| |
|

This overlay will guide you through the buttons:

सिद्ध-प्रयोगादूर्ध्वं शङ्का-रूप-कर्म-अभिग्रहः ॥ ०४.६.०१ ॥
सिद्ध-प्रयोगात् ऊर्ध्वम् शङ्का-रूप-कर्म-अभिग्रहः ॥ ०४।६।०१ ॥
siddha-prayogāt ūrdhvam śaṅkā-rūpa-karma-abhigrahaḥ .. 04.6.01 ..
क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशं । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशं । प्रच्छन्न-वृत्ति-कर्माणं । ॥ ०४.६.०२अ ॥
क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशम् । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशम् । प्रच्छन्न-वृत्ति-कर्माणम् । ॥ ०४।६।०२अ ॥
kṣīṇa-dāya-kuṭumbam . alpa-nirveśam . viparīta-deśa-jāti-gotra-nāma-karma-apadeśam . pracchanna-vṛtti-karmāṇam . .. 04.6.02a ..
मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारं । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ॥ ०४.६.०२ब ॥
मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारम् । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ॥ ०४।६।०२ब ॥
māṃsa-surā-bhakṣya-bhojana-gandha-mālya-vastra-vibhūṣaṇeṣu prasaktam . ativyaya-kartāram . puṃścalī-dyūta-śauṇḍikeṣu prasaktam . .. 04.6.02ba ..
अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणं । प्रच्छन्ने स-आमिषे वा देशे बहु-मन्त्र-संनिपातं । ॥ ०४.६.०२क ॥
अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणम् । प्रच्छन्ने स आमिषे वा देशे बहु-मन्त्र-संनिपातम् । ॥ ०४।६।०२क ॥
abhīkṣṇa-pravāsinam . avijñāta-sthāna-gamanam . ekānta-araṇya-niṣkuṭa-vikāla-cāriṇam . pracchanne sa āmiṣe vā deśe bahu-mantra-saṃnipātam . .. 04.6.02ka ..
सद्यः-क्षत-व्रणानां गूढ-प्रतीकार-कारयितारम् । अन्तर्-गृह-नित्यम् । अभ्यधिगन्तारं । कान्ता-परं । ॥ ०४.६.०२ड ॥
सद्यस् क्षत-व्रणानाम् गूढ-प्रतीकार-कारयितारम् । अन्तर् गृह-नित्यम् । अभ्यधिगन्तारम् । कान्ता-परम् । ॥ ०४।६।०२ड ॥
sadyas kṣata-vraṇānām gūḍha-pratīkāra-kārayitāram . antar gṛha-nityam . abhyadhigantāram . kāntā-param . .. 04.6.02ḍa ..
पर-परिग्रहाणां पर-स्त्री-द्रव्य-वेश्मनां अभीक्ष्ण-प्रष्टारं । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गं । ॥ ०४.६.०२ए ॥
पर-परिग्रहाणाम् पर-स्त्री-द्रव्य-वेश्मनाम् अभीक्ष्ण-प्रष्टारम् । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गम् । ॥ ०४।६।०२ए ॥
para-parigrahāṇām para-strī-dravya-veśmanām abhīkṣṇa-praṣṭāram . kutsita-karma-śāstra-upakaraṇa-saṃsargam . .. 04.6.02e ..
विरात्रे छन्न-कुड्यच्-छाया-संचारिणं । विरूप-द्रव्याणां अदेश-काल-विक्रेतारं । जात-वैरशयं । हीन-कर्म-जातिं । ॥ ०४.६.०२फ़् ॥
विरात्रे छन्न-कुड्य-छाया-संचारिणम् । विरूप-द्रव्याणाम् अदेश-काल-विक्रेतारम् । जात-वैरशयम् । हीन-कर्म-जातिम् । ॥ ०४।६।०२ ॥
virātre channa-kuḍya-chāyā-saṃcāriṇam . virūpa-dravyāṇām adeśa-kāla-vikretāram . jāta-vairaśayam . hīna-karma-jātim . .. 04.6.02 ..
