| |
|

This overlay will guide you through the buttons:

ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०४.१३.०१ ॥
ब्राह्मणम् अपेयम् अभक्ष्यम् वा ग्रासयतः उत्तमः दण्डः । क्षत्रियम् मध्यमः । वैश्यम् पूर्वः साहस-दण्डः । शूद्रम् चतुष्पञ्चाशत्-पणः दण्डः ॥ ०४।१३।०१ ॥
brāhmaṇam apeyam abhakṣyam vā grāsayataḥ uttamaḥ daṇḍaḥ . kṣatriyam madhyamaḥ . vaiśyam pūrvaḥ sāhasa-daṇḍaḥ . śūdram catuṣpañcāśat-paṇaḥ daṇḍaḥ .. 04.13.01 ..
स्वयं ग्रसितारो निर्विषयाः कार्याः ॥ ०४.१३.०२ ॥
स्वयम् ग्रसितारः निर्विषयाः कार्याः ॥ ०४।१३।०२ ॥
svayam grasitāraḥ nirviṣayāḥ kāryāḥ .. 04.13.02 ..
पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ॥ ०४.१३.०३ ॥
पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ॥ ०४।१३।०३ ॥
para-gṛha-abhigamane divā pūrvaḥ sāhasa-daṇḍaḥ . rātrau madhyamaḥ .. 04.13.03 ..
दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥ ०४.१३.०४ ॥
दिवा रात्रौ वा स शस्त्रस्य प्रविशतः उत्तमः दण्डः ॥ ०४।१३।०४ ॥
divā rātrau vā sa śastrasya praviśataḥ uttamaḥ daṇḍaḥ .. 04.13.04 ..
भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ॥ ०४.१३.०५ ॥
भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलात् आपदि च अति संनिकृष्टाः प्रवृत्त-प्रवेशाः च अ दण्ड्याः । अन्यत्र प्रतिषेधात् ॥ ०४।१३।०५ ॥
bhikṣuka-vaidehakau matta-unmattau balāt āpadi ca ati saṃnikṛṣṭāḥ pravṛtta-praveśāḥ ca a daṇḍyāḥ . anyatra pratiṣedhāt .. 04.13.05 ..
स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ॥ ०४.१३.०६ ॥
स्व-वेश्मनः विरात्रात् ऊर्ध्वम् परिवारम् आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनः मध्यमः । ग्राम-आराम-वाट-भेदिनः च ॥ ०४।१३।०६ ॥
sva-veśmanaḥ virātrāt ūrdhvam parivāram ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ . para-veśmanaḥ madhyamaḥ . grāma-ārāma-vāṭa-bhedinaḥ ca .. 04.13.06 ..
ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ॥ ०४.१३.०७ ॥
ग्रामेषु अन्तर् सार्थिकाः ज्ञात-साराः वसेयुः ॥ ०४।१३।०७ ॥
grāmeṣu antar sārthikāḥ jñāta-sārāḥ vaseyuḥ .. 04.13.07 ..
मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ॥ ०४.१३.०८ ॥
मुषितम् प्रवासितम् च एषाम् अनिर्गतम् रात्रौ ग्राम-स्वामी दद्यात् ॥ ०४।१३।०८ ॥
muṣitam pravāsitam ca eṣām anirgatam rātrau grāma-svāmī dadyāt .. 04.13.08 ..
ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ॥ ०४.१३.०९ ॥
ग्राम-अन्तरेषु वा मुषितम् प्रवासितम् विवीत-अध्यक्षः दद्यात् ॥ ०४।१३।०९ ॥
grāma-antareṣu vā muṣitam pravāsitam vivīta-adhyakṣaḥ dadyāt .. 04.13.09 ..
अविवीतानां चोर-रज्जुकः ॥ ०४.१३.१० ॥
अ विवीतानाम् चोर-रज्जुकः ॥ ०४।१३।१० ॥
a vivītānām cora-rajjukaḥ .. 04.13.10 ..
तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ॥ ०४.१३.११ ॥
तथा अपि अगुप्तानाम् सीम-अवरोधेन विचयम् दद्युः ॥ ०४।१३।११ ॥
tathā api aguptānām sīma-avarodhena vicayam dadyuḥ .. 04.13.11 ..
असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ॥ ०४.१३.१२ ॥
असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ॥ ०४।१३।१२ ॥
asīma-avarodhe pañca-grāmī daśa-grāmī vā .. 04.13.12 ..
दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ॥ ०४.१३.१३ ॥
दुर्बलम् वेश्म शकटम् अन् उत्तब्धम् ऊर्ध-स्तंभम् शस्त्रम् अनपाश्रयम् अ प्रतिच्छन्नम् श्वभ्रम् कूपम् कूट-अवपातम् वा कृत्वा हिंसायाम् दण्ड-पारुष्यम् विद्यात् ॥ ०४।१३।१३ ॥
durbalam veśma śakaṭam an uttabdham ūrdha-staṃbham śastram anapāśrayam a praticchannam śvabhram kūpam kūṭa-avapātam vā kṛtvā hiṃsāyām daṇḍa-pāruṣyam vidyāt .. 04.13.13 ..
वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ॥ ०४.१३.१४ ॥
वृक्षत्-छेदने दंय-रश्मि-हरणे चतुष्पदानाम् अ दान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्म घट्टने "अपेहि" इति प्रकोशन् अ दण्ड्यः ॥ ०४।१३।१४ ॥
vṛkṣat-chedane daṃya-raśmi-haraṇe catuṣpadānām a dānta-sevane vāhane vā kāṣṭha-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca sma ghaṭṭane "apehi" iti prakośan a daṇḍyaḥ .. 04.13.14 ..
हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ॥ ०४.१३.१५ ॥
हस्तिना रोषितेन हतः द्रोण-अन्नम् मद्य-कुंभम् माल्य-अनुलेपनम् दन्त-प्रमार्जनम् च पटम् दद्यात् ॥ ०४।१३।१५ ॥
hastinā roṣitena hataḥ droṇa-annam madya-kuṃbham mālya-anulepanam danta-pramārjanam ca paṭam dadyāt .. 04.13.15 ..
अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ॥ ०४.१३.१६ ॥
अश्व-मेध-अवभृथ-स्नानेन तुल्यः हस्तिना वधः इति पाद-प्रक्षालनम् ॥ ०४।१३।१६ ॥
aśva-medha-avabhṛtha-snānena tulyaḥ hastinā vadhaḥ iti pāda-prakṣālanam .. 04.13.16 ..
उदासीन-वधे यातुरुत्तमो दण्डः ॥ ०४.१३.१७ ॥
उदासीन-वधे यातुः उत्तमः दण्डः ॥ ०४।१३।१७ ॥
udāsīna-vadhe yātuḥ uttamaḥ daṇḍaḥ .. 04.13.17 ..
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ॥ ०४.१३.१८ ॥
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानम् अ मोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ॥ ०४।१३।१८ ॥
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam a mokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ . pratikruṣṭasya dvi-guṇaḥ .. 04.13.18 ..
शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ॥ ०४.१३.१९ ॥
शृङ्गि-दंष्ट्रिभ्याम् अन्योन्यम् घातयतः तत् च तावत् च दण्डः ॥ ०४।१३।१९ ॥
śṛṅgi-daṃṣṭribhyām anyonyam ghātayataḥ tat ca tāvat ca daṇḍaḥ .. 04.13.19 ..
देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ॥ ०४.१३.२० ॥
देव-पशुम् ऋषभम् उक्षाणम् गो-कुमारीम् वा वाहयतः पञ्च-शतः दण्डः । प्रवासयतः उत्तमः ॥ ०४।१३।२० ॥
deva-paśum ṛṣabham ukṣāṇam go-kumārīm vā vāhayataḥ pañca-śataḥ daṇḍaḥ . pravāsayataḥ uttamaḥ .. 04.13.20 ..
लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ॥ ०४.१३.२१ ॥
लोम-दोह-वाहन-प्रजनन-उपकारिणाम् क्षुद्र-पशूनाम् अदाने तत् च तावत् च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ॥ ०४।१३।२१ ॥
loma-doha-vāhana-prajanana-upakāriṇām kṣudra-paśūnām adāne tat ca tāvat ca daṇḍaḥ . pravāsane ca . anyatra deva-pitṛ-kāryebhyaḥ .. 04.13.21 ..
छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ॥ ०४.१३.२२ ॥
छिन्न-नस्यम् भग्न-युगम् तिर्यक्-प्रतिमुख-आगतम् प्रत्यासरत् वा चक्र-युक्तम् याता पशु-मनुष्य-संबाधे वा हिंसायाम् अ दण्ड्यः ॥ ०४।१३।२२ ॥
chinna-nasyam bhagna-yugam tiryak-pratimukha-āgatam pratyāsarat vā cakra-yuktam yātā paśu-manuṣya-saṃbādhe vā hiṃsāyām a daṇḍyaḥ .. 04.13.22 ..
अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ॥ ०४.१३.२३ ॥
अन्यथा यथा उक्तम् मानुष-प्राणि-हिंसायाम् दण्डम् अभ्यावहेत् ॥ ०४।१३।२३ ॥
anyathā yathā uktam mānuṣa-prāṇi-hiṃsāyām daṇḍam abhyāvahet .. 04.13.23 ..
अमानुष-प्राणि-वधे प्राणि-दानं च ॥ ०४.१३.२४ ॥
अमानुष-प्राणि-वधे प्राणि-दानम् च ॥ ०४।१३।२४ ॥
amānuṣa-prāṇi-vadhe prāṇi-dānam ca .. 04.13.24 ..
बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ॥ ०४.१३.२५ ॥
बाले यातरि यान-स्थः स्वामी दण्ड्यः । अस्वामिनि यान-स्थः । प्राप्त-व्यवहारः वा याता ॥ ०४।१३।२५ ॥
bāle yātari yāna-sthaḥ svāmī daṇḍyaḥ . asvāmini yāna-sthaḥ . prāpta-vyavahāraḥ vā yātā .. 04.13.25 ..
बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ॥ ०४.१३.२६ ॥
बाल-अधिष्ठितम् अपुरुषम् वा यानम् राजा हरेत् ॥ ०४।१३।२६ ॥
bāla-adhiṣṭhitam apuruṣam vā yānam rājā haret .. 04.13.26 ..
कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ॥ ०४.१३.२७ ॥
कृत्य-अभिचाराभ्याम् यत् परम् आपादयेत् तद्-आपादयितव्यः ॥ ०४।१३।२७ ॥
kṛtya-abhicārābhyām yat param āpādayet tad-āpādayitavyaḥ .. 04.13.27 ..
कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ॥ ०४.१३.२८ ॥
कामम् भार्यायाम् अन् इच्छन्त्याम् कन्यायाम् वा दार-अर्थिनः भर्तरि भार्यायाः वा संवदन-करणम् ॥ ०४।१३।२८ ॥
kāmam bhāryāyām an icchantyām kanyāyām vā dāra-arthinaḥ bhartari bhāryāyāḥ vā saṃvadana-karaṇam .. 04.13.28 ..
अन्यथा-हिंसायां मध्यमः साहस-दण्डः ॥ ०४.१३.२९ ॥
अन्यथा हिंसायाम् मध्यमः साहस-दण्डः ॥ ०४।१३।२९ ॥
anyathā hiṃsāyām madhyamaḥ sāhasa-daṇḍaḥ .. 04.13.29 ..
माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ॥ ०४.१३.३० ॥
माता-पित्रोः भगिनीम् मातुलानीम् आचार्याणीम् स्नुषाम् दुहितरम् भगिनीम् वा अधिचरतः त्रि-लिङ्ग-छेदनम् वधः च ॥ ०४।१३।३० ॥
mātā-pitroḥ bhaginīm mātulānīm ācāryāṇīm snuṣām duhitaram bhaginīm vā adhicarataḥ tri-liṅga-chedanam vadhaḥ ca .. 04.13.30 ..
सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ॥ ०४.१३.३१ ॥
स कामा तत् एव लभेत । दास-परिचारक-आहितक-भुक्ता च ॥ ०४।१३।३१ ॥
sa kāmā tat eva labheta . dāsa-paricāraka-āhitaka-bhuktā ca .. 04.13.31 ..
ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ॥ ०४.१३.३२ ॥
ब्राह्मण्याम् अगुप्तायाम् क्षत्रियस्य औत्तमः । सर्व-स्वम् वैश्यस्य । शूद्रः कट-अग्निना दह्येत ॥ ०४।१३।३२ ॥
brāhmaṇyām aguptāyām kṣatriyasya auttamaḥ . sarva-svam vaiśyasya . śūdraḥ kaṭa-agninā dahyeta .. 04.13.32 ..
