| |
|

This overlay will guide you through the buttons:

दैवान्यष्टौ महा-भयानि अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसिइति ॥ ०४.३.०१ ॥
दैवानि अष्टौ महा-भयानि अग्निः उदकम् व्याधिः दुर्भिक्षम् मूषिकाः व्यालाः सर्पाः रक्षांसि इति ॥ ०४।३।०१ ॥
daivāni aṣṭau mahā-bhayāni agniḥ udakam vyādhiḥ durbhikṣam mūṣikāḥ vyālāḥ sarpāḥ rakṣāṃsi iti .. 04.3.01 ..
तेभ्यो जन-पदं रक्षेत् ॥ ०४.३.०२ ॥
तेभ्यः जन-पदम् रक्षेत् ॥ ०४।३।०२ ॥
tebhyaḥ jana-padam rakṣet .. 04.3.02 ..
ग्रीष्मे बहिर्-अधिश्रयणं ग्रामाः कुर्युः । दश-मूली-संग्रहेणाधिष्ठिता वा ॥ ०४.३.०३ ॥
ग्रीष्मे बहिस् अधिश्रयणम् ग्रामाः कुर्युः । दश-मूली-संग्रहेण अधिष्ठिता वा ॥ ०४।३।०३ ॥
grīṣme bahis adhiśrayaṇam grāmāḥ kuryuḥ . daśa-mūlī-saṃgraheṇa adhiṣṭhitā vā .. 04.3.03 ..
नागरिक-प्रणिधावग्नि-प्रतिषेधो व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ॥ ०४.३.०४ ॥
नागरिक-प्रणिधौ अग्नि-प्रतिषेधः व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ॥ ०४।३।०४ ॥
nāgarika-praṇidhau agni-pratiṣedhaḥ vyākhyātaḥ . niśānta-praṇidhau rāja-parigrahe ca .. 04.3.04 ..
बलि-होम-स्वस्ति-वाचनैः पर्वसु चाग्नि-पूजाः कारयेत् ॥ ०४.३.०५ ॥
बलि-होम-स्वस्ति-वाचनैः पर्वसु च अग्नि-पूजाः कारयेत् ॥ ०४।३।०५ ॥
bali-homa-svasti-vācanaiḥ parvasu ca agni-pūjāḥ kārayet .. 04.3.05 ..
वर्षा-रात्रं आनूप-ग्रामाः पूर-वेलां उत्सृज्य वसेयुः ॥ ०४.३.०६ ॥
वर्षा-रात्रम् आनूप-ग्रामाः पूर-वेलाम् उत्सृज्य वसेयुः ॥ ०४।३।०६ ॥
varṣā-rātram ānūpa-grāmāḥ pūra-velām utsṛjya vaseyuḥ .. 04.3.06 ..
काष्ठ-वेणु-नावश्चौपगृह्णीयुः ॥ ०४.३.०७ ॥
काष्ठ-वेणु-नावः च उपगृह्णीयुः ॥ ०४।३।०७ ॥
kāṣṭha-veṇu-nāvaḥ ca upagṛhṇīyuḥ .. 04.3.07 ..
उह्यमानं अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिस्तारयेयुः ॥ ०४.३.०८ ॥
उह्यमानम् अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिः तारयेयुः ॥ ०४।३।०८ ॥
uhyamānam alābu-dṛti-plava-gaṇḍikā-veṇikābhiḥ tārayeyuḥ .. 04.3.08 ..
अनभिसरतां द्वादश-पणो दण्डः । अन्यत्र प्लव-हीनेभ्यः ॥ ०४.३.०९ ॥
अन् अभिसरताम् द्वादश-पणः दण्डः । अन्यत्र प्लव-हीनेभ्यः ॥ ०४।३।०९ ॥
an abhisaratām dvādaśa-paṇaḥ daṇḍaḥ . anyatra plava-hīnebhyaḥ .. 04.3.09 ..
पर्वसु च नदी-पूजाः कारयेत् ॥ ०४.३.१० ॥
पर्वसु च नदी-पूजाः कारयेत् ॥ ०४।३।१० ॥
parvasu ca nadī-pūjāḥ kārayet .. 04.3.10 ..
माया-योगविदो वेदविदो वा वर्षं अभिचरेयुः ॥ ०४.३.११ ॥
माया-योग-विदः वेद-विदः वा वर्षम् अभिचरेयुः ॥ ०४।३।११ ॥
māyā-yoga-vidaḥ veda-vidaḥ vā varṣam abhicareyuḥ .. 04.3.11 ..
वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ॥ ०४.३.१२ ॥
वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ॥ ०४।३।१२ ॥
varṣa-avagrahe śacī-nātha-gaṅgā-parvata-mahā-kaccha-pūjāḥ kārayet .. 04.3.12 ..
व्याधि-भयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैश्चिकित्सकाः शान्ति-प्रायश्चित्तैर्वा सिद्ध-तापसाः ॥ ०४.३.१३ ॥
व्याधि-भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैः चिकित्सकाः शान्ति-प्रायश्चित्तैः वा सिद्ध-तापसाः ॥ ०४।३।१३ ॥
vyādhi-bhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ . auṣadhaiḥ cikitsakāḥ śānti-prāyaścittaiḥ vā siddha-tāpasāḥ .. 04.3.13 ..
तेन मरको व्याख्यातः ॥ ०४.३.१४ ॥
तेन मरकः व्याख्यातः ॥ ०४।३।१४ ॥
tena marakaḥ vyākhyātaḥ .. 04.3.14 ..
तीर्थ-अभिषेचनं महा-कच्छ-वर्धनं गवां श्मशान-अवदोहनं कबन्ध-दहनं देव-रात्रिं च कारयेत् ॥ ०४.३.१५ ॥
तीर्थ-अभिषेचनम् महा-कच्छ-वर्धनम् गवाम् श्मशान-अवदोहनम् कबन्ध-दहनम् देव-रात्रिम् च कारयेत् ॥ ०४।३।१५ ॥
tīrtha-abhiṣecanam mahā-kaccha-vardhanam gavām śmaśāna-avadohanam kabandha-dahanam deva-rātrim ca kārayet .. 04.3.15 ..
पशु-व्याधि-मरके स्थान-अर्थ-नीराजनं स्व-दैवत-पूजनं च कारयेत् ॥ ०४.३.१६ ॥
पशु-व्याधि-मरके स्थान-अर्थ-नीराजनम् स्व-दैवत-पूजनम् च कारयेत् ॥ ०४।३।१६ ॥
paśu-vyādhi-marake sthāna-artha-nīrājanam sva-daivata-pūjanam ca kārayet .. 04.3.16 ..
दुर्भिक्षे राजा बीज-भक्त-उपग्रहं कृत्वाअनुग्रहं कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागं वा । देश-निक्षेपं वा ॥ ०४.३.१७ ॥
दुर्भिक्षे राजा बीज-भक्त-उपग्रहम् कृत्वा अनुग्रहम् कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागम् वा । देश-निक्षेपम् वा ॥ ०४।३।१७ ॥
durbhikṣe rājā bīja-bhakta-upagraham kṛtvā anugraham kuryāt . durga-setu-karma vā bhakta-anugraheṇa . bhakta-saṃvibhāgam vā . deśa-nikṣepam vā .. 04.3.17 ..
मित्राणि वा व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात् ॥ ०४.३.१८ ॥
मित्राणि वा व्यपाश्रयेत । कर्शनम् वमनम् वा कुर्यात् ॥ ०४।३।१८ ॥
mitrāṇi vā vyapāśrayeta . karśanam vamanam vā kuryāt .. 04.3.18 ..
निष्पन्न-सस्यं अन्य-विषयं वा सजन-पदो यायात् । समुद्र-सरस्-तटाकानि वा संश्रयेत ॥ ०४.३.१९ ॥
निष्पन्न-सस्यम् अन्य-विषयम् वा स जन-पदः यायात् । समुद्र-सरः-तटाकानि वा संश्रयेत ॥ ०४।३।१९ ॥
niṣpanna-sasyam anya-viṣayam vā sa jana-padaḥ yāyāt . samudra-saraḥ-taṭākāni vā saṃśrayeta .. 04.3.19 ..
धान्य-शाक-मूल-फल-आवापान्वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान्वा ॥ ०४.३.२० ॥
धान्य-शाक-मूल-फल-आवापान् वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान् वा ॥ ०४।३।२० ॥
dhānya-śāka-mūla-phala-āvāpān vā setuṣu kurvīta . mṛga-paśu-pakṣi-vyāla-matsya-ārambhān vā .. 04.3.20 ..
मूषिक-भये मार्जार-नकुल-उत्सर्गः ॥ ०४.३.२१ ॥
मूषिक-भये मार्जार-नकुल-उत्सर्गः ॥ ०४।३।२१ ॥
mūṣika-bhaye mārjāra-nakula-utsargaḥ .. 04.3.21 ..
