| |
|

This overlay will guide you through the buttons:

तांश्चापदेशैः प्रतिसमानयेत् ॥ ०४.८.०२ ॥
तान् च अपदेशैः प्रतिसमानयेत् ॥ ०४।८।०२ ॥
tān ca apadeśaiḥ pratisamānayet .. 04.8.02 ..
ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ॥ ०४.८.०३ ॥
ततस् पूर्वस्य अह्नः प्रचारम् रात्रौ निवासम् च<चा ग्रहणात् इति अनुयुञ्जीत ॥ ०४।८।०३ ॥
tatas pūrvasya ahnaḥ pracāram rātrau nivāsam ca<cā grahaṇāt iti anuyuñjīta .. 04.8.03 ..
तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ॥ ०४.८.०४ ॥
तस्य अपसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ॥ ०४।८।०४ ॥
tasya apasāra-pratisaṃdhāne śuddhaḥ syāt . anyathā karma-prāptaḥ .. 04.8.04 ..
त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ॥ ०४.८.०५ ॥
त्रि-रात्रात् ऊर्ध्वम् अ ग्राह्यः शङ्कितकः पृच्छा-अभावात् अन्यत्र औपकरण-दर्शनात् ॥ ०४।८।०५ ॥
tri-rātrāt ūrdhvam a grāhyaḥ śaṅkitakaḥ pṛcchā-abhāvāt anyatra aupakaraṇa-darśanāt .. 04.8.05 ..
अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ॥ ०४.८.०६ ॥
अ चोरम् चोरः इति अभिव्याहरतः चोर-समः दण्डः । चोरम् प्रच्छादयतः च ॥ ०४।८।०६ ॥
a coram coraḥ iti abhivyāharataḥ cora-samaḥ daṇḍaḥ . coram pracchādayataḥ ca .. 04.8.06 ..
चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ॥ ०४.८.०७ ॥
चोरेण अभिशस्तः वैर-द्वेषाभ्याम् अपदिष्टकः शुद्धः स्यात् ॥ ०४।८।०७ ॥
coreṇa abhiśastaḥ vaira-dveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt .. 04.8.07 ..
शुद्धं परिवासयतः पूर्वः साहस-दण्डः ॥ ०४.८.०८ ॥
शुद्धम् परिवासयतः पूर्वः साहस-दण्डः ॥ ०४।८।०८ ॥
śuddham parivāsayataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 04.8.08 ..
शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ॥ ०४.८.०९ ॥
शङ्का-निष्पन्नम् उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करात् निष्पादयेत् ॥ ०४।८।०९ ॥
śaṅkā-niṣpannam upakaraṇa-mantri-sahāya-rūpa-vaiyāvṛtya-karāt niṣpādayet .. 04.8.09 ..
कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ॥ ०४.८.१० ॥
कर्मणः च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ॥ ०४।८।१० ॥
karmaṇaḥ ca pradeśa-dravya-ādāna-aṃśa-vibhāgaiḥ pratisamānayet .. 04.8.10 ..
एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ॥ ०४.८.११ ॥
एतेषाम् कारणानाम् अन् अभिसंधाने विप्रलपन्तम् अ चोरम् विद्यात् ॥ ०४।८।११ ॥
eteṣām kāraṇānām an abhisaṃdhāne vipralapantam a coram vidyāt .. 04.8.11 ..
दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ॥ ०४.८.१२ ॥
दृश्यते हि अ चोरः अपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणः चोर-भाण्डस्य औपवासेन वा । यथा अअणि-माण्डव्यः कर्म-क्लेश-भयात् अचोरः "चो रो अस्मि" इति ब्रुवाणः ॥ ०४।८।१२ ॥
dṛśyate hi a coraḥ api cora-mārge yadṛcchayā saṃnipāte cora-veṣa-śastra-bhāṇḍa-sāmānyena gṛhyamāṇaḥ cora-bhāṇḍasya aupavāsena vā . yathā aaṇi-māṇḍavyaḥ karma-kleśa-bhayāt acoraḥ "co ro asmi" iti bruvāṇaḥ .. 04.8.12 ..
तस्मात्समाप्त-करणं नियमयेत् ॥ ०४.८.१३ ॥
तस्मात् समाप्त-करणम् नियमयेत् ॥ ०४।८।१३ ॥
tasmāt samāpta-karaṇam niyamayet .. 04.8.13 ..
मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ॥ ०४.८.१४ ॥
मन्द-अपराधम् बालम् वृद्धम् व्याधितम् मत्तम् उन्मत्तम् क्षुध्-पिपासा-अध्व-क्लान्तम् अत्याशितम् आमक-अशितम् दुर्बलम् वा न कर्म कारयेत् ॥ ०४।८।१४ ॥
manda-aparādham bālam vṛddham vyādhitam mattam unmattam kṣudh-pipāsā-adhva-klāntam atyāśitam āmaka-aśitam durbalam vā na karma kārayet .. 04.8.14 ..
तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ॥ ०४.८.१५ ॥
तुल्य-शील-पुंश्चली-प्राप-आविक-कथा-अवकाश-भोजन-दातृभिः अपसर्पयेत् ॥ ०४।८।१५ ॥
tulya-śīla-puṃścalī-prāpa-āvika-kathā-avakāśa-bhojana-dātṛbhiḥ apasarpayet .. 04.8.15 ..
एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ॥ ०४.८.१६ ॥
एवम् अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातम् ॥ ०४।८।१६ ॥
evam atisaṃdadhyāt . yathā vā nikṣepa-apahāre vyākhyātam .. 04.8.16 ..
आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ॥ ०४.८.१७ ॥
आप्त-दोषम् कर्म कारयेत् । न तु एव स्त्रियम् गर्भिणीम् सूतिकाम् वा मास-अवर-प्रजाताम् ॥ ०४।८।१७ ॥
āpta-doṣam karma kārayet . na tu eva striyam garbhiṇīm sūtikām vā māsa-avara-prajātām .. 04.8.17 ..
स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ॥ ०४.८.१८ ॥
स्त्रियाः तु अर्ध-कर्म । वाक्य-अनुयोगः वा ॥ ०४।८।१८ ॥
striyāḥ tu ardha-karma . vākya-anuyogaḥ vā .. 04.8.18 ..
ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ॥ ०४.८.१९ ॥
ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतः तपस्विनः च ॥ ०४।८।१९ ॥
brāhmaṇasya sattri-parigrahaḥ śrutavataḥ tapasvinaḥ ca .. 04.8.19 ..
तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ॥ ०४.८.२० ॥
तस्य अतिक्रमः उत्तमः दण्डः कर्तुः कारयितुः च । कर्मणा व्यापादनेन च ॥ ०४।८।२० ॥
tasya atikramaḥ uttamaḥ daṇḍaḥ kartuḥ kārayituḥ ca . karmaṇā vyāpādanena ca .. 04.8.20 ..
व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ॥ ०४.८.२१ ॥
व्यावहारिकम् कर्म-चतुष्कम् षट् दण्डाः । सप्त कशाः । द्वौ उपरि निबन्धौ । उदक-नालिका च ॥ ०४।८।२१ ॥
vyāvahārikam karma-catuṣkam ṣaṭ daṇḍāḥ . sapta kaśāḥ . dvau upari nibandhau . udaka-nālikā ca .. 04.8.21 ..
परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ॥ ०४.८.२२ ॥
परम् पाप-कर्मणाम् नव वेत्र-लताः । द्वादश कशाः । द्वौ ऊरु-वेष्टौ । विंशतिः नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनम् अङ्गुल्याः । स्नेह-पीतस्य प्रतापनम् एकम् अहर् । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ॥ ०४।८।२२ ॥
param pāpa-karmaṇām nava vetra-latāḥ . dvādaśa kaśāḥ . dvau ūru-veṣṭau . viṃśatiḥ nakta-māla-latāḥ . dvātriṃśat-talāḥ . dvau vṛścika-bandhau . ullaṃbane ca dve . sūcī hastasya . yavāgū-pītasya eka-parva-dahanam aṅgulyāḥ . sneha-pītasya pratāpanam ekam ahar . śiśira-rātrau balbaja-agra-śayyā ca .. 04.8.22 ..
इत्यष्टादशकं कर्म ॥ ०४.८.२३ ॥
इति अष्टादशकम् कर्म ॥ ०४।८।२३ ॥
iti aṣṭādaśakam karma .. 04.8.23 ..
तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ॥ ०४.८.२४ ॥
तस्य उपकरणम् प्रमाणम् प्रहरणम् प्रधरणम् अवधारणम् च खर-पट्टात् आगमयेत् ॥ ०४।८।२४ ॥
tasya upakaraṇam pramāṇam praharaṇam pradharaṇam avadhāraṇam ca khara-paṭṭāt āgamayet .. 04.8.24 ..
दिवस-अन्तरं एक-एकं च कर्म कारयेत् ॥ ०४.८.२५ ॥
दिवस-अन्तरम् एक-एकम् च कर्म कारयेत् ॥ ०४।८।२५ ॥
divasa-antaram eka-ekam ca karma kārayet .. 04.8.25 ..
पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ॥ ०४.८.२६ ॥
पूर्व-कृत-अपदानम् प्रतिज्ञाय अपहरन्तम् एक-देश-दृष्ट-द्रव्यम् कर्मणा रूपेण वा गृहीतम् राज-कोशम् अवस्तृणन्तम् कर्म-वध्यम् वा राज-वचनात् समस्तम् व्यस्तम् अभ्यस्तम् वा कर्म कारयेत् ॥ ०४।८।२६ ॥
pūrva-kṛta-apadānam pratijñāya apaharantam eka-deśa-dṛṣṭa-dravyam karmaṇā rūpeṇa vā gṛhītam rāja-kośam avastṛṇantam karma-vadhyam vā rāja-vacanāt samastam vyastam abhyastam vā karma kārayet .. 04.8.26 ..
सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ॥ ०४.८.२७ ॥
सर्व-अपराधेषु अपीडनीयः ब्राह्मणः ॥ ०४।८।२७ ॥
sarva-aparādheṣu apīḍanīyaḥ brāhmaṇaḥ .. 04.8.27 ..
तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ॥ ०४.८.२८ ॥
तस्य अभिशस्त-अङ्कः ललाटे स्यात् व्यवहार-पतनाय । स्तेयः श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ॥ ०४।८।२८ ॥
tasya abhiśasta-aṅkaḥ lalāṭe syāt vyavahāra-patanāya . steyaḥ śvā . manuṣya-vadhe kabandhaḥ . guru-talpe bhagam . surā-pāne madya-dhvajaḥ .. 04.8.28 ..
ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ॥ ०४.८.२९अ ब ॥
ब्राह्मणम् पाप-कर्माणम् उद्घुष्य अङ्क-कृत-व्रणम् । ॥ ०४।८।२९अ ब ॥
brāhmaṇam pāpa-karmāṇam udghuṣya aṅka-kṛta-vraṇam . .. 04.8.29a ba ..
कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ॥ ०४.८.२९च्द् ॥
कुर्यात् निर्विषयम् राजा वासयेत् आकरेषु वा ॥ ०४।८।२९च् ॥
kuryāt nirviṣayam rājā vāsayet ākareṣu vā .. 04.8.29c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In