| |
|

This overlay will guide you through the buttons:

वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ॥ १०.१.०१ ॥
वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तम् दीर्घम् चतुर्-अश्रम् वा भूमि-वशेन वा । चतुर्-द्वारम् षष्-पथम् नव-संस्थानम् मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नम् भये स्थाने च ॥ १०।१।०१ ॥
vāstuka-praśaste vāstuni nāyaka-vardhaki mauhūrtikāḥ skandha-āvāram . vṛttam dīrgham catur-aśram vā bhūmi-vaśena vā . catur-dvāram ṣaṣ-patham nava-saṃsthānam māpayeyuḥ khāta-vapra-sāla-dvāra-aṭṭālaka-sampannam bhaye sthāne ca .. 10.1.01 ..
मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ॥ १०.१.०२ ॥
मध्यमस्य औत्तरे नव-भागे राज-वास्तुकम् धनुः-शत-आयामम् अर्ध-विस्तारम् । पश्चिम-अर्धे तस्य अन्तर् पुरम् ॥ १०।१।०२ ॥
madhyamasya auttare nava-bhāge rāja-vāstukam dhanuḥ-śata-āyāmam ardha-vistāram . paścima-ardhe tasya antar puram .. 10.1.02 ..
अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ॥ १०.१.०३ ॥
अन्तर् वंशिक-सैन्यम् च अन्ते निविशेत ॥ १०।१।०३ ॥
antar vaṃśika-sainyam ca ante niviśeta .. 10.1.03 ..
पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ॥ १०.१.०४ ॥
पुरस्तात् उपस्थानम् । दक्षिणतस् कोश-शासन-कार्य-करणानि । वामतस् राज-औपवाह्यानाम् हस्ति-अश्व-रथानाम् स्थानम् ॥ १०।१।०४ ॥
purastāt upasthānam . dakṣiṇatas kośa-śāsana-kārya-karaṇāni . vāmatas rāja-aupavāhyānām hasti-aśva-rathānām sthānam .. 10.1.04 ..
अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ॥ १०.१.०५ ॥
अतस् धनुः-शत-अन्तराः चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ॥ १०।१।०५ ॥
atas dhanuḥ-śata-antarāḥ catvāraḥ śakaṭa-methī-pratati-stambha-sāla-parikṣepāḥ .. 10.1.05 ..
प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ॥ १०.१.०६ ॥
प्रथमे पुरस्तात् मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारम् महानसम् च । वामतस् कुप्य-आयुध-अगारम् ॥ १०।१।०६ ॥
prathame purastāt mantri-purohitau . daṇṣiṇataḥ koṣṭha-agāram mahānasam ca . vāmatas kupya-āyudha-agāram .. 10.1.06 ..
द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ॥ १०.१.०७ ॥
द्वितीये मौल-भृतानाम् स्थानम् अश्व-रथानाम् सेनापतेः च ॥ १०।१।०७ ॥
dvitīye maula-bhṛtānām sthānam aśva-rathānām senāpateḥ ca .. 10.1.07 ..
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥ १०.१.०८ ॥
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥ १०।१।०८ ॥
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca .. 10.1.08 ..
चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ॥ १०.१.०९ ॥
चतुर्थे विष्टिः नायकः मित्र-अमित्र-अटवी-बलम् स्व-पुरुष-अधिष्ठितम् ॥ १०।१।०९ ॥
caturthe viṣṭiḥ nāyakaḥ mitra-amitra-aṭavī-balam sva-puruṣa-adhiṣṭhitam .. 10.1.09 ..
वणिजो रूप-आजीवाश्चानु-महा-पथं ॥ १०.१.१० ॥
वणिजः रूप-आजीवाः च अनु महा-पथम् ॥ १०।१।१० ॥
vaṇijaḥ rūpa-ājīvāḥ ca anu mahā-patham .. 10.1.10 ..
बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ॥ १०.१.११ ॥
बाह्यतस् लुब्धक-श्व-गणिनः स तूर्य-अग्नयः । गूढाः च अरक्षाः ॥ १०।१।११ ॥
bāhyatas lubdhaka-śva-gaṇinaḥ sa tūrya-agnayaḥ . gūḍhāḥ ca arakṣāḥ .. 10.1.11 ..
शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ॥ १०.१.१२ ॥
शत्रूणाम् आपाते कूप-कूट-अवपात-कण्टकिनीः च स्थापयेत् ॥ १०।१।१२ ॥
śatrūṇām āpāte kūpa-kūṭa-avapāta-kaṇṭakinīḥ ca sthāpayet .. 10.1.12 ..
अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ॥ १०.१.१३ ॥
अष्टादश-वर्गाणाम् आरक्ष-विपर्यासम् कारयेत् ॥ १०।१।१३ ॥
aṣṭādaśa-vargāṇām ārakṣa-viparyāsam kārayet .. 10.1.13 ..
दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ॥ १०.१.१४ ॥
दिव-आयामम् च कारयेत् अपसर्प-ज्ञान-अर्थम् ॥ १०।१।१४ ॥
diva-āyāmam ca kārayet apasarpa-jñāna-artham .. 10.1.14 ..
विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ॥ १०.१.१५ ॥
विवाद-सौरिक-समाज-द्यूत-वारणम् च कारयेत् । मुद्रा-रक्षणम् च ॥ १०।१।१५ ॥
vivāda-saurika-samāja-dyūta-vāraṇam ca kārayet . mudrā-rakṣaṇam ca .. 10.1.15 ..
सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ॥ १०.१.१६ ॥
सेना-निवृत्तम् आयुधीयम् अ शासनम् शून्य-पालः बध्नीयात् ॥ १०।१।१६ ॥
senā-nivṛttam āyudhīyam a śāsanam śūnya-pālaḥ badhnīyāt .. 10.1.16 ..
पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ॥ १०.१.१७अ ब ॥
पुरस्तात् अध्वनः सम्यक् प्रशास्ता रक्षणानि च । ॥ १०।१।१७अ ब ॥
purastāt adhvanaḥ samyak praśāstā rakṣaṇāni ca . .. 10.1.17a ba ..
यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ॥ १०.१.१७च्द् ॥
उदकानि च कारयेत् ॥ १०।१।१७च् ॥
udakāni ca kārayet .. 10.1.17c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In