विगूहमान-रूपं । लिङ्गेनऽलिङ्गिनं । लिङ्गिनं वा भिन्न-आचारं । पूर्व-कृत-अपदानं । स्व-कर्मभिरपदिष्टं । ॥ ०४.६.०२ग् ॥
विगूहमान-रूपम् । लिङ्गेन अलिङ्गिनम् । लिङ्गिनम् वा भिन्न-आचारम् । पूर्व-कृत-अपदानम् । स्व-कर्मभिः अपदिष्टम् । ॥ ०४।६।०२ग् ॥
vigūhamāna-rūpam . liṅgena aliṅginam . liṅginam vā bhinna-ācāram . pūrva-kṛta-apadānam . sva-karmabhiḥ apadiṣṭam . .. 04.6.02g ..
नागरिक-महा-मात्र-दर्शने गुहमानं अपसरन्तं अनुच्छ्वास-उपवेशिनं आविग्नं शुष्क-भिन्न-स्वर-मुख-वर्णं । ॥ ०४.६.०२ह् ॥
नागरिक-महा-मात्र-दर्शने गुहमानम् अपसरन्तम् अन् उच्छ्वास-उपवेशिनम् आविग्नम् शुष्क-भिन्न-स्वर-मुख-वर्णम् । ॥ ०४।६।०२ह् ॥
nāgarika-mahā-mātra-darśane guhamānam apasarantam an ucchvāsa-upaveśinam āvignam śuṣka-bhinna-svara-mukha-varṇam . .. 04.6.02h ..
शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनं । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनां अन्यतमं शङ्केत इति शङ्का-अभिग्रहः ॥ ०४.६.०२इ ॥
शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनम् । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनाम् अन्यतमम् शङ्केत इति शङ्का-अभिग्रहः ॥ ०४।६।०२इ ॥
śastra-hasta-manuṣya-sampāta-trāsinam . hiṃsra-stena-nidhi-nikṣepa-apahāra-para-prayoga-gūḍha-ājīvinām anyatamam śaṅketa iti śaṅkā-abhigrahaḥ .. 04.6.02i ..
रूप-अभिग्रहस्तु नष्ट-अपहृतं अविद्यमानं तज्-जात-व्यवहारिषु निवेदयेत् ॥ ०४.६.०३ ॥
रूप-अभिग्रहः तु नष्ट-अपहृतम् अ विद्यमानम् तद्-जात-व्यवहारिषु निवेदयेत् ॥ ०४।६।०३ ॥
rūpa-abhigrahaḥ tu naṣṭa-apahṛtam a vidyamānam tad-jāta-vyavahāriṣu nivedayet .. 04.6.03 ..
तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषं आप्नुयुः ॥ ०४.६.०४ ॥
तत् चेद् निवेदितम् आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषम् आप्नुयुः ॥ ०४।६।०४ ॥
tat ced niveditam āsādya pracchādayeyuḥ sācivya-kara-doṣam āpnuyuḥ .. 04.6.04 ..
अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ॥ ०४.६.०५ ॥
द्रव्यस्य अतिसर्गेण मुच्येरन् ॥ ०४।६।०५ ॥
dravyasya atisargeṇa mucyeran .. 04.6.05 ..
न चानिवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानां आधानं विक्रयं वा कुर्युः ॥ ०४.६.०६ ॥
न च अ निवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानाम् आधानम् विक्रयम् वा कुर्युः ॥ ०४।६।०६ ॥
na ca a nivedya saṃsthā-adhyakṣasya purāṇa-bhāṇḍānām ādhānam vikrayam vā kuryuḥ .. 04.6.06 ..
