| |
|

This overlay will guide you through the buttons:

समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ॥ ०४.९.०१ ॥
समाहर्तृ-प्रदेष्टारः पूर्वम् अध्यक्षाणाम् अध्यक्ष-पुरुषाणाम् च नियमनम् कुर्युः ॥ ०४।९।०१ ॥
samāhartṛ-pradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣa-puruṣāṇām ca niyamanam kuryuḥ .. 04.9.01 ..
खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ॥ ०४.९.०२ ॥
खनि-सार-कर्म-अन्तेभ्यः सारम् रत्नम् वा अपहरतः शुद्ध-वधः ॥ ०४।९।०२ ॥
khani-sāra-karma-antebhyaḥ sāram ratnam vā apaharataḥ śuddha-vadhaḥ .. 04.9.02 ..
फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ॥ ०४.९.०३ ॥
फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यम् उपस्करम् वा पूर्वः साहस-दण्डः ॥ ०४।९।०३ ॥
phalgu-dravya-karma-antebhyaḥ phalgu dravyam upaskaram vā pūrvaḥ sāhasa-daṇḍaḥ .. 04.9.03 ..
पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ॥ ०४.९.०४ ॥
पण्य-भूमिभ्यः वा राज-पण्यम् माष-मूल्यात् ऊर्ध्वम् आपाद-मूल्यात् इति अपहरतः द्वादश-पणः दण्डः । आ द्वि-पाद-मूल्यात् इति चतुर्विंशति-पणः । आ त्रि-पाद-मूल्यात् इति षट्त्रिंशत्-पणः । आ पण-मूल्यात् इति अष्ट-चत्वारिंशत्-पणः । आ द्वि-पण-मूल्यात् इति पूर्वः साहस-दण्डः । आ चतुष्पण-मूल्यात् इति मध्यमः । आ अष्ट-पण-मूल्यात् इति उत्तमः । आ दश-पण-मूल्यात् इति वधः ॥ ०४।९।०४ ॥
paṇya-bhūmibhyaḥ vā rāja-paṇyam māṣa-mūlyāt ūrdhvam āpāda-mūlyāt iti apaharataḥ dvādaśa-paṇaḥ daṇḍaḥ . ā dvi-pāda-mūlyāt iti caturviṃśati-paṇaḥ . ā tri-pāda-mūlyāt iti ṣaṭtriṃśat-paṇaḥ . ā paṇa-mūlyāt iti aṣṭa-catvāriṃśat-paṇaḥ . ā dvi-paṇa-mūlyāt iti pūrvaḥ sāhasa-daṇḍaḥ . ā catuṣpaṇa-mūlyāt iti madhyamaḥ . ā aṣṭa-paṇa-mūlyāt iti uttamaḥ . ā daśa-paṇa-mūlyāt iti vadhaḥ .. 04.9.04 ..
कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ॥ ०४.९.०५ ॥
कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेषु अर्ध-मूल्येषु एते एव दण्डाः ॥ ०४।९।०५ ॥
koṣṭha-paṇya-kupya-āyudha-agārebhyaḥ kupya-bhāṇḍa-upaskara-apahāreṣu ardha-mūlyeṣu ete eva daṇḍāḥ .. 04.9.05 ..
कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ॥ ०४.९.०६ ॥
कोश-भाण्ड-अगार-अक्ष-शालाभ्यः चतुर्-भाग-मूल्येषु एते एव द्वि-गुणाः दण्डाः ॥ ०४।९।०६ ॥
kośa-bhāṇḍa-agāra-akṣa-śālābhyaḥ catur-bhāga-mūlyeṣu ete eva dvi-guṇāḥ daṇḍāḥ .. 04.9.06 ..
चोराणां अभिप्रधर्षणे चित्रो घातः ॥ ०४.९.०७ ॥
चोराणाम् अभिप्रधर्षणे चित्रः घातः ॥ ०४।९।०७ ॥
corāṇām abhipradharṣaṇe citraḥ ghātaḥ .. 04.9.07 ..
इति राज-परिग्रहेषु व्याख्यातं ॥ ०४.९.०८ ॥
इति राज-परिग्रहेषु व्याख्यातम् ॥ ०४।९।०८ ॥
iti rāja-parigraheṣu vyākhyātam .. 04.9.08 ..
बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ॥ ०४.९.०९ ॥
बाह्येषु तु प्रच्छन्नम् अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डम् उपस्करम् वा माष-मूल्यात् ऊर्ध्वम् आ पाद-मूल्यात् इति अपहरतः त्रि-पणः दण्डः । गोमय-प्रदेहेन वा प्रलिप्य अवघोषणम् आ द्वि-पाद-मूल्यात् इति षष्-पणः । गोमय-भस्मना वा प्रलिप्य अवघोषणम् । आ त्रि-पाद-मूल्यात् इति नव-पणः । गोमय-भस्मना वा प्रलिप्य अवघोषणम् । शराव-मेखलया वा आ पण-मूल्यात् इति द्वादश-पणः । मुण्डनम् प्रव्राजनम् वा आ द्वि-पण-मूल्यात् इति चतुर्विंशति-पणः । मुण्डस्य ऐष्टका-शकलेन प्रव्राजनम् वा आ चतुष्-पण-मूल्यात् इति षट् त्रिंशत्-पणः आ पञ्च-पण-मूल्यात् इति अष्टचत्वारिंशत्-पणः । आ दश-पण-मूल्यात् इति पूर्वः साहस-दण्डह् आ विंशति-पण-मूल्यात् इत् द्विशतह् आ त्रिंशत्-पण-मूल्यात् इति पञ्च-शतह् आ चत्वारिंशत्-पण-मूल्यात् इति साहस्रह् आ पञ्चाशत्-पण-मूल्यात् इति वधः ॥ ०४।९।०९ ॥
bāhyeṣu tu pracchannam ahani kṣetra-khala-veśma-āpaṇebhyaḥ kupya-bhāṇḍam upaskaram vā māṣa-mūlyāt ūrdhvam ā pāda-mūlyāt iti apaharataḥ tri-paṇaḥ daṇḍaḥ . gomaya-pradehena vā pralipya avaghoṣaṇam ā dvi-pāda-mūlyāt iti ṣaṣ-paṇaḥ . gomaya-bhasmanā vā pralipya avaghoṣaṇam . ā tri-pāda-mūlyāt iti nava-paṇaḥ . gomaya-bhasmanā vā pralipya avaghoṣaṇam . śarāva-mekhalayā vā ā paṇa-mūlyāt iti dvādaśa-paṇaḥ . muṇḍanam pravrājanam vā ā dvi-paṇa-mūlyāt iti caturviṃśati-paṇaḥ . muṇḍasya aiṣṭakā-śakalena pravrājanam vā ā catuṣ-paṇa-mūlyāt iti ṣaṭ triṃśat-paṇaḥ ā pañca-paṇa-mūlyāt iti aṣṭacatvāriṃśat-paṇaḥ . ā daśa-paṇa-mūlyāt iti pūrvaḥ sāhasa-daṇḍah ā viṃśati-paṇa-mūlyāt it dviśatah ā triṃśat-paṇa-mūlyāt iti pañca-śatah ā catvāriṃśat-paṇa-mūlyāt iti sāhasrah ā pañcāśat-paṇa-mūlyāt iti vadhaḥ .. 04.9.09 ..
प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ॥ ०४.९.१० ॥
प्रसह्य दिवा रात्रौ वा अआन्तर्यामिकम् अपहरतः अर्ध-मूल्येषु एते एव दण्डाः ॥ ०४।९।१० ॥
prasahya divā rātrau vā aāntaryāmikam apaharataḥ ardha-mūlyeṣu ete eva daṇḍāḥ .. 04.9.10 ..
प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ॥ ०४.९.११ ॥
प्रसह्य दिवा रात्रौ वा स शस्त्रस्य अपहरतः चतुर्-भाग-मूल्येषु एते एव द्विगुणाः दण्डाः ॥ ०४।९।११ ॥
prasahya divā rātrau vā sa śastrasya apaharataḥ catur-bhāga-mūlyeṣu ete eva dviguṇāḥ daṇḍāḥ .. 04.9.11 ..
कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ॥ ०४.९.१२ ॥
कुटुम्बिक-अध्यक्ष-मुख्य-स्वामिनाम् कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधाः दण्डाः । यथा अपराधम् वा ॥ ०४।९।१२ ॥
kuṭumbika-adhyakṣa-mukhya-svāminām kūṭa-śāsana-mudrā-karmasu pūrva-madhya-uttama-vadhāḥ daṇḍāḥ . yathā aparādham vā .. 04.9.12 ..
धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ॥ ०४.९.१३ ॥
धर्मस्थः चेद् विवदमानम् पुरुषम् तर्जयति भर्त्सयति अपसारयति अभिग्रसते वा पूर्वम् अस्मै साहस-दण्डम् कुर्यात् । वाच्-पारुष्ये द्वि-गुणम् ॥ ०४।९।१३ ॥
dharmasthaḥ ced vivadamānam puruṣam tarjayati bhartsayati apasārayati abhigrasate vā pūrvam asmai sāhasa-daṇḍam kuryāt . vāc-pāruṣye dvi-guṇam .. 04.9.13 ..
पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ॥ ०४.९.१४ ॥
पृच्छ्यम् न पृच्छति । अपृच्छ्यम् पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वम् ददाति वा । इति मध्यमम् अस्मै साहस-दण्डम् कुर्यात् ॥ ०४।९।१४ ॥
pṛcchyam na pṛcchati . apṛcchyam pṛcchati . pṛṣṭvā vā visṛjati . śikṣayati . smārayati . pūrvam dadāti vā . iti madhyamam asmai sāhasa-daṇḍam kuryāt .. 04.9.14 ..
देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ॥ ०४.९.१५ ॥
देयम् देशम् न पृच्छति । अदेयम् देशम् पृच्छति । कार्यम् अदेशेन अतिवाहयति । छलेन अतिहरति । काल-हरणेन श्रान्तम् अपवाहयति । मार्ग-आपन्नम् वाक्यम् उत्क्रमयति । मति-साहाय्यम् साक्षिभ्यः ददाति । तारित-अनुशिष्टम् कार्यम् पुनर् अपि गृह्णाति । उत्तमम् अस्मै साहस-दण्डम् कुर्यात् ॥ ०४।९।१५ ॥
deyam deśam na pṛcchati . adeyam deśam pṛcchati . kāryam adeśena ativāhayati . chalena atiharati . kāla-haraṇena śrāntam apavāhayati . mārga-āpannam vākyam utkramayati . mati-sāhāyyam sākṣibhyaḥ dadāti . tārita-anuśiṣṭam kāryam punar api gṛhṇāti . uttamam asmai sāhasa-daṇḍam kuryāt .. 04.9.15 ..
पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ॥ ०४.९.१६ ॥
पुनर् अपराधे द्वि-गुणम् स्थानात् व्यवरोपणम् च ॥ ०४।९।१६ ॥
punar aparādhe dvi-guṇam sthānāt vyavaropaṇam ca .. 04.9.16 ..
लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ॥ ०४.९.१७ ॥
लेखकः चेद् उक्तम् न लिखति । अन् उक्तम् लिखति । दुरुक्तम् उपलिखति । सूक्तम् उल्लिखति । अर्थ-उत्पत्तिम् वा विकल्पयति । इति पूर्वम् अस्मै साहस-दण्डम् कुर्यात् । यथा अपराधम् वा ॥ ०४।९।१७ ॥
lekhakaḥ ced uktam na likhati . an uktam likhati . duruktam upalikhati . sūktam ullikhati . artha-utpattim vā vikalpayati . iti pūrvam asmai sāhasa-daṇḍam kuryāt . yathā aparādham vā .. 04.9.17 ..
धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ॥ ०४.९.१८ ॥
धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डम् अ दण्ड्ये क्षिपति क्षेप-द्वि-गुणम् अस्मै दण्डम् कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणम् वा ॥ ०४।९।१८ ॥
dharmasthaḥ pradeṣṭā vā hairaṇya-daṇḍam a daṇḍye kṣipati kṣepa-dvi-guṇam asmai daṇḍam kuryāt . hīna-atirikta-aṣṭa-guṇam vā .. 04.9.18 ..
शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ॥ ०४.९.१९ ॥
शरीर-दण्डम् क्षिपति शारीरम् एव दण्डम् भजेत । निष्क्रय-द्वि-गुणम् वा ॥ ०४।९।१९ ॥
śarīra-daṇḍam kṣipati śārīram eva daṇḍam bhajeta . niṣkraya-dvi-guṇam vā .. 04.9.19 ..
यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ॥ ०४.९.२० ॥
यम् वा भूतम् अर्थम् नाशयति अभूतम् अर्थम् करोति तद्-अष्ट-गुणम् दण्डम् दद्यात् ॥ ०४।९।२० ॥
yam vā bhūtam artham nāśayati abhūtam artham karoti tad-aṣṭa-guṇam daṇḍam dadyāt .. 04.9.20 ..
धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ॥ ०४.९.२१ ॥
धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तराः दण्डाः कर्तुः कारयितुः च ॥ ०४।९।२१ ॥
dharmasthīye cārake bandhana-agāre vā śayyā-āsana-bhojana-uccāra-saṃcāra-rodha-bandhaneṣu tri-paṇa-uttarāḥ daṇḍāḥ kartuḥ kārayituḥ ca .. 04.9.21 ..
चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ॥ ०४.९.२२ ॥
चारकात् अभियुक्तम् मुञ्चतः निष्पातयतः वा मध्यमः साहस-दण्डः । अभियोग-दानम् च । बन्धन-अगारात् सर्व-स्वम् वधः च ॥ ०४।९।२२ ॥
cārakāt abhiyuktam muñcataḥ niṣpātayataḥ vā madhyamaḥ sāhasa-daṇḍaḥ . abhiyoga-dānam ca . bandhana-agārāt sarva-svam vadhaḥ ca .. 04.9.22 ..
बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ॥ ०४.९.२३ ॥
बन्धन-अगार-अध्यक्षस्य संरुद्धकम् अन् आख्याय चारयतः चतुर्-विंशति-पणः दण्डः । कर्म कारयतः द्वि-गुणः । स्थान-अन्य-त्वम् गमयतः अन्न-पानम् वा रुन्धतः षष्-णवतिः दण्डः । परिक्लेशयतः उत्कोटयतः वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ॥ ०४।९।२३ ॥
bandhana-agāra-adhyakṣasya saṃruddhakam an ākhyāya cārayataḥ catur-viṃśati-paṇaḥ daṇḍaḥ . karma kārayataḥ dvi-guṇaḥ . sthāna-anya-tvam gamayataḥ anna-pānam vā rundhataḥ ṣaṣ-ṇavatiḥ daṇḍaḥ . parikleśayataḥ utkoṭayataḥ vā madhyamaḥ sāhasa-daṇḍaḥ . ghnataḥ sāhasraḥ .. 04.9.23 ..
परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ॥ ०४.९.२४ ॥
परिगृहीताम् दासीम् आहितिकाम् वा संरुद्धिकाम् अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्याम् मध्यमः । संरुद्धिकाम् आर्याम् उत्तमः ॥ ०४।९।२४ ॥
parigṛhītām dāsīm āhitikām vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasa-daṇḍaḥ . cora-ḍāmarika-bhāryām madhyamaḥ . saṃruddhikām āryām uttamaḥ .. 04.9.24 ..
संरुद्धस्य वा तत्रएव घातः ॥ ०४.९.२५ ॥
संरुद्धस्य वा तत्र एव घातः ॥ ०४।९।२५ ॥
saṃruddhasya vā tatra eva ghātaḥ .. 04.9.25 ..
तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ॥ ०४.९.२६ ॥
तत् एव अक्षण-गृहीतायाम् आर्यायाम् विद्यात् । दास्याम् पूर्वः साहस-दण्डः ॥ ०४।९।२६ ॥
tat eva akṣaṇa-gṛhītāyām āryāyām vidyāt . dāsyām pūrvaḥ sāhasa-daṇḍaḥ .. 04.9.26 ..
चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ॥ ०४.९.२७ ॥
चारकम् अ भित्त्वा निष्पातयतः मध्यमः । भित्त्वा वधः । बन्धन-अगारात् सर्व-स्वम् वधः च ॥ ०४।९।२७ ॥
cārakam a bhittvā niṣpātayataḥ madhyamaḥ . bhittvā vadhaḥ . bandhana-agārāt sarva-svam vadhaḥ ca .. 04.9.27 ..
एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ॥ ०४.९.२८अ ब ॥
एवम् अर्थ-चरान् पूर्वम् राजा दण्डेन शोधयेत् । ॥ ०४।९।२८अ ब ॥
evam artha-carān pūrvam rājā daṇḍena śodhayet . .. 04.9.28a ba ..
शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ॥ ०४.९.२८च्द् ॥
शोधयेयुः च शुद्धाः ते पौर-जानपदान् दमैः ॥ ०४।९।२८च् ॥
śodhayeyuḥ ca śuddhāḥ te paura-jānapadān damaiḥ .. 04.9.28c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In