| |
|

This overlay will guide you through the buttons:

सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ॥ ०४.१२.०१ ॥
savarṇāṃ aprāpta-phalāṃ prakurvato hasta-vadhaḥ . catuḥ-śato vā daṇḍaḥ .. 04.12.01 ..
मृतायां वधः ॥ ०४.१२.०२ ॥
mṛtāyāṃ vadhaḥ .. 04.12.02 ..
प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ॥ ०४.१२.०३ ॥
prāpta-phalāṃ prakurvato madhyamā-pradeśinī-vadho . dvi-śato vā daṇḍaḥ .. 04.12.03 ..
पितुश्चावहीनं दद्यात् ॥ ०४.१२.०४ ॥
pituścāvahīnaṃ dadyāt .. 04.12.04 ..
न च प्राकाम्यं अकामायां लब्भेत ॥ ०४.१२.०५ ॥
na ca prākāmyaṃ akāmāyāṃ labbheta .. 04.12.05 ..
सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ॥ ०४.१२.०६ ॥
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ . striyāstvardha-daṇḍaḥ .. 04.12.06 ..
पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ॥ ०४.१२.०७ ॥
para-śulka-avaruddhāyāṃ hasta-vadhaḥ . catuḥ-śato vā daṇḍaḥ . śulka-dānaṃ ca .. 04.12.07 ..
सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ॥ ०४.१२.०८ ॥
sapta-ārtava-prajātāṃ varaṇādūrdhvaṃ alabhamānaḥ prakṛtya prākāmī syāt . na ca pituravahīnaṃ dadyāt .. 04.12.08 ..
ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ॥ ०४.१२.०९ ॥
ṛtu-pratirodhibhiḥ svāmyādapakrāmati .. 04.12.09 ..
त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ॥ ०४.१२.१० ॥
tri-varṣa-prajāta-ārtavāyāstulyo gantuṃ adoṣaḥ . tataḥ paraṃ atulyoapyanalaṃkṛtāyāḥ .. 04.12.10 ..
पितृ-द्रव्य-आदाने स्तेयं भजेत ॥ ०४.१२.११ ॥
pitṛ-dravya-ādāne steyaṃ bhajeta .. 04.12.11 ..
परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ॥ ०४.१२.१२ ॥
paraṃ uddiśyānyasya vindato dvi-śato daṇḍaḥ .. 04.12.12 ..
न च प्राकांयं अकामायां लभेत ॥ ०४.१२.१३ ॥
na ca prākāṃyaṃ akāmāyāṃ labheta .. 04.12.13 ..
कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ॥ ०४.१२.१४ ॥
kanyāṃ anyāṃ darśayitvāanyāṃ prayacchataḥ śatyo daṇḍastulyāyām . hīnāyāṃ dvi-guṇaḥ .. 04.12.14 ..
प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ॥ ०४.१२.१५ ॥
prakarmaṇyakumāryāścatuṣ-pañcāśat-paṇo daṇḍaḥ . śulka-vyaya-karmaṇī ca pratidadyāt .. 04.12.15 ..
अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ॥ ०४.१२.१६ ॥
avasthāya taj-jātaṃ paścāt-kṛtā dvi-guṇaṃ dadyāt .. 04.12.16 ..
अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ॥ ०४.१२.१७ ॥
anya-śoṇita-upadhāne dviśato daṇḍaḥ . mithyā-abhiśaṃsinaśca puṃsaḥ .. 04.12.17 ..
शुल्क-व्यय-कर्मणी च जीयेत ॥ ०४.१२.१८ ॥
śulka-vyaya-karmaṇī ca jīyeta .. 04.12.18 ..
न च प्राकांयं अकामायां लभेत ॥ ०४.१२.१९ ॥
na ca prākāṃyaṃ akāmāyāṃ labheta .. 04.12.19 ..
स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ॥ ०४.१२.२० ॥
strī-prakṛtā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt . prakartrī dvi-guṇaṃ .. 04.12.20 ..
अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ॥ ०४.१२.२१ ॥
akāmāyāḥ śatyo daṇḍa ātma-rāga-artham . śulka-dānaṃ ca .. 04.12.21 ..
स्वयं प्रकृता राज-दास्यं गच्छेत् ॥ ०४.१२.२२ ॥
svayaṃ prakṛtā rāja-dāsyaṃ gacchet .. 04.12.22 ..
बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ॥ ०४.१२.२३ ॥
bahir-grāmasya prakṛtāyāṃ mithyā-abhiśaṃsane ca dvi-guṇo daṇḍaḥ .. 04.12.23 ..
प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ॥ ०४.१२.२४ ॥
prasahya kanyāṃ apaharato dvi-śataḥ . sasuvarṇāṃ uttamaḥ .. 04.12.24 ..
बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ॥ ०४.१२.२५ ॥
bahūnāṃ kanyā-apahāriṇāṃ pṛthagyathā-uktā daṇḍāḥ .. 04.12.25 ..
गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ॥ ०४.१२.२६ ॥
gaṇikā-duhitaraṃ prakurvataścatuṣ-pañcāśat-paṇo daṇḍaḥ . śulkaṃ māturbhogaḥ ṣoḍaśa-guṇaḥ .. 04.12.26 ..
दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ॥ ०४.१२.२७ ॥
dāsasya dāsyā vā duhitaraṃ adāsīṃ prakurvataścatur-viṃśati-paṇo daṇḍaḥ śulka-ābandhya-dānaṃ ca .. 04.12.27 ..
निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ॥ ०४.१२.२८ ॥
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandhya-dānaṃ ca .. 04.12.28 ..
साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ॥ ०४.१२.२९ ॥
sācivya-avakāśa-dāne kartṛ-samo daṇḍaḥ .. 04.12.29 ..
प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ॥ ०४.१२.३० ॥
proṣita-patikāṃ apacarantīṃ pati-bandhustat-puruṣo vā saṃgṛhṇīyāt .. 04.12.30 ..
संगृहीता पतिं आकाङ्क्षेत ॥ ०४.१२.३१ ॥
saṃgṛhītā patiṃ ākāṅkṣeta .. 04.12.31 ..
पतिश्चेत्क्षमेत विसृज्येतौभयं ॥ ०४.१२.३२ ॥
patiścetkṣameta visṛjyetaubhayaṃ .. 04.12.32 ..
अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ॥ ०४.१२.३३ ॥
akṣamāyāṃ striyāḥ karṇa-nāsa-ācchedanam . vadhaṃ jāraśca prāpnuyāt .. 04.12.33 ..
जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ॥ ०४.१२.३४ ॥
jāraṃ cora ityabhiharataḥ pañca-śato daṇḍaḥ . hiraṇyena muñcatastad-aṣṭa-guṇaḥ .. 04.12.34 ..
केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ॥ ०४.१२.३५ ॥
keśākeśikaṃ saṃgrahaṇam . upaliṅganādvā śarīra-upabhogānām . taj-jātebhyaḥ(taj-jñātebhyaḥ? cf-ṇ12-60)) . strī-vacanādvā .. 04.12.35 ..
पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ॥ ०४.१२.३६ ॥
para-cakra-aṭavī-hṛtāṃ ogha-pravyūḍhāṃ araṇyeṣu durbhikṣe vā tyaktāṃ preta-bhāva-utsṛṣṭāṃ vā para-striyaṃ nistārayitvā yathā-saṃbhāṣitaṃ samupabhuñjīta .. 04.12.36 ..
जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ॥ ०४.१२.३७ ॥
jāti-viśiṣṭāṃ akāmāṃ apatyavatīṃ niṣkrayeṇa dadyāt .. 04.12.37 ..
चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ॥ ०४.१२.३८अ ब ॥
cora-hastānnadī-vegāddurbhikṣāddeśa-vibhramāt . .. 04.12.38a ba ..
निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ॥ ०४.१२.३८च्द् ॥
nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛtāiti vā .. 04.12.38cd ..
भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ॥ ०४.१२.३९अ ब ॥
bhuñjīta striyaṃ anyeṣāṃ yathā-saṃbhāṣitaṃ naraḥ . .. 04.12.39a ba ..
न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ॥ ०४.१२.३९च्द् ॥
na tu rāja-pratāpena pramuktāṃ svajanena vā .. 04.12.39cd ..
न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ॥ ०४.१२.४०अ ब ॥
na cauttamāṃ na cākāmāṃ pūrva-apatyavatīṃ na ca . .. 04.12.40a ba ..
ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ॥ ०४.१२.४०च्द् ॥
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet .. 04.12.40cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In