तच्चेन्निवेदितं आसाद्येत । रूप-अभिगृहीतं आगमं पृच्छेत्"कुतस्ते लब्धम्" इति ॥ ०४.६.०७ ॥
तत् चेद् निवेदितम् आसाद्येत । रूप-अभिगृहीतम् आगमम् पृच्छेत्"कुतस् ते लब्धम्" इति ॥ ०४।६।०७ ॥
tat ced niveditam āsādyeta . rūpa-abhigṛhītam āgamam pṛcchet"kutas te labdham" iti .. 04.6.07 ..
स चेत्ब्रूयात्"दायाद्यादवाप्तम् । अमुष्माल्लब्धं क्रीतं कारितं आधि-प्रच्छन्नम् । अयं अस्य देशः कालश्चौपसम्प्राप्तेः । अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति । तस्यऽगम-समाधौ मुच्येत ॥ ०४.६.०८ ॥
स चेद् ब्रूयात्"दायाद्यात् अवाप्तम् । अमुष्मात् लब्धम् क्रीतम् कारितम् आधि-प्रच्छन्नम् । अयम् अस्य देशः कालः च औपसम्प्राप्तेः । अयम् अस्य अर्घः प्रमाणम् लक्षणम् मूल्यम् च" इति । तस्य अगम-समाधौ मुच्येत ॥ ०४।६।०८ ॥
sa ced brūyāt"dāyādyāt avāptam . amuṣmāt labdham krītam kāritam ādhi-pracchannam . ayam asya deśaḥ kālaḥ ca aupasamprāpteḥ . ayam asya arghaḥ pramāṇam lakṣaṇam mūlyam ca" iti . tasya agama-samādhau mucyeta .. 04.6.08 ..
नाष्टिकश्चेत्तदेव प्रतिसंदध्यात् । यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यं इति विद्यात् ॥ ०४.६.०९ ॥
नाष्टिकः चेद् तत् एव प्रतिसंदध्यात् । यस्याः पूर्वः दीर्घः च परिभोगः शुचिः वा देशः तस्य द्रव्यम् इति विद्यात् ॥ ०४।६।०९ ॥
nāṣṭikaḥ ced tat eva pratisaṃdadhyāt . yasyāḥ pūrvaḥ dīrghaḥ ca paribhogaḥ śuciḥ vā deśaḥ tasya dravyam iti vidyāt .. 04.6.09 ..
चतुष्पद-द्विपदानां अपि हि रूप-लिङ्ग-सामान्यं भवति । किं अङ्ग पुनरेक-योनि-द्रव्य-कर्तृ-प्रसूतानां कुप्य-आभरण-भाण्डानां इति ॥ ०४.६.१० ॥
चतुष्पद-द्विपदानाम् अपि हि रूप-लिङ्ग-सामान्यम् भवति । किम् अङ्ग पुनर् एक-योनि-द्रव्य-कर्तृ-प्रसूतानाम् कुप्य-आभरण-भाण्डानाम् इति ॥ ०४।६।१० ॥
catuṣpada-dvipadānām api hi rūpa-liṅga-sāmānyam bhavati . kim aṅga punar eka-yoni-dravya-kartṛ-prasūtānām kupya-ābharaṇa-bhāṇḍānām iti .. 04.6.10 ..
स चेद्ब्रूयात्"याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्य-कर्म वाअमुष्य" इति । तस्यापसार-प्रतिसंधानेन मुच्येत ॥ ०४.६.११ ॥
स चेद् ब्रूयात्"याचितकम् अवक्रीतकम् आहितकम् निक्षेपम् उपनिधिम् वैयावृत्य-कर्म वा अमुष्य" इति । तस्य अपसार-प्रतिसंधानेन मुच्येत ॥ ०४।६।११ ॥
sa ced brūyāt"yācitakam avakrītakam āhitakam nikṣepam upanidhim vaiyāvṛtya-karma vā amuṣya" iti . tasya apasāra-pratisaṃdhānena mucyeta .. 04.6.11 ..