तेषां ग्रहण-हिंसायां द्वादश-पणो दण्डः । शुनां अनिग्रहे चान्यत्रारण्य-चरेभ्यः ॥ ०४.३.२२ ॥
तेषाम् ग्रहण-हिंसायाम् द्वादश-पणः दण्डः । शुनाम् अनिग्रहे च अन्यत्र अरण्य-चरेभ्यः ॥ ०४।३।२२ ॥
teṣām grahaṇa-hiṃsāyām dvādaśa-paṇaḥ daṇḍaḥ . śunām anigrahe ca anyatra araṇya-carebhyaḥ .. 04.3.22 ..
स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेद् । उपनिषद्-योग-युक्तानि वा ॥ ०४.३.२३ ॥
स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेत् । उपनिषद्-योग-युक्तानि वा ॥ ०४।३।२३ ॥
snuhi-kṣīra-liptāni dhānyāni visṛjet . upaniṣad-yoga-yuktāni vā .. 04.3.23 ..
मूषिक-करं वा प्रयुञ्जीत ॥ ०४.३.२४ ॥
मूषिक-करम् वा प्रयुञ्जीत ॥ ०४।३।२४ ॥
mūṣika-karam vā prayuñjīta .. 04.3.24 ..
शान्तिं वा सिद्ध-तापसाः कुर्युः ॥ ०४.३.२५ ॥
शान्तिम् वा सिद्ध-तापसाः कुर्युः ॥ ०४।३।२५ ॥
śāntim vā siddha-tāpasāḥ kuryuḥ .. 04.3.25 ..
पर्वसु च मूषिक-पूजाः कारयेत् ॥ ०४.३.२६ ॥
पर्वसु च मूषिक-पूजाः कारयेत् ॥ ०४।३।२६ ॥
parvasu ca mūṣika-pūjāḥ kārayet .. 04.3.26 ..
तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकारा व्याख्याताः ॥ ०४.३.२७ ॥
तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकाराः व्याख्याताः ॥ ०४।३।२७ ॥
tena śalabha-pakṣi-krimi-bhaya-pratīkārāḥ vyākhyātāḥ .. 04.3.27 ..
व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णान्यौदर्याणि वा ॥ ०४.३.२८ ॥
व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णानि औदर्याणि वा ॥ ०४।३।२८ ॥
vyāla-bhaye madana-rasa-yuktāni paśu-śavāni prasṛjet . madana-kodrava-pūrṇāni audaryāṇi vā .. 04.3.28 ..
लुब्धकाः श्व-गणिनो वा कूट-पञ्जर-अवपातैश्चरेयुः ॥ ०४.३.२९ ॥
लुब्धकाः श्व-गणिनः वा कूट-पञ्जर-अवपातैः चरेयुः ॥ ०४।३।२९ ॥
lubdhakāḥ śva-gaṇinaḥ vā kūṭa-pañjara-avapātaiḥ careyuḥ .. 04.3.29 ..
आवरणिनः शस्त्र-पाणयो व्यालानभिहन्युः ॥ ०४.३.३० ॥
आवरणिनः शस्त्र-पाणयः व्यालान् अभिहन्युः ॥ ०४।३।३० ॥
āvaraṇinaḥ śastra-pāṇayaḥ vyālān abhihanyuḥ .. 04.3.30 ..
अनभिसर्तुर्द्वादश-पणो दण्डः ॥ ०४.३.३१ ॥
अन् अभिसर्तुः द्वादश-पणः दण्डः ॥ ०४।३।३१ ॥
an abhisartuḥ dvādaśa-paṇaḥ daṇḍaḥ .. 04.3.31 ..
स एव लाभो व्याल-घातिनः ॥ ०४.३.३२ ॥
सः एव लाभः व्याल-घातिनः ॥ ०४।३।३२ ॥
saḥ eva lābhaḥ vyāla-ghātinaḥ .. 04.3.32 ..
पर्वसु च पर्वत-पूजाः कारयेत् ॥ ०४.३.३३ ॥
पर्वसु च पर्वत-पूजाः कारयेत् ॥ ०४।३।३३ ॥
parvasu ca parvata-pūjāḥ kārayet .. 04.3.33 ..
तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकारा व्याख्याताः ॥ ०४.३.३४ ॥
तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकाराः व्याख्याताः ॥ ०४।३।३४ ॥
tena mṛga-paśu-pakṣi-saṃgha-grāha-pratīkārāḥ vyākhyātāḥ .. 04.3.34 ..
सर्प-भये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ॥ ०४.३.३५ ॥
सर्प-भये मन्त्रैः ओषधिभिः च जाङ्गुली-विदः चरेयुः ॥ ०४।३।३५ ॥
sarpa-bhaye mantraiḥ oṣadhibhiḥ ca jāṅgulī-vidaḥ careyuḥ .. 04.3.35 ..
सम्भूय वाअपि सर्पान्हन्युः ॥ ०४.३.३६ ॥
सम्भूय वा अपि सर्पान् हन्युः ॥ ०४।३।३६ ॥
sambhūya vā api sarpān hanyuḥ .. 04.3.36 ..
अथर्व-वेदविदो वाअभिचरेयुः ॥ ०४.३.३७ ॥
अथर्व-वेद-विदः वा अभिचरेयुः ॥ ०४।३।३७ ॥
atharva-veda-vidaḥ vā abhicareyuḥ .. 04.3.37 ..
पर्वसु च नाग-पूजाः कारयेत् ॥ ०४.३.३८ ॥
पर्वसु च नाग-पूजाः कारयेत् ॥ ०४।३।३८ ॥
parvasu ca nāga-pūjāḥ kārayet .. 04.3.38 ..
तेनौदक-प्राणि-भय-प्रतीकारा व्याख्याताः ॥ ०४.३.३९ ॥
तेन औदक-प्राणि-भय-प्रतीकाराः व्याख्याताः ॥ ०४।३।३९ ॥
tena audaka-prāṇi-bhaya-pratīkārāḥ vyākhyātāḥ .. 04.3.39 ..
रक्षो-भये रक्षो-घ्नान्यथर्व-वेदविदो माया-योगविदो वा कर्माणि कुर्युः ॥ ०४.३.४० ॥
रक्षः-भये रक्षः-घ्नानि अथर्व-वेद-विदः माया-योग-विदः वा कर्माणि कुर्युः ॥ ०४।३।४० ॥
rakṣaḥ-bhaye rakṣaḥ-ghnāni atharva-veda-vidaḥ māyā-yoga-vidaḥ vā karmāṇi kuryuḥ .. 04.3.40 ..
पर्वसु च वितर्दिच्-छत्र-उल्लोपिका-हस्त-पताकाच्-छाग-उपहारैश्चैत्य-पूजाः कारयेत् ॥ ०४.३.४१ ॥
पर्वसु च वितर्दित्-छत्र-उल्लोपिका-हस्त-पताका-छाग-उपहारैः चैत्य-पूजाः कारयेत् ॥ ०४।३।४१ ॥
parvasu ca vitardit-chatra-ullopikā-hasta-patākā-chāga-upahāraiḥ caitya-pūjāḥ kārayet .. 04.3.41 ..
चरुं वश्चरामः इत्येवं सर्व-भयेष्वहो-रात्रं चरेयुः ॥ ०४.३.४२ ॥
चरुम् वः चरामः इति एवम् सर्व-भयेषु अहर्-रात्रम् चरेयुः ॥ ०४।३।४२ ॥
carum vaḥ carāmaḥ iti evam sarva-bhayeṣu ahar-rātram careyuḥ .. 04.3.42 ..
सर्वत्र चौपहतान्पिताइवानुगृह्णीयात् ॥ ०४.३.४३ ॥
सर्वत्र च औपहतान् पिता इव अनुगृह्णीयात् ॥ ०४।३।४३ ॥
sarvatra ca aupahatān pitā iva anugṛhṇīyāt .. 04.3.43 ..
माया-योगविदस्तस्माद्विषये सिद्ध-तापसाः । ॥ ०४.३.४४अ ब ॥
माया-योग-विदः तस्मात् विषये सिद्ध-तापसाः । ॥ ०४।३।४४अ ब ॥
māyā-yoga-vidaḥ tasmāt viṣaye siddha-tāpasāḥ . .. 04.3.44a ba ..
वसेयुः पूजिता राज्ञा दैव-आपत्-प्रतिकारिणः ॥ ०४.३.४४च्द् ॥
वसेयुः पूजिताः राज्ञा दैव-आपद्-प्रतिकारिणः ॥ ०४।३।४४च् ॥
vaseyuḥ pūjitāḥ rājñā daiva-āpad-pratikāriṇaḥ .. 04.3.44c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In