| |
|

This overlay will guide you through the buttons:

बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ॥ १०.३.०१ ॥
बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्याम् प्रकाश-युद्धम् उपेयात् ॥ १०।३।०१ ॥
bala-viśiṣṭaḥ kṛta-upajāpaḥ prativihita-ṛtuḥ sva-bhūmyām prakāśa-yuddham upeyāt .. 10.3.01 ..
विपर्यये कूट-युद्धं ॥ १०.३.०२ ॥
विपर्यये कूट-युद्धम् ॥ १०।३।०२ ॥
viparyaye kūṭa-yuddham .. 10.3.02 ..
बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ॥ १०.३.०३ ॥
बल-व्यसन-अवस्कन्द-कालेषु परम् अभिहन्यात् । अभूमिष्ठम् वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहः वा स्व-भूमिष्ठम् ॥ १०।३।०३ ॥
bala-vyasana-avaskanda-kāleṣu param abhihanyāt . abhūmiṣṭham vā sva-bhūmiṣṭhaḥ . prakṛti-pragrahaḥ vā sva-bhūmiṣṭham .. 10.3.03 ..
दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ॥ १०.३.०४ ॥
दूष्य-अमित्र-अटवी-बलैः वा भङ्गम् दत्त्वा विभूमि-प्राप्तम् हन्यात् ॥ १०।३।०४ ॥
dūṣya-amitra-aṭavī-balaiḥ vā bhaṅgam dattvā vibhūmi-prāptam hanyāt .. 10.3.04 ..
संहत-अनीकं हस्तिभिर्भेदयेत् ॥ १०.३.०५ ॥
संहत-अनीकम् हस्तिभिः भेदयेत् ॥ १०।३।०५ ॥
saṃhata-anīkam hastibhiḥ bhedayet .. 10.3.05 ..
पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ॥ १०.३.०६ ॥
पूर्वम् भङ्ग-प्रदानेन अनुप्रलीनम् भिन्नम् अभिन्नः प्रतिनिवृत्य हन्यात् ॥ १०।३।०६ ॥
pūrvam bhaṅga-pradānena anupralīnam bhinnam abhinnaḥ pratinivṛtya hanyāt .. 10.3.06 ..
पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ॥ १०.३.०७ ॥
पुरस्तात् अभिहत्य प्रचलम् विमुखम् वा पृष्ठतस् हस्ति-अश्वेन अभिहन्यात् ॥ १०।३।०७ ॥
purastāt abhihatya pracalam vimukham vā pṛṣṭhatas hasti-aśvena abhihanyāt .. 10.3.07 ..
पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ॥ १०.३.०८ ॥
पृष्ठतस् अभिहत्या प्रचलम् विमुखम् वा पुरस्तात् सार-बलेन अभिहन्यात् ॥ १०।३।०८ ॥
pṛṣṭhatas abhihatyā pracalam vimukham vā purastāt sāra-balena abhihanyāt .. 10.3.08 ..
ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ॥ १०.३.०९ ॥
ताभ्याम् पार्श्व-अभिगातौ व्याख्यातौ ॥ १०।३।०९ ॥
tābhyām pārśva-abhigātau vyākhyātau .. 10.3.09 ..
यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ॥ १०.३.१० ॥
यतस् वा दूष्य-फल्गु-बलम् ततस् अभिहन्यात् ॥ १०।३।१० ॥
yatas vā dūṣya-phalgu-balam tatas abhihanyāt .. 10.3.10 ..
पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ॥ १०.३.११ ॥
पुरस्तात् विषमायाम् पृष्ठतस् अभिहन्यात् ॥ १०।३।११ ॥
purastāt viṣamāyām pṛṣṭhatas abhihanyāt .. 10.3.11 ..
पृष्ठतो विषमायां पुरस्तादभिहन्यात् ॥ १०.३.१२ ॥
पृष्ठतस् विषमायाम् पुरस्तात् अभिहन्यात् ॥ १०।३।१२ ॥
pṛṣṭhatas viṣamāyām purastāt abhihanyāt .. 10.3.12 ..
पार्श्वतो विषमायां इतरतोअभिहन्यात् ॥ १०.३.१३ ॥
पार्श्वतस् विषमायाम् इतरतस् अभिहन्यात् ॥ १०।३।१३ ॥
pārśvatas viṣamāyām itaratas abhihanyāt .. 10.3.13 ..
दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ॥ १०.३.१४ ॥
दूष्य-अमित्र-अटवी-बलैः वा पूर्वम् योधयित्वा श्रान्तम् अश्रान्तः परम् अभिहन्यात् ॥ १०।३।१४ ॥
dūṣya-amitra-aṭavī-balaiḥ vā pūrvam yodhayitvā śrāntam aśrāntaḥ param abhihanyāt .. 10.3.14 ..
दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ॥ १०.३.१५ ॥
दूष्य-बलेन वा स्वयम् भङ्गम् दत्त्वा "जितम्" इति विश्वस्तम् अविश्वस्तः सत्त्र-अपाश्रयः अभिहन्यात् ॥ १०।३।१५ ॥
dūṣya-balena vā svayam bhaṅgam dattvā "jitam" iti viśvastam aviśvastaḥ sattra-apāśrayaḥ abhihanyāt .. 10.3.15 ..
सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ॥ १०.३.१६ ॥
सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तम् अ प्रमत्तः अभिहन्यात् ॥ १०।३।१६ ॥
sārtha-vraja-skandha-āvāra-saṃvāha-vilopa-pramattam a pramattaḥ abhihanyāt .. 10.3.16 ..
फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ॥ १०.३.१७ ॥
फल्गु-बल-अवच्छन्न-सार-बलः वा पर-वीरान् अनुप्रविश्य हन्यात् ॥ १०।३।१७ ॥
phalgu-bala-avacchanna-sāra-balaḥ vā para-vīrān anupraviśya hanyāt .. 10.3.17 ..
गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ॥ १०.३.१८ ॥
गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरान् आकृष्य सत्त्रच्-छन्नः अभिहन्यात् ॥ १०।३।१८ ॥
go-grahaṇena śvā-pada-vadhena vā para-vīrān ākṛṣya sattrac-channaḥ abhihanyāt .. 10.3.18 ..
रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ॥ १०.३.१९ ॥
रात्रौ अवस्कन्देन जागरयित्वा निद्रा-क्लान्तान् अवसुप्तान् वा दिवा हन्यात् ॥ १०।३।१९ ॥
rātrau avaskandena jāgarayitvā nidrā-klāntān avasuptān vā divā hanyāt .. 10.3.19 ..
सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ॥ १०.३.२० ॥
स पाद-चर्म-कोशैः वा हस्तिभिः सौप्तिकम् दद्यात् ॥ १०।३।२० ॥
sa pāda-carma-kośaiḥ vā hastibhiḥ sauptikam dadyāt .. 10.3.20 ..
अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ॥ १०.३.२१ ॥
अहर्-सम्नाह-परिश्रान्तान् अपर-अह्ने अभिहन्यात् ॥ १०।३।२१ ॥
ahar-samnāha-pariśrāntān apara-ahne abhihanyāt .. 10.3.21 ..
शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ॥ १०.३.२२ ॥
शुष्क-चर्म-वृत्त-शर्कर-आकोशकैः गो-महिष-उष्ट्र-यूथैः वा त्रस्नुभिः अ कृत-हस्ति-अश्वम् भिन्नम् अ भिन्नः प्रतिनिवृत्तम् हन्यात् ॥ १०।३।२२ ॥
śuṣka-carma-vṛtta-śarkara-ākośakaiḥ go-mahiṣa-uṣṭra-yūthaiḥ vā trasnubhiḥ a kṛta-hasti-aśvam bhinnam a bhinnaḥ pratinivṛttam hanyāt .. 10.3.22 ..
प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ॥ १०.३.२३ ॥
प्रतिसूर्य वातम् वा सर्वम् अभिहन्यात् ॥ १०।३।२३ ॥
pratisūrya vātam vā sarvam abhihanyāt .. 10.3.23 ..
धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ॥ १०.३.२४ ॥
धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावः गावः शकट-व्यूहः नीहारः रात्रिः इति सत्त्राणि ॥ १०।३।२४ ॥
dhānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvaḥ gāvaḥ śakaṭa-vyūhaḥ nīhāraḥ rātriḥ iti sattrāṇi .. 10.3.24 ..
पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ॥ १०.३.२५ ॥
पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ॥ १०।३।२५ ॥
pūrve ca praharaṇa-kālāḥ kūṭa-yuddha-hetavaḥ .. 10.3.25 ..
संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ॥ १०.३.२६ ॥
संग्रामः तु निर्दिष्ट-देश-कालः धर्मिष्ठः ॥ १०।३।२६ ॥
saṃgrāmaḥ tu nirdiṣṭa-deśa-kālaḥ dharmiṣṭhaḥ .. 10.3.26 ..
संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ॥ १०.३.२७ ॥
संहत्य दण्डम् ब्रूयात्"तुल्य-वेतना अस्मि । भवद्भिः सह भोग्यम् इदम् राज्यम् । मया अभिहितैः परः अभिहन्तव्यः" इति ॥ १०।३।२७ ॥
saṃhatya daṇḍam brūyāt"tulya-vetanā asmi . bhavadbhiḥ saha bhogyam idam rājyam . mayā abhihitaiḥ paraḥ abhihantavyaḥ" iti .. 10.3.27 ..
वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ॥ १०.३.२८ ॥
वेदेषु अपि अनुश्रूयते समाप्त-दक्षिणानाम् यज्ञानाम् अवभृथेषु "सा ते गतिः या शूराणाम्" इति ॥ १०।३।२८ ॥
vedeṣu api anuśrūyate samāpta-dakṣiṇānām yajñānām avabhṛtheṣu "sā te gatiḥ yā śūrāṇām" iti .. 10.3.28 ..
अपिइह श्लोकौ भवतः ॥ १०.३.२९ ॥
अपि इह श्लोकौ भवतः ॥ १०।३।२९ ॥
api iha ślokau bhavataḥ .. 10.3.29 ..
यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ॥ १०.३.३०अ ब ॥
यान् यज्ञ-संघैः तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैः च यान्ति । ॥ १०।३।३०अ ब ॥
yān yajña-saṃghaiḥ tapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiḥ ca yānti . .. 10.3.30a ba ..
क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ॥ १०.३.३०च्द् ॥
क्षणेन तान् अपि अतियान्ति शूराः प्राणान् सु युद्धेषु परित्यजन्तः ॥ १०।३।३०च् ॥
kṣaṇena tān api atiyānti śūrāḥ prāṇān su yuddheṣu parityajantaḥ .. 10.3.30c ..
नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ॥ १०.३.३१अ ब ॥
नवम् शरावम् सलिलस्य पूर्णम् सु संस्कृतम् दर्भ-कृत-उत्तरीयम् । ॥ १०।३।३१अ ब ॥
navam śarāvam salilasya pūrṇam su saṃskṛtam darbha-kṛta-uttarīyam . .. 10.3.31a ba ..
तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ॥ १०.३.३१च्द् ॥
तत् तस्य मा भूत् नरकम् च गच्छेत् यः भर्तृ-पिण्डस्य कृते न युध्येत् इति ॥ १०।३।३१च् ॥
tat tasya mā bhūt narakam ca gacchet yaḥ bhartṛ-piṇḍasya kṛte na yudhyet iti .. 10.3.31c ..
मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ॥ १०.३.३२ ॥
मन्त्रि-पुरोहिताभ्याम् उत्साहयेत् योधान् व्यूह-सम्पदा ॥ १०।३।३२ ॥
mantri-purohitābhyām utsāhayet yodhān vyūha-sampadā .. 10.3.32 ..
कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ॥ १०.३.३३ ॥
कार्तान्तिक-आदिः च अस्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्याम् स्व-पक्षम् उद् हर्षयेत् । पर-पक्षम् च औद्वेजयेत् ॥ १०।३।३३ ॥
kārtāntika-ādiḥ ca asya vargaḥ sarvajña-daivata-samyoga-khyāpanābhyām sva-pakṣam ud harṣayet . para-pakṣam ca audvejayet .. 10.3.33 ..
श्वो युद्धम् इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ॥ १०.३.३४ ॥
श्वस् युद्धम् इति कृत-उपवासः शस्त्र-वाहनम् च अनुशयीत ॥ १०।३।३४ ॥
śvas yuddham iti kṛta-upavāsaḥ śastra-vāhanam ca anuśayīta .. 10.3.34 ..
अथर्वभिश्च जुहुयात् ॥ १०.३.३५ ॥
अथर्वभिः च जुहुयात् ॥ १०।३।३५ ॥
atharvabhiḥ ca juhuyāt .. 10.3.35 ..
विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ॥ १०.३.३६ ॥
विजय-युक्ताः स्वर्गीयाः च अशिषः वाचयेत् ॥ १०।३।३६ ॥
vijaya-yuktāḥ svargīyāḥ ca aśiṣaḥ vācayet .. 10.3.36 ..
ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ॥ १०.३.३७ ॥
ब्राह्मणेभ्यः च आत्मानम् अतिसृजेत् ॥ १०।३।३७ ॥
brāhmaṇebhyaḥ ca ātmānam atisṛjet .. 10.3.37 ..
शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ॥ १०.३.३८ ॥
शौर्य-शिल्प-अभिजन-अनुराग-युक्तम् अर्थ-मानाभ्याम् अविसंवादितम् अनीक-गर्भम् कुर्वीत ॥ १०।३।३८ ॥
śaurya-śilpa-abhijana-anurāga-yuktam artha-mānābhyām avisaṃvāditam anīka-garbham kurvīta .. 10.3.38 ..
पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ॥ १०.३.३९ ॥
पितृ-पुत्र-भ्रातृकाणाम् आयुधीयानाम् अध्वजम् मुण्ड-अनीकम् राज-स्थानम् ॥ १०।३।३९ ॥
pitṛ-putra-bhrātṛkāṇām āyudhīyānām adhvajam muṇḍa-anīkam rāja-sthānam .. 10.3.39 ..
हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ॥ १०.३.४० ॥
हस्ती रथः वा राज-वाहनम् अश्व-अनुबन्धः ॥ १०।३।४० ॥
hastī rathaḥ vā rāja-vāhanam aśva-anubandhaḥ .. 10.3.40 ..
यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ॥ १०.३.४१ ॥
यद्-प्राय-सैन्यः यत्र वा विनीतः स्यात्(अद् अधिरोहयेत् ॥ १०।३।४१ ॥
yad-prāya-sainyaḥ yatra vā vinītaḥ syāt(ad adhirohayet .. 10.3.41 ..
राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ॥ १०.३.४२ ॥
राज-व्यञ्जनः व्यूह-अधिष्ठानम् आयोज्यः ॥ १०।३।४२ ॥
rāja-vyañjanaḥ vyūha-adhiṣṭhānam āyojyaḥ .. 10.3.42 ..
सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ॥ १०.३.४३ ॥
सूत-मागधाः शूराणाम् स्वर्गम् अ स्वर्गम् भीरूणाम् जाति-संघ-कुल-कर्म-वृत्त-स्तवम् च योधानाम् वर्णयेयुः ॥ १०।३।४३ ॥
sūta-māgadhāḥ śūrāṇām svargam a svargam bhīrūṇām jāti-saṃgha-kula-karma-vṛtta-stavam ca yodhānām varṇayeyuḥ .. 10.3.43 ..
पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ॥ १०.३.४४ ॥
पुरोहित-पुरुषाः कृत्य-अभिचारम् ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिम् असिद्धिम् परेषाम् ॥ १०।३।४४ ॥
purohita-puruṣāḥ kṛtya-abhicāram brūyuḥ . yantrika-vardhaki-mauhūrtikāḥ sva-karma-siddhim asiddhim pareṣām .. 10.3.44 ..
सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ॥ १०.३.४५ ॥
सेना-पतिः अर्थ-मानाभ्याम् अभिसंस्कृतम् अनीकम् आभाषेत "शत-साहस्रः राज-वधः । पञ्चाशत्-साहस्रः सेनापति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रः हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरः विंशतिकम् भोग-द्वैगुण्यम् स्वयम् ग्राहः च" इति ॥ १०।३।४५ ॥
senā-patiḥ artha-mānābhyām abhisaṃskṛtam anīkam ābhāṣeta "śata-sāhasraḥ rāja-vadhaḥ . pañcāśat-sāhasraḥ senāpati-kumāra-vadhaḥ . daśa-sāhasraḥ pravīra-mukhya-vadhaḥ . pañca-sāhasraḥ hasti-ratha-vadhaḥ . sāhasroaśva-vadhaḥ . śatyaḥ patti-mukhya-vadhaḥ . śiraḥ viṃśatikam bhoga-dvaiguṇyam svayam grāhaḥ ca" iti .. 10.3.45 ..
