| |
|

This overlay will guide you through the buttons:

ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ॥ १०.२.०१ ॥
ग्राम-अरण्यानाम् अध्वनि निवेशान् यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालम् च यात्राम् यायात् ॥ १०।२।०१ ॥
grāma-araṇyānām adhvani niveśān yavasa-indhana-udaka-vaśena parisaṃkhyāya sthāna-āsana-gamana-kālam ca yātrām yāyāt .. 10.2.01 ..
तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ॥ १०.२.०२ ॥
तद्-प्रतीकार-द्वि-गुणम् भक्त-उपकरणम् वाहयेत् ॥ १०।२।०२ ॥
tad-pratīkāra-dvi-guṇam bhakta-upakaraṇam vāhayet .. 10.2.02 ..
अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ॥ १०.२.०३ ॥
अ शक्तः वा सैन्येषु आयोजयेत् । अन्तरेषु वा निचिनुयात् ॥ १०।२।०३ ॥
a śaktaḥ vā sainyeṣu āyojayet . antareṣu vā nicinuyāt .. 10.2.03 ..
पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ॥ १०.२.०४ ॥
पुरस्तात् नायकः । मध्ये कलत्रम् स्वामी च । पार्श्वयोः अश्वाः बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिः वा । पश्चात् सेना-पतिः यायात् निविशेत ॥ १०।२।०४ ॥
purastāt nāyakaḥ . madhye kalatram svāmī ca . pārśvayoḥ aśvāḥ bāhu-utsāraḥ . cakra-anteṣu hastinaḥ prasāra-vṛddhiḥ vā . paścāt senā-patiḥ yāyāt niviśeta .. 10.2.04 ..
सर्वतो वन-आजीवः प्रसारः ॥ १०.२.०५ ॥
सर्वतस् वन-आजीवः प्रसारः ॥ १०।२।०५ ॥
sarvatas vana-ājīvaḥ prasāraḥ .. 10.2.05 ..
स्व-देशादन्वायतिर्वीवधः ॥ १०.२.०६ ॥
स्व-देशात् अन्वायतिः वीवधः ॥ १०।२।०६ ॥
sva-deśāt anvāyatiḥ vīvadhaḥ .. 10.2.06 ..
मित्र-बलं आसारः ॥ १०.२.०७ ॥
मित्र-बलम् आसारः ॥ १०।२।०७ ॥
mitra-balam āsāraḥ .. 10.2.07 ..
कलत्र-स्थानं अपसारः ॥ १०.२.०८ ॥
कलत्र-स्थानम् अपसारः ॥ १०।२।०८ ॥
kalatra-sthānam apasāraḥ .. 10.2.08 ..
पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ॥ १०.२.०९ ॥
पुरस्तात् अध्याघाते मकरेण यायात् । पश्चात् शकटेन । पार्श्वयोः वज्रेण । समन्ततः सर्वतोभद्रेण । एक-अयने सूच्या ॥ १०।२।०९ ॥
purastāt adhyāghāte makareṇa yāyāt . paścāt śakaṭena . pārśvayoḥ vajreṇa . samantataḥ sarvatobhadreṇa . eka-ayane sūcyā .. 10.2.09 ..
पथि-द्वैधी-भावे स्वभूमितो यायात् ॥ १०.२.१० ॥
पथि द्वैधीभावे स्व-भूमितः यायात् ॥ १०।२।१० ॥
pathi dvaidhībhāve sva-bhūmitaḥ yāyāt .. 10.2.10 ..
अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥ १०.२.११ ॥
अभूमि-स्थानाम् हि स्व-भूमि-स्थाः युद्धे प्रतिलोमाः भवन्ति ॥ १०।२।११ ॥
abhūmi-sthānām hi sva-bhūmi-sthāḥ yuddhe pratilomāḥ bhavanti .. 10.2.11 ..
योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ॥ १०.२.१२ ॥
योजनम् अधमा । अध्यर्धम् मध्यमा । द्वि-योजनम् उत्तमा । सम्भाव्या वा गतिः ॥ १०।२।१२ ॥
yojanam adhamā . adhyardham madhyamā . dvi-yojanam uttamā . sambhāvyā vā gatiḥ .. 10.2.12 ..
आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ॥ १०.२.१३ ॥
आश्रय-कारी सम्पन्न-घाती पार्ष्णिः आसारः मध्यमः उदासीनः वा प्रतिकर्तव्यः । संकटः मार्गः शोधयितव्यः । कोशः दण्डः मित्र-अमित्र-अटवी-बलम् विष्टि-ऋतुः वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदः मित्र-बल-निर्वेदः च अगमिष्यति । उपजपितारः वा न अतित्वरयन्ति । शत्रुः अभिप्रायम् वा पूरयिष्यति । इति शनैस् यायात् । विपर्यये शीघ्रम् ॥ १०।२।१३ ॥
āśraya-kārī sampanna-ghātī pārṣṇiḥ āsāraḥ madhyamaḥ udāsīnaḥ vā pratikartavyaḥ . saṃkaṭaḥ mārgaḥ śodhayitavyaḥ . kośaḥ daṇḍaḥ mitra-amitra-aṭavī-balam viṣṭi-ṛtuḥ vā pratīkṣyāḥ . kṛta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedaḥ mitra-bala-nirvedaḥ ca agamiṣyati . upajapitāraḥ vā na atitvarayanti . śatruḥ abhiprāyam vā pūrayiṣyati . iti śanais yāyāt . viparyaye śīghram .. 10.2.13 ..
हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ॥ १०.२.१४ ॥
हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैः अलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिः च औदकानि तारयेत् ॥ १०।२।१४ ॥
hasti-stambha-saṃkrama-setu-bandha-nau-kāṣṭha-veṇu-saṃghātaiḥ alābu-carma-karaṇḍa-dṛti-plava-gaṇḍikā-veṇikābhiḥ ca audakāni tārayet .. 10.2.14 ..
तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ॥ १०.२.१५ ॥
तीर्थ-अभिग्रहे हस्ति-अश्वैः अन्यतस् रात्रौ उत्तार्य सत्त्रम् गृह्णीयात् ॥ १०।२।१५ ॥
tīrtha-abhigrahe hasti-aśvaiḥ anyatas rātrau uttārya sattram gṛhṇīyāt .. 10.2.15 ..
अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ॥ १०.२.१६ ॥
अनुदके चक्रि-चतुष्पदम् च अध्व-प्रमाणेन शक्त्या उदकम् वाहयेत् ॥ १०।२।१६ ॥
anudake cakri-catuṣpadam ca adhva-pramāṇena śaktyā udakam vāhayet .. 10.2.16 ..
दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ॥ १०.२.१७ ॥
दीर्घ-कान्तारम् अनुदकम् यवस-इन्धन-उदक-हीनम् वा कृच्छ्र-अध्वानम् अभियोग-प्रस्कन्नम् क्षुध्-पिपासा-अध्व-क्लान्तम् पङ्क-तोय-गम्भीराणाम् वा नदी-दरी-शैलानाम् उद्यान-अपयाने व्यासक्तम् एक-अयन-मार्गे शैल-विषमे संकटे वा बहुलीभूतम् निवेशे प्रस्थिते विसम्नाहम् भोजन-व्यासक्तम् आयत-गत-परिश्रान्तम् अवसुप्तम् व्याधि-मरक-दुर्भिक्ष-पीडितम् व्याधित-पत्ति-अश्व-द्विपम् अभूमिष्ठम् वा बल-व्यसनेषु वा स्व-सैन्यम् रक्षेत् । पर-सैन्यम् च अभिहन्यात् ॥ १०।२।१७ ॥
dīrgha-kāntāram anudakam yavasa-indhana-udaka-hīnam vā kṛcchra-adhvānam abhiyoga-praskannam kṣudh-pipāsā-adhva-klāntam paṅka-toya-gambhīrāṇām vā nadī-darī-śailānām udyāna-apayāne vyāsaktam eka-ayana-mārge śaila-viṣame saṃkaṭe vā bahulībhūtam niveśe prasthite visamnāham bhojana-vyāsaktam āyata-gata-pariśrāntam avasuptam vyādhi-maraka-durbhikṣa-pīḍitam vyādhita-patti-aśva-dvipam abhūmiṣṭham vā bala-vyasaneṣu vā sva-sainyam rakṣet . para-sainyam ca abhihanyāt .. 10.2.17 ..
एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ॥ १०.२.१८ ॥
एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानम् ॥ १०।२।१८ ॥
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidhāna-dhvaja-āyudha-saṃkhyānena para-bala-jñānam .. 10.2.18 ..
तदाआत्मानो गूहयेत् ॥ १०.२.१९ ॥
तदा आत्मानः गूहयेत् ॥ १०।२।१९ ॥
tadā ātmānaḥ gūhayet .. 10.2.19 ..
पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ॥ १०.२.२०अ ब ॥
पार्वतम् वन-दुर्गम् वा स अपसार-प्रतिग्रहम् । ॥ १०।२।२०अ ब ॥
pārvatam vana-durgam vā sa apasāra-pratigraham . .. 10.2.20a ba ..
स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ॥ १०.२.२०च्द् ॥
स्व-भुमौ पृष्ठतस् कृत्वा युध्येत निविशेत च ॥ १०।२।२०च् ॥
sva-bhumau pṛṣṭhatas kṛtvā yudhyeta niviśeta ca .. 10.2.20c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In