| |
|

This overlay will guide you through the buttons:

वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ॥ १०.१.०१ ॥
vāstuka-praśaste vāstuni nāyaka-vardhaki mauhūrtikāḥ skandha-āvāram . vṛttaṃ dīrghaṃ catur-aśraṃ vā bhūmi-vaśena vā . catur-dvāraṃ ṣaṭ-pathaṃ nava-saṃsthānaṃ māpayeyuḥ khāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bhaye sthāne ca .. 10.1.01 ..
मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ॥ १०.१.०२ ॥
madhyamasyauttare nava-bhāge rāja-vāstukaṃ dhanuḥ-śata-āyāmaṃ ardha-vistāram . paścima-ardhe tasyāntaḥ-puraṃ .. 10.1.02 ..
अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ॥ १०.१.०३ ॥
antar-vaṃśika-sainyaṃ cānte niviśeta .. 10.1.03 ..
पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ॥ १०.१.०४ ॥
purastādupasthānam . dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni . vāmato rāja-aupavāhyānāṃ hasty-aśva-rathānāṃ sthānaṃ .. 10.1.04 ..
अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ॥ १०.१.०५ ॥
ato dhanuḥ-śata-antarāścatvāraḥ śakaṭa-methī-pratati-stambha-sāla-parikṣepāḥ .. 10.1.05 ..
प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ॥ १०.१.०६ ॥
prathame purastānmantri-purohitau . daṇṣiṇataḥ koṣṭha-agāraṃ mahānasaṃ ca . vāmataḥ kupya-āyudha-agāraṃ .. 10.1.06 ..
द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ॥ १०.१.०७ ॥
dvitīye maula-bhṛtānāṃ sthānaṃ aśva-rathānāṃ senā-pateśca .. 10.1.07 ..
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥ १०.१.०८ ॥
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca .. 10.1.08 ..
चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ॥ १०.१.०९ ॥
caturthe viṣṭirnāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adhiṣṭhitaṃ .. 10.1.09 ..
वणिजो रूप-आजीवाश्चानु-महा-पथं ॥ १०.१.१० ॥
vaṇijo rūpa-ājīvāścānu-mahā-pathaṃ .. 10.1.10 ..
बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ॥ १०.१.११ ॥
bāhyato lubdhaka-śva-gaṇinaḥ satūrya-agnayaḥ . gūḍhāśca'rakṣāḥ .. 10.1.11 ..
शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ॥ १०.१.१२ ॥
śatrūṇāṃ āpāte kūpa-kūṭa-avapāta-kaṇṭakinīśca sthāpayet .. 10.1.12 ..
अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ॥ १०.१.१३ ॥
aṣṭādaśa-vargāṇāṃ ārakṣa-viparyāsaṃ kārayet .. 10.1.13 ..
दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ॥ १०.१.१४ ॥
diva-āyāmaṃ ca kārayedapasarpa-jñāna-arthaṃ .. 10.1.14 ..
विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ॥ १०.१.१५ ॥
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet . mudrā-rakṣaṇaṃ ca .. 10.1.15 ..
सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ॥ १०.१.१६ ॥
senā-nivṛttaṃ āyudhīyaṃ aśāsanaṃ śūnya-pālo badhnīyāt .. 10.1.16 ..
पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ॥ १०.१.१७अ ब ॥
purastādadhvanaḥ samyak-praśāstā rakṣaṇāni ca . .. 10.1.17a ba ..
यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ॥ १०.१.१७च्द् ॥
yāyādvardhaki-viṣṭibhyāṃ udakāni ca kārayet .. 10.1.17cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In