| |
|

This overlay will guide you through the buttons:

सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ॥ ०४.५.०१ ॥
सत्त्रि-प्रयोगात् ऊर्ध्वम् सिद्ध-व्यञ्जनाः माणवान् माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर् धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ॥ ०४।५।०१ ॥
sattri-prayogāt ūrdhvam siddha-vyañjanāḥ māṇavān māṇava-vidyābhiḥ pralobhayeyuḥ . prasvāpana-antar dhāna-dvāra-apoha-mantreṇa pratirodhakān . saṃvadana-mantreṇa pāratalpikān .. 04.5.01 ..
तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ॥ ०४.५.०२ ॥
तेषाम् कृत-उत्साहानाम् महान्तम् संघम् आदाय रात्रौ अन्यम् ग्रामम् उद्दिश्य अन्यम् ग्रामम् कृतक-स्त्री-पुरुषम् गत्वा ब्रूयुः "इह एव विद्या-प्रभावः दृश्यताम् । कृच्छ्रः पर-ग्रामः गन्तुम्" इति ॥ ०४।५।०२ ॥
teṣām kṛta-utsāhānām mahāntam saṃgham ādāya rātrau anyam grāmam uddiśya anyam grāmam kṛtaka-strī-puruṣam gatvā brūyuḥ "iha eva vidyā-prabhāvaḥ dṛśyatām . kṛcchraḥ para-grāmaḥ gantum" iti .. 04.5.02 ..
ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥ ०४.५.०३ ॥
ततस् द्वार-अपोह-मन्त्रेण द्वाराणि अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥ ०४।५।०३ ॥
tatas dvāra-apoha-mantreṇa dvārāṇi apohya "praviśyatām" iti brūyuḥ .. 04.5.03 ..
अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ॥ ०४.५.०४ ॥
अन्तर् धान-मन्त्रेण जाग्रताम् आरक्षिणाम् मध्येन माणवान् अतिक्रामयेयुः ॥ ०४।५।०४ ॥
antar dhāna-mantreṇa jāgratām ārakṣiṇām madhyena māṇavān atikrāmayeyuḥ .. 04.5.04 ..
प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ॥ ०४.५.०५ ॥
प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिः माणवैः संचारयेयुः ॥ ०४।५।०५ ॥
prasvāpana-mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhiḥ māṇavaiḥ saṃcārayeyuḥ .. 04.5.05 ..
संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥ ०४.५.०६ ॥
संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषाम् माणवैः सम्मोदयेयुः ॥ ०४।५।०६ ॥
saṃvadana-mantreṇa bhāryā-vyañjanāḥ pareṣām māṇavaiḥ sammodayeyuḥ .. 04.5.06 ..
उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ॥ ०४.५.०७ ॥
उपलब्ध-विद्या-प्रभावाणाम् पुरश्चरणाः आदि आदिशेयुः अभिज्ञान-अर्थम् ॥ ०४।५।०७ ॥
upalabdha-vidyā-prabhāvāṇām puraścaraṇāḥ ādi ādiśeyuḥ abhijñāna-artham .. 04.5.07 ..
कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥ ०४.५.०८ ॥
कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥ ०४।५।०८ ॥
kṛta-lakṣaṇa-dravyeṣu vā veśmasu karma kārayeyuḥ .. 04.5.08 ..
अनुप्रविष्टा वाएकत्र ग्राहयेयुः ॥ ०४.५.०९ ॥
अनुप्रविष्टाः वा एकत्र ग्राहयेयुः ॥ ०४।५।०९ ॥
anupraviṣṭāḥ vā ekatra grāhayeyuḥ .. 04.5.09 ..
कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ॥ ०४.५.१० ॥
कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान् वा ग्राहयेयुः ॥ ०४।५।१० ॥
kṛta-lakṣaṇa-dravya-kraya-vikraya-ādhāneṣu yoga-surā-mattān vā grāhayeyuḥ .. 04.5.10 ..
गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ॥ ०४.५.११ ॥
गृहीतान् पूर्व-अपदान-सहायान् अनुयुञ्जीत ॥ ०४।५।११ ॥
gṛhītān pūrva-apadāna-sahāyān anuyuñjīta .. 04.5.11 ..
पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ॥ ०४.५.१२ ॥
पुराण-चोर-व्यञ्जनाः वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुः ग्राहयेयुः च ॥ ०४।५।१२ ॥
purāṇa-cora-vyañjanāḥ vā corān anupraviṣṭāḥ tathā eva karma kārayeyuḥ grāhayeyuḥ ca .. 04.5.12 ..
गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ॥ ०४.५.१३ ॥
गृहीतान् समाहर्ता पौर-जानपदानाम् दर्शयेत् "चोर-ग्रहणीम् विद्याम् अधीते राजा । तस्य औपदेशात् इमे चोराः गृहीताः । भूयः च ग्रहीष्यामि । वारयितव्यः वः स्व-जनः पाप-आचारह्" इति ॥ ०४।५।१३ ॥
gṛhītān samāhartā paura-jānapadānām darśayet "cora-grahaṇīm vidyām adhīte rājā . tasya aupadeśāt ime corāḥ gṛhītāḥ . bhūyaḥ ca grahīṣyāmi . vārayitavyaḥ vaḥ sva-janaḥ pāpa-ācārah" iti .. 04.5.13 ..
यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ॥ ०४.५.१४ ॥
यम् च अत्र अपसर्प-उपदेशेन शम्या-प्रतोद-आदीनाम् अपहर्तारम् जानीयात् तम् एषाम् प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ॥ ०४।५।१४ ॥
yam ca atra apasarpa-upadeśena śamyā-pratoda-ādīnām apahartāram jānīyāt tam eṣām pratyādiśet"eṣa rājñaḥ prabhāvaḥ" iti .. 04.5.14 ..
पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ॥ ०४.५.१५ ॥
पुराण-चोर-गो-पालक-व्याध-श्व-गणिनः च वन-चोर-आटविकान् अनुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेषु एनान् अभियोजयेयुः ॥ ०४।५।१५ ॥
purāṇa-cora-go-pālaka-vyādha-śva-gaṇinaḥ ca vana-cora-āṭavikān anupraviṣṭāḥ prabhūta-kūṭa-hiraṇya-kupya-bhāṇḍeṣu sārtha-vraja-grāmeṣu enān abhiyojayeyuḥ .. 04.5.15 ..
अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ॥ ०४.५.१६ ॥
अभियोगे गूढ-बलैः घातयेयुः । मदन-रस-युक्तेन वा पथि अदनेन ॥ ०४।५।१६ ॥
abhiyoge gūḍha-balaiḥ ghātayeyuḥ . madana-rasa-yuktena vā pathi adanena .. 04.5.16 ..
गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ॥ ०४.५.१७ ॥
गृहीत-लोप्त्र-भारान् आयत-गत-परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान् वा ग्राहयेयुः ॥ ०४।५।१७ ॥
gṛhīta-loptra-bhārān āyata-gata-pariśrāntān prasvapataḥ prahavaṇeṣu yoga-surā-mattān vā grāhayeyuḥ .. 04.5.17 ..
पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ॥ ०४.५.१८अ ब ॥
पूर्ववत् च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् । ॥ ०४।५।१८अ ब ॥
pūrvavat ca gṛhītvā enān samāhartā prarūpayet . .. 04.5.18a ba ..
सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ॥ ०४.५.१८च्द् ॥
सर्वज्ञ-ख्यापनम् राज्ञः कारयन् राष्ट्र-वासिषु ॥ ०४।५।१८च् ॥
sarvajña-khyāpanam rājñaḥ kārayan rāṣṭra-vāsiṣu .. 04.5.18c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In