ॥
शुल्क-व्यय-कर्मणी च जीयेत ॥ ०४।१२।१८ ॥
śulka-vyaya-karmaṇī ca jīyeta .. 04.12.18 ..
न च प्राकांयं अकामायां लभेत ॥ ०४.१२.१९ ॥
न च प्राकांयम् अकामायाम् लभेत ॥ ०४।१२।१९ ॥
na ca prākāṃyam akāmāyām labheta .. 04.12.19 ..
स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ॥ ०४.१२.२० ॥
स्त्री-प्रकृता स कामा समाना द्वादश-पणम् दण्डम् दद्यात् । प्रकर्त्री द्वि-गुणम् ॥ ०४।१२।२० ॥
strī-prakṛtā sa kāmā samānā dvādaśa-paṇam daṇḍam dadyāt . prakartrī dvi-guṇam .. 04.12.20 ..
अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ॥ ०४.१२.२१ ॥
अकामायाः शत्यः दण्डः आत्म-राग-अर्थम् । शुल्क-दानम् च ॥ ०४।१२।२१ ॥
akāmāyāḥ śatyaḥ daṇḍaḥ ātma-rāga-artham . śulka-dānam ca .. 04.12.21 ..
स्वयं प्रकृता राज-दास्यं गच्छेत् ॥ ०४.१२.२२ ॥
स्वयम् प्रकृता राज-दास्यम् गच्छेत् ॥ ०४।१२।२२ ॥
svayam prakṛtā rāja-dāsyam gacchet .. 04.12.22 ..
बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ॥ ०४.१२.२३ ॥
बहिस् ग्रामस्य प्रकृतायाम् मिथ्या अभिशंसने च द्वि-गुणः दण्डः ॥ ०४।१२।२३ ॥
bahis grāmasya prakṛtāyām mithyā abhiśaṃsane ca dvi-guṇaḥ daṇḍaḥ .. 04.12.23 ..
प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ॥ ०४.१२.२४ ॥
प्रसह्य कन्याम् अपहरतः द्वि-शतः । स सुवर्णाम् उत्तमः ॥ ०४।१२।२४ ॥
prasahya kanyām apaharataḥ dvi-śataḥ . sa suvarṇām uttamaḥ .. 04.12.24 ..
बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ॥ ०४.१२.२५ ॥
बहूनाम् कन्या-अपहारिणाम् पृथक् यथा उक्ताः दण्डाः ॥ ०४।१२।२५ ॥
bahūnām kanyā-apahāriṇām pṛthak yathā uktāḥ daṇḍāḥ .. 04.12.25 ..
गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ॥ ०४.१२.२६ ॥
गणिका-दुहितरम् प्रकुर्वतः चतुष्पञ्चाशत्-पणः दण्डः । शुल्कम् मातुः भोगः षोडश-गुणः ॥ ०४।१२।२६ ॥
gaṇikā-duhitaram prakurvataḥ catuṣpañcāśat-paṇaḥ daṇḍaḥ . śulkam mātuḥ bhogaḥ ṣoḍaśa-guṇaḥ .. 04.12.26 ..
दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ॥ ०४.१२.२७ ॥
दासस्य दास्याः वा दुहितरम् अदासीम् प्रकुर्वतः चतुर्-विंशति-पणः दण्डः शुल्क-आबन्ध्य-दानम् च ॥ ०४।१२।२७ ॥
dāsasya dāsyāḥ vā duhitaram adāsīm prakurvataḥ catur-viṃśati-paṇaḥ daṇḍaḥ śulka-ābandhya-dānam ca .. 04.12.27 ..
निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ॥ ०४.१२.२८ ॥
निष्क्रय-अनुरूपाम् दासीम् प्रकुर्वतः द्वादश-पणः दण्डः वस्त्र-आबन्ध्य-दानम् च ॥ ०४।१२।२८ ॥
niṣkraya-anurūpām dāsīm prakurvataḥ dvādaśa-paṇaḥ daṇḍaḥ vastra-ābandhya-dānam ca .. 04.12.28 ..
साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ॥ ०४.१२.२९ ॥
साचिव्य-अवकाश-दाने कर्तृ-समः दण्डः ॥ ०४।१२।२९ ॥
sācivya-avakāśa-dāne kartṛ-samaḥ daṇḍaḥ .. 04.12.29 ..
प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ॥ ०४.१२.३० ॥
प्रोषित-पतिकाम् अपचरन्तीम् पति-बन्धुः तद्-पुरुषः वा संगृह्णीयात् ॥ ०४।१२।३० ॥
proṣita-patikām apacarantīm pati-bandhuḥ tad-puruṣaḥ vā saṃgṛhṇīyāt .. 04.12.30 ..
