| |
|

This overlay will guide you through the buttons:

तांश्चापदेशैः प्रतिसमानयेत् ॥ ०४.८.०२ ॥
tāṃścāpadeśaiḥ pratisamānayet .. 04.8.02 ..
ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ॥ ०४.८.०३ ॥
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca<cā> grahaṇādityanuyuñjīta .. 04.8.03 ..
तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ॥ ०४.८.०४ ॥
tasyāpasāra-pratisaṃdhāne śuddhaḥ syāt . anyathā karma-prāptaḥ .. 04.8.04 ..
त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ॥ ०४.८.०५ ॥
tri-rātrādūrdhvaṃ agrāhyaḥ śaṅkitakaḥ pṛcchā-abhāvādanyatraupakaraṇa-darśanāt .. 04.8.05 ..
अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ॥ ०४.८.०६ ॥
acoraṃ cora ityabhivyāharataścora-samo daṇḍaḥ . coraṃ pracchādayataśca .. 04.8.06 ..
चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ॥ ०४.८.०७ ॥
coreṇābhiśasto vaira-dveṣābhyāṃ apadiṣṭakaḥ śuddhaḥ syāt .. 04.8.07 ..
शुद्धं परिवासयतः पूर्वः साहस-दण्डः ॥ ०४.८.०८ ॥
śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 04.8.08 ..
शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ॥ ०४.८.०९ ॥
śaṅkā-niṣpannaṃ upakaraṇa-mantri-sahāya-rūpa-vaiyāvṛtya-karānniṣpādayet .. 04.8.09 ..
कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ॥ ०४.८.१० ॥
karmaṇaśca pradeśa-dravya-ādāna-aṃśa-vibhāgaiḥ pratisamānayet .. 04.8.10 ..
एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ॥ ०४.८.११ ॥
eteṣāṃ kāraṇānāṃ anabhisaṃdhāne vipralapantaṃ acoraṃ vidyāt .. 04.8.11 ..
दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ॥ ०४.८.१२ ॥
dṛśyate hyacoroapi cora-mārge yadṛcchayā saṃnipāte cora-veṣa-śastra-bhāṇḍa-sāmānyena gṛhyamāṇaścora-bhāṇḍasyaupavāsena vā . yathāaṇi-māṇḍavyaḥ karma-kleśa-bhayādacoraḥ "coroasmi" iti bruvāṇaḥ .. 04.8.12 ..
तस्मात्समाप्त-करणं नियमयेत् ॥ ०४.८.१३ ॥
tasmātsamāpta-karaṇaṃ niyamayet .. 04.8.13 ..
मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ॥ ०४.८.१४ ॥
manda-aparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattaṃ unmattaṃ kṣut-pipāsā-adhva-klāntaṃ atyāśitaṃ āmaka-aśitaṃ durbalaṃ vā na karma kārayet .. 04.8.14 ..
तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ॥ ०४.८.१५ ॥
tulya śīla-puṃścalī-prāpāvika-kathā-avakāśa-bhojana-dātṛbhirapasarpayet .. 04.8.15 ..
एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ॥ ०४.८.१६ ॥
evaṃ atisaṃdadhyāt . yathā vā nikṣepa-apahāre vyākhyātaṃ .. 04.8.16 ..
आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ॥ ०४.८.१७ ॥
āpta-doṣaṃ karma kārayet . na tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsa-avara-prajātāṃ .. 04.8.17 ..
स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ॥ ०४.८.१८ ॥
striyāstvardha-karma . vākya-anuyogo vā .. 04.8.18 ..
ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ॥ ०४.८.१९ ॥
brāhmaṇasya sattri-parigrahaḥ śrutavatastapasvinaśca .. 04.8.19 ..
तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ॥ ०४.८.२० ॥
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca . karmaṇā vyāpādanena ca .. 04.8.20 ..
व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ॥ ०४.८.२१ ॥
vyāvahārikaṃ karma-catuṣkaṃ ṣaḍdaṇḍāḥ . sapta kaśāḥ . dvāvupari-nibandhau . udaka-nālikā ca .. 04.8.21 ..
परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ॥ ०४.८.२२ ॥
paraṃ pāpa-karmaṇāṃ nava vetra-latāḥ . dvādaśa kaśāḥ . dvāvūru-veṣṭau . viṃśatirnakta-māla-latāḥ . dvātriṃśat-talāḥ . dvau vṛścika-bandhau . ullaṃbane ca dve . sūcī hastasya . yavāgū-pītasya eka-parva-dahanaṃ aṅgulyāḥ . sneha-pītasya pratāpanaṃ ekaṃ ahaḥ . śiśira-rātrau balbaja-agra-śayyā ca .. 04.8.22 ..
इत्यष्टादशकं कर्म ॥ ०४.८.२३ ॥
ityaṣṭādaśakaṃ karma .. 04.8.23 ..
तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ॥ ०४.८.२४ ॥
tasya-upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇaṃ avadhāraṇaṃ ca khara-paṭṭādāgamayet .. 04.8.24 ..
दिवस-अन्तरं एक-एकं च कर्म कारयेत् ॥ ०४.८.२५ ॥
divasa-antaraṃ eka-ekaṃ ca karma kārayet .. 04.8.25 ..
पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ॥ ०४.८.२६ ॥
pūrva-kṛta-apadānaṃ pratijñāyāpaharantaṃ eka-deśa-dṛṣṭa-dravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rāja-kośaṃ avastṛṇantaṃ karma-vadhyaṃ vā rāja-vacanātsamastaṃ vyastaṃ abhyastaṃ vā karma kārayet .. 04.8.26 ..
सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ॥ ०४.८.२७ ॥
sarva-aparādheṣvapīḍanīyo brāhmaṇaḥ .. 04.8.27 ..
तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ॥ ०४.८.२८ ॥
tasyābhiśasta-aṅko lalāṭe syādvyavahāra-patanāya . steyo śvā . manuṣya-vadhe kabandhaḥ . guru-talpe bhagam . surā-pāne madya-dhvajaḥ .. 04.8.28 ..
ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ॥ ०४.८.२९अ ब ॥
brāhmaṇaṃ pāpa-karmāṇaṃ udghuṣyāṅka-kṛta-vraṇaṃ . .. 04.8.29a ba ..
कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ॥ ०४.८.२९च्द् ॥
kuryānnirviṣayaṃ rājā vāsayedākareṣu vā .. 04.8.29cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In