नएवम् इत्यपसारो वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणं आत्मनः प्रतिग्रह-कारणं उपलिङ्गनं वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ॥ ०४.६.१२ ॥
न एवम् इति अपसारः वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणम् आत्मनः प्रतिग्रह-कारणम् उपलिङ्गनम् वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिः उपश्रोतृभिः वा प्रतिसमानयेत् ॥ ०४।६।१२ ॥
na evam iti apasāraḥ vā brūyāt . rūpa-abhigṛhītaḥ parasya dāna-kāraṇam ātmanaḥ pratigraha-kāraṇam upaliṅganam vā dāyaka-dāpaka-nibandhaka-pratigrāhaka-upadraṣṭṛbhiḥ upaśrotṛbhiḥ vā pratisamānayet .. 04.6.12 ..
उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ॥ ०४.६.१३ ॥
उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ॥ ०४।६।१३ ॥
ujjhita-pranaṣṭa-niṣpatita-upalabdhasya deśa-kāla-lābha-upaliṅganena śuddhiḥ .. 04.6.13 ..
अशुद्धस्तच्च तावच्च दण्डं दद्यात् ॥ ०४.६.१४ ॥
अशुद्धः तत् च तावत् च दण्डम् दद्यात् ॥ ०४।६।१४ ॥
aśuddhaḥ tat ca tāvat ca daṇḍam dadyāt .. 04.6.14 ..
अन्यथा स्तेय-दण्डं भजेत इति रूप-अभिग्रहः । ॥ ०४.६.१५ ॥
अन्यथा स्तेय-दण्डम् भजेत इति रूप-अभिग्रहः । ॥ ०४।६।१५ ॥
anyathā steya-daṇḍam bhajeta iti rūpa-abhigrahaḥ . .. 04.6.15 ..
कर्म-अभिग्रहस्तु मुषित-वेश्मनः प्रवेश-निष्कसनं अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननं वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यं अभ्यन्तरच्-छेद-उत्कर-परिमर्द-उपकरणं अभ्यन्तर-कृतं विद्यात् ॥ ०४.६.१६ ॥
कर्म-अभिग्रहः तु मुषित-वेश्मनः प्रवेश-निष्कसनम् अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननम् वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यम् अभ्यन्तरत्-छेद-उत्कर-परिमर्द-उपकरणम् अभ्यन्तर-कृतम् विद्यात् ॥ ०४।६।१६ ॥
karma-abhigrahaḥ tu muṣita-veśmanaḥ praveśa-niṣkasanam advāreṇa . dvārasya saṃdhinā bījena vā vedham . uttama-agārasya jāla-vāta-ayana-nīpra-vedham . ārohaṇa-avataraṇe ca kuḍyasya vedham . upakhananam vā gūḍha-dravya-nikṣepaṇa-grahaṇa-upāyam . upadeśa-upalabhyam abhyantarat-cheda-utkara-parimarda-upakaraṇam abhyantara-kṛtam vidyāt .. 04.6.16 ..
विपर्यये बाह्य-कृतम् । उभयत उभय-कृतं ॥ ०४.६.१७ ॥
विपर्यये बाह्य-कृतम् । उभयतस् उभय-कृतम् ॥ ०४।६।१७ ॥
viparyaye bāhya-kṛtam . ubhayatas ubhaya-kṛtam .. 04.6.17 ..
अभ्यन्तर-कृते पुरुषं आसन्नं व्यसनिनं क्रूर-सहायं तस्कर-उपकरण-संसर्गं । स्त्रियं वा दरिद्र-कुलां अन्य-प्रसक्तां वा । ॥ ०४.६.१८अ ॥
अभ्यन्तर-कृते पुरुषम् आसन्नम् व्यसनिनम् क्रूर-सहायम् तस्कर-उपकरण-संसर्गम् । स्त्रियम् वा दरिद्र-कुलाम् अन्य-प्रसक्ताम् वा । ॥ ०४।६।१८अ ॥
abhyantara-kṛte puruṣam āsannam vyasaninam krūra-sahāyam taskara-upakaraṇa-saṃsargam . striyam vā daridra-kulām anya-prasaktām vā . .. 04.6.18a ..