संगृहीता पतिं आकाङ्क्षेत ॥ ०४.१२.३१ ॥
संगृहीता पतिम् आकाङ्क्षेत ॥ ०४।१२।३१ ॥
saṃgṛhītā patim ākāṅkṣeta .. 04.12.31 ..
पतिश्चेत्क्षमेत विसृज्येतौभयं ॥ ०४.१२.३२ ॥
पतिः चेद् क्षमेत विसृज्येत औभयम् ॥ ०४।१२।३२ ॥
patiḥ ced kṣameta visṛjyeta aubhayam .. 04.12.32 ..
अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ॥ ०४.१२.३३ ॥
अक्षमायाम् स्त्रियाः कर्ण-नास-आच्छेदनम् । वधम् जारः च प्राप्नुयात् ॥ ०४।१२।३३ ॥
akṣamāyām striyāḥ karṇa-nāsa-ācchedanam . vadham jāraḥ ca prāpnuyāt .. 04.12.33 ..
जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ॥ ०४.१२.३४ ॥
जारम् चोरः इति अभिहरतः पञ्च-शतः दण्डः । हिरण्येन मुञ्चतः तद्-अष्ट-गुणः ॥ ०४।१२।३४ ॥
jāram coraḥ iti abhiharataḥ pañca-śataḥ daṇḍaḥ . hiraṇyena muñcataḥ tad-aṣṭa-guṇaḥ .. 04.12.34 ..
केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ॥ ०४.१२.३५ ॥
केशाकेशिकम् संग्रहणम् । उपलिङ्गनात् वा शरीर-उपभोगानाम् । तद्-जातेभ्यः(तद्-ज्ञातेभ्यः? । स्त्री-वचनात् वा ॥ ०४।१२।३५ ॥
keśākeśikam saṃgrahaṇam . upaliṅganāt vā śarīra-upabhogānām . tad-jātebhyaḥ(tad-jñātebhyaḥ? . strī-vacanāt vā .. 04.12.35 ..
पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ॥ ०४.१२.३६ ॥
पर-चक्र-अटवी-हृताम् ओघ-प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्ताम् प्रेत-भाव-उत्सृष्टाम् वा पर-स्त्रियम् निस्तारयित्वा यथा संभाषितम् समुपभुञ्जीत ॥ ०४।१२।३६ ॥
para-cakra-aṭavī-hṛtām ogha-pravyūḍhām araṇyeṣu durbhikṣe vā tyaktām preta-bhāva-utsṛṣṭām vā para-striyam nistārayitvā yathā saṃbhāṣitam samupabhuñjīta .. 04.12.36 ..
जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ॥ ०४.१२.३७ ॥
जाति-विशिष्टाम् अकामाम् अपत्यवतीम् निष्क्रयेण दद्यात् ॥ ०४।१२।३७ ॥
jāti-viśiṣṭām akāmām apatyavatīm niṣkrayeṇa dadyāt .. 04.12.37 ..
चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ॥ ०४.१२.३८अ ब ॥
चोर-हस्तात् नदी-वेगात् दुर्भिक्षात् देश-विभ्रमात् । ॥ ०४।१२।३८अ ब ॥
cora-hastāt nadī-vegāt durbhikṣāt deśa-vibhramāt . .. 04.12.38a ba ..
निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ॥ ०४.१२.३८च्द् ॥
निस्तारयित्वा कान्तारात् नष्टाम् त्यक्ताम् वा ॥ ०४।१२।३८च् ॥
nistārayitvā kāntārāt naṣṭām tyaktām vā .. 04.12.38c ..
भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ॥ ०४.१२.३९अ ब ॥
भुञ्जीत स्त्रियम् अन्येषाम् यथा संभाषितम् नरः । ॥ ०४।१२।३९अ ब ॥
bhuñjīta striyam anyeṣām yathā saṃbhāṣitam naraḥ . .. 04.12.39a ba ..
न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ॥ ०४.१२.३९च्द् ॥
न तु राज-प्रतापेन प्रमुक्ताम् स्व-जनेन वा ॥ ०४।१२।३९च् ॥
na tu rāja-pratāpena pramuktām sva-janena vā .. 04.12.39c ..
न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ॥ ०४.१२.४०अ ब ॥
न च औत्तमाम् न च अकामाम् पूर्व-अपत्यवतीम् न च । ॥ ०४।१२।४०अ ब ॥
na ca auttamām na ca akāmām pūrva-apatyavatīm na ca . .. 04.12.40a ba ..
ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ॥ ०४.१२.४०च्द् ॥
ईदृशीम् तु अनुरूपेण निष्क्रयेण अपवाहयेत् ॥ ०४।१२।४०च् ॥
īdṛśīm tu anurūpeṇa niṣkrayeṇa apavāhayet .. 04.12.40c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In