तदेषां दश-वर्ग-अधिपतयो विद्युः ॥ १०.३.४६ ॥
तत् एषाम् दश-वर्ग-अधिपतयः विद्युः ॥ १०।३।४६ ॥
tat eṣām daśa-varga-adhipatayaḥ vidyuḥ .. 10.3.46 ..
चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ॥ १०.३.४७ ॥
चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियः च अन्न-पान-रक्षिण्यः पुरुषाणाम् उद्धर्षणीयाः पृष्ठतस् तिष्ठेयुः ॥ १०।३।४७ ॥
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaḥ ca anna-pāna-rakṣiṇyaḥ puruṣāṇām uddharṣaṇīyāḥ pṛṣṭhatas tiṣṭheyuḥ .. 10.3.47 ..
अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ॥ १०.३.४८ ॥
अदक्षिणा-मुखम् पृष्ठतस् सूर्यम् अनुलोम-वातम् अनीकम् स्व-भूमौ व्यूहेत ॥ १०।३।४८ ॥
adakṣiṇā-mukham pṛṣṭhatas sūryam anuloma-vātam anīkam sva-bhūmau vyūheta .. 10.3.48 ..
पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ॥ १०.३.४९ ॥
पर-भूमि-व्यूहे च अश्वान् चारयेयुः ॥ १०।३।४९ ॥
para-bhūmi-vyūhe ca aśvān cārayeyuḥ .. 10.3.49 ..
यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ॥ १०.३.५० ॥
यत्र स्थानम् प्रजवः च अभूमिः व्यूहस्य तत्र स्थितः प्रजवितः च उभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ॥ १०।३।५० ॥
yatra sthānam prajavaḥ ca abhūmiḥ vyūhasya tatra sthitaḥ prajavitaḥ ca ubhayathā jīyeta viparyaye jayati . ubhayathā sthāne prajave ca .. 10.3.50 ..
समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ॥ १०.३.५२ ॥
समा विषमा व्यामिश्रा वा भूमिः इति पुरस्तात् पार्श्वाभ्याम् पश्चात् च ज्ञेया ॥ १०।३।५२ ॥
samā viṣamā vyāmiśrā vā bhūmiḥ iti purastāt pārśvābhyām paścāt ca jñeyā .. 10.3.52 ..
समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ॥ १०.३.५३ ॥
समायाम् दण्ड-मण्डल-व्यूहाः । विषमायाम् भोग-असंहत-व्यूहाः । व्यामिश्रायाम् विषम-व्यूहाः ॥ १०।३।५३ ॥
samāyām daṇḍa-maṇḍala-vyūhāḥ . viṣamāyām bhoga-asaṃhata-vyūhāḥ . vyāmiśrāyām viṣama-vyūhāḥ .. 10.3.53 ..
विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ॥ १०.३.५४ ॥
विशिष्ट-बलम् भङ्क्त्वा संधिम् याचेत ॥ १०।३।५४ ॥
viśiṣṭa-balam bhaṅktvā saṃdhim yāceta .. 10.3.54 ..
सम-बलेन याचितः संदधीत ॥ १०.३.५५ ॥
सम-बलेन याचितः संदधीत ॥ १०।३।५५ ॥
sama-balena yācitaḥ saṃdadhīta .. 10.3.55 ..
हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ॥ १०.३.५६ ॥
हीनम् अनुहन्यात् । न तु एव स्व-भूमि-प्राप्तम् त्यक्त-आत्मानम् वा ॥ १०।३।५६ ॥
hīnam anuhanyāt . na tu eva sva-bhūmi-prāptam tyakta-ātmānam vā .. 10.3.56 ..
पुनर्-आवर्तमानस्य निराशस्य च जीविते । ॥ १०.३.५७अ ब ॥
पुनर् आवर्तमानस्य निराशस्य च जीविते । ॥ १०।३।५७अ ब ॥
punar āvartamānasya nirāśasya ca jīvite . .. 10.3.57a ba ..
अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ॥ १०.३.५७च्द् ॥
अधार्यः जायते वेगः तस्मात् भग्नम् न पीडयेत् ॥ १०।३।५७च् ॥
adhāryaḥ jāyate vegaḥ tasmāt bhagnam na pīḍayet .. 10.3.57c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In