सर्वत्र राज-भार्या-गमने कुंभी-पाकः ॥ ०४.१३.३३ ॥
सर्वत्र राज-भार्या-गमने कुंभी-पाकः ॥ ०४।१३।३३ ॥
sarvatra rāja-bhāryā-gamane kuṃbhī-pākaḥ .. 04.13.33 ..
श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ॥ ०४.१३.३४ ॥
श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयम् गच्छेत् । श्व-पाक-त्वम् वा शूद्रः ॥ ०४।१३।३४ ॥
śva-pākī-gamane kṛta-kabandha-aṅkaḥ para-viṣayam gacchet . śva-pāka-tvam vā śūdraḥ .. 04.13.34 ..
श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ॥ ०४.१३.३५ ॥
श्व-पाकस्य अर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनम् ॥ ०४।१३।३५ ॥
śva-pākasya aryā-gamane vadhaḥ . striyāḥ karṇa-nāsa-ācchedanam .. 04.13.35 ..
प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ॥ ०४.१३.३६ ॥
प्रव्रजिता-गमने चतुर्-विंशति-पणः दण्डः ॥ ०४।१३।३६ ॥
pravrajitā-gamane catur-viṃśati-paṇaḥ daṇḍaḥ .. 04.13.36 ..
सकामा तदेव लभेत ॥ ०४.१३.३७ ॥
स कामा तत् एव लभेत ॥ ०४।१३।३७ ॥
sa kāmā tat eva labheta .. 04.13.37 ..
रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ॥ ०४.१३.३८ ॥
रूप-आजीवायाः प्रसह्य उपभोगे द्वादश-पणः दण्डः ॥ ०४।१३।३८ ॥
rūpa-ājīvāyāḥ prasahya upabhoge dvādaśa-paṇaḥ daṇḍaḥ .. 04.13.38 ..
बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ॥ ०४.१३.३९ ॥
बहूनाम् एकाम् अधिचरताम् पृथक् चतुर्-विंशति-पणः दण्डः ॥ ०४।१३।३९ ॥
bahūnām ekām adhicaratām pṛthak catur-viṃśati-paṇaḥ daṇḍaḥ .. 04.13.39 ..
स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ॥ ०४.१३.४० ॥
स्त्रियम् अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषम् अधिमेहतः च ॥ ०४।१३।४० ॥
striyam ayonau gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ . puruṣam adhimehataḥ ca .. 04.13.40 ..
मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ॥ ०४.१३.४१अ ब ॥
मैथुने द्वादश-पणः तिर्यक्-योनिषु अनात्मनः । ॥ ०४।१३।४१अ ब ॥
maithune dvādaśa-paṇaḥ tiryak-yoniṣu anātmanaḥ . .. 04.13.41a ba ..
दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ॥ ०४.१३.४१च्द् ॥
दैवत-प्रतिमानाम् च गमने द्वि-गुणः स्मृतः ॥ ०४।१३।४१च् ॥
daivata-pratimānām ca gamane dvi-guṇaḥ smṛtaḥ .. 04.13.41c ..
अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ॥ ०४.१३.४२अ ब ॥
अ दण्ड्य-दण्डने राज्ञः दण्डः त्रिंशत्-गुणः अम्भसि । ॥ ०४।१३।४२अ ब ॥
a daṇḍya-daṇḍane rājñaḥ daṇḍaḥ triṃśat-guṇaḥ ambhasi . .. 04.13.42a ba ..
वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ॥ ०४.१३.४२च्द् ॥
वरुणाय प्रदातव्यः ब्राह्मणेभ्यः ततस् परम् ॥ ०४।१३।४२च् ॥
varuṇāya pradātavyaḥ brāhmaṇebhyaḥ tatas param .. 04.13.42c ..
तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ॥ ०४.१३.४३अ ब ॥
तेन तत् पूयते पापम् राज्ञः दण्ड-अपचार-जम् । ॥ ०४।१३।४३अ ब ॥
tena tat pūyate pāpam rājñaḥ daṇḍa-apacāra-jam . .. 04.13.43a ba ..
शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ ०४.१३.४३च्द् ॥
शास्ता हि वरुणः राज्ञाम् मिथ्या व्याचरताम् नृषु ॥ ०४।१३।४३च् ॥
śāstā hi varuṇaḥ rājñām mithyā vyācaratām nṛṣu .. 04.13.43c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In