परिचारक-जनं वा तद्-विध-आचारम् । अतिस्वप्नं । निद्रा-क्लान्तम् । आविग्नं- शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ॥ ०४.६.१८ब ॥
परिचारक-जनम् वा तद्-विध-आचारम् । अति स्वप्नम् । निद्रा-क्लान्तम् । आविग्नम् शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ॥ ०४।६।१८ब ॥
paricāraka-janam vā tad-vidha-ācāram . ati svapnam . nidrā-klāntam . āvignam śuṣka-bhinna-svara-mukha-varṇam . anavasthitam . .. 04.6.18ba ..
अतिप्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रं । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रं । जात-किण-संरब्ध-हस्त-पादं । ॥ ०४.६.१८क ॥
अति प्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रम् । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रम् । जात-किण-संरब्ध-हस्त-पादम् । ॥ ०४।६।१८क ॥
ati pralāpinam . ucca-ārohaṇa-saṃrabdha-gātram . vilūna-nighṛṣṭa-bhinna-pāṭita-śarīra-vastram . jāta-kiṇa-saṃrabdha-hasta-pādam . .. 04.6.18ka ..
पांसु-पूर्ण-केश-नखं विलून-भुग्न-केश-नखं वा । सम्यक्-स्नात-अनुलिप्तं तैल-प्रमृष्ट-गात्रं सद्यो-दौत-हस्त-पादं वा । ॥ ०४.६.१८ड ॥
पांसु-पूर्ण-केश-नखम् विलून-भुग्न-केश-नखम् वा । सम्यक् स्नात-अनुलिप्तम् तैल-प्रमृष्ट-गात्रम् सद्यस् दौत-हस्त-पादम् वा । ॥ ०४।६।१८ड ॥
pāṃsu-pūrṇa-keśa-nakham vilūna-bhugna-keśa-nakham vā . samyak snāta-anuliptam taila-pramṛṣṭa-gātram sadyas dauta-hasta-pādam vā . .. 04.6.18ḍa ..
पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपं । प्रवेश-निष्कसनयोर्वा तुल्य-माल्य-मद्य-गन्ध-वस्त्रच्-छेद-विलेपन-स्वेदं परीक्षेत ॥ ०४.६.१८ए ॥
पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपम् । प्रवेश-निष्कसनयोः वा तुल्य-माल्य-मद्य-गन्ध-वस्त्र-छेद-विलेपन-स्वेदम् परीक्षेत ॥ ०४।६।१८ए ॥
pāṃsu-picchileṣu tulya-pāda-pada-nikṣepam . praveśa-niṣkasanayoḥ vā tulya-mālya-madya-gandha-vastra-cheda-vilepana-svedam parīkṣeta .. 04.6.18e ..
चोरं पारदारिकं वा विद्यात् ॥ ०४.६.१९ ॥
चोरम् पारदारिकम् वा विद्यात् ॥ ०४।६।१९ ॥
coram pāradārikam vā vidyāt .. 04.6.19 ..
सगोप-स्थानिको बाह्यं प्रदेष्टा चोर-मार्गणं । ॥ ०४.६.२०अ ब ॥
स गोप-स्थानिकः बाह्यम् प्रदेष्टा चोर-मार्गणम् । ॥ ०४।६।२०अ ब ॥
sa gopa-sthānikaḥ bāhyam pradeṣṭā cora-mārgaṇam . .. 04.6.20a ba ..
कुर्यान्नागरिकश्चान्तर्-दुर्गे निर्दिष्ट-हेतुभिः ॥ ०४.६.२०च्द् ॥
कुर्यात् नागरिकः च अन्तर् दुर्गे निर्दिष्ट-हेतुभिः ॥ ०४।६।२०च् ॥
kuryāt nāgarikaḥ ca antar durge nirdiṣṭa-hetubhiḥ .. 04.6.20c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In