| |
|

This overlay will guide you through the buttons:

पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ॥ १०.५.०१ ॥
पञ्च-धनुः-शत-अपकृष्टम् दुर्गम् अवस्थाप्य युद्धम् उपेयात् । भूमि-वशेन वा ॥ १०।५।०१ ॥
pañca-dhanuḥ-śata-apakṛṣṭam durgam avasthāpya yuddham upeyāt . bhūmi-vaśena vā .. 10.5.01 ..
विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ॥ १०.५.०२ ॥
विभक्त-मुख्याम् अ चक्षुः-विषये मोक्षयित्वा सेनाम् सेनापति-नायकौ व्यूहेयाताम् ॥ १०।५।०२ ॥
vibhakta-mukhyām a cakṣuḥ-viṣaye mokṣayitvā senām senāpati-nāyakau vyūheyātām .. 10.5.02 ..
शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ॥ १०.५.०३ ॥
शम-अन्तरम् पत्तिम् स्थापयेत् । त्रि-शम-अन्तरम् अश्वम् । पञ्च-शम-अन्तरम् रथम् हस्तिनम् वा ॥ १०।५।०३ ॥
śama-antaram pattim sthāpayet . tri-śama-antaram aśvam . pañca-śama-antaram ratham hastinam vā .. 10.5.03 ..
द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ॥ १०.५.०४ ॥
द्वि-गुण-अन्तरम् त्रि-गुण-अन्तरम् वा व्यूहेत ॥ १०।५।०४ ॥
dvi-guṇa-antaram tri-guṇa-antaram vā vyūheta .. 10.5.04 ..
एवं यथा-सुखं असम्बाधं युध्येत ॥ १०.५.०५ ॥
एवम् यथा सुखम् असंबाधम् युध्येत ॥ १०।५।०५ ॥
evam yathā sukham asaṃbādham yudhyeta .. 10.5.05 ..
पञ्च-अरत्नि धनुः ॥ १०.५.०६ ॥
पञ्च-अरत्नि धनुः ॥ १०।५।०६ ॥
pañca-aratni dhanuḥ .. 10.5.06 ..
तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ॥ १०.५.०७ ॥
तस्मिन् धन्विनम् स्थापयेत् । त्रि-धनुषि अश्वम् । पञ्च-धनुषि रथम् हस्तिनम् वा ॥ १०।५।०७ ॥
tasmin dhanvinam sthāpayet . tri-dhanuṣi aśvam . pañca-dhanuṣi ratham hastinam vā .. 10.5.07 ..
पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ॥ १०.५.०८ ॥
पञ्च-धनुः-अनीक-संधिः पक्ष-कक्ष-उरस्यानाम् ॥ १०।५।०८ ॥
pañca-dhanuḥ-anīka-saṃdhiḥ pakṣa-kakṣa-urasyānām .. 10.5.08 ..
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥ १०.५.०९ ॥
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥ १०।५।०९ ॥
aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ .. 10.5.09 ..
पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ॥ १०.५.१० ॥
पञ्च दश रथस्य हस्तिनः वा । पञ्च च अश्वाः ॥ १०।५।१० ॥
pañca daśa rathasya hastinaḥ vā . pañca ca aśvāḥ .. 10.5.10 ..
तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ॥ १०.५.११ ॥
तावन्तः पाद-गोपाः वाजि-रथ-द्विपानाम् विधेयाः ॥ १०।५।११ ॥
tāvantaḥ pāda-gopāḥ vāji-ratha-dvipānām vidheyāḥ .. 10.5.11 ..
त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ॥ १०.५.१२ ॥
त्रीणि त्रिकाणि अनीकम् रथानाम् उरस्यम् स्थापयेत् । तावत्-कक्षम् पक्षम् च उभयतस् ॥ १०।५।१२ ॥
trīṇi trikāṇi anīkam rathānām urasyam sthāpayet . tāvat-kakṣam pakṣam ca ubhayatas .. 10.5.12 ..
पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ॥ १०.५.१३ ॥
पञ्च-चत्वारिंशत् एवम् रथाः रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिः च अश्वाः । षट् शतानि पञ्च-सप्ततिः च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ॥ १०।५।१३ ॥
pañca-catvāriṃśat evam rathāḥ ratha-vyūhe bhavanti . dve śate pañca-viṃśatiḥ ca aśvāḥ . ṣaṭ śatāni pañca-saptatiḥ ca puruṣāḥ pratiyodhāraḥ . tāvantaḥ pāda-gopāḥ .. 10.5.13 ..
एष सम-व्यूहः ॥ १०.५.१४ ॥
एष सम-व्यूहः ॥ १०।५।१४ ॥
eṣa sama-vyūhaḥ .. 10.5.14 ..
तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ॥ १०.५.१५ ॥
तस्य द्वि-रथ-उत्तरा वृद्धिः आ एकविंशति-रथात् इति ॥ १०।५।१५ ॥
tasya dvi-ratha-uttarā vṛddhiḥ ā ekaviṃśati-rathāt iti .. 10.5.15 ..
एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ॥ १०.५.१६ ॥
एवम् ओजाः दश सम-व्यूह-प्रकृतयः भवन्ति ॥ १०।५।१६ ॥
evam ojāḥ daśa sama-vyūha-prakṛtayaḥ bhavanti .. 10.5.16 ..
पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ॥ १०.५.१७ ॥
पक्ष-कक्ष-उरस्यानाम् मिथस् विषम-संख्याने विषम-व्यूहः ॥ १०।५।१७ ॥
pakṣa-kakṣa-urasyānām mithas viṣama-saṃkhyāne viṣama-vyūhaḥ .. 10.5.17 ..
तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ॥ १०.५.१८ ॥
तस्य अपि द्वि-रथौत्तरा वृद्धिः आ एक-विंशति-रथात् इति ॥ १०।५।१८ ॥
tasya api dvi-rathauttarā vṛddhiḥ ā eka-viṃśati-rathāt iti .. 10.5.18 ..
एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ॥ १०.५.१९ ॥
एवम् ओजाः दश विषम-व्यूह-प्रकृतयः भवन्ति ॥ १०।५।१९ ॥
evam ojāḥ daśa viṣama-vyūha-prakṛtayaḥ bhavanti .. 10.5.19 ..
अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ॥ १०.५.२० ॥
अतस् सैन्यानाम् व्यूह-शेषम् आवापः कार्यः ॥ १०।५।२० ॥
atas sainyānām vyūha-śeṣam āvāpaḥ kāryaḥ .. 10.5.20 ..
रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ॥ १०.५.२१ ॥
रथानाम् द्वौ त्रि-भागौ अङ्गेषु आवापयेत् । शेषम् उरस्यम् स्थापयेत् ॥ १०।५।२१ ॥
rathānām dvau tri-bhāgau aṅgeṣu āvāpayet . śeṣam urasyam sthāpayet .. 10.5.21 ..
एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ॥ १०.५.२२ ॥
एवम् त्रि-भाग-ऊनः रथानाम् आवापः कार्यः ॥ १०।५।२२ ॥
evam tri-bhāga-ūnaḥ rathānām āvāpaḥ kāryaḥ .. 10.5.22 ..
तेन हस्तिनां अश्वानां आवापो व्याख्यातः ॥ १०.५.२३ ॥
तेन हस्तिनाम् अश्वानाम् आवापः व्याख्यातः ॥ १०।५।२३ ॥
tena hastinām aśvānām āvāpaḥ vyākhyātaḥ .. 10.5.23 ..
यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ॥ १०.५.२४ ॥
यावत् अश्व-रथ-द्विपानाम् युद्ध-सम्बाधनम् न कुर्यात् तावत् आवापः कार्यः ॥ १०।५।२४ ॥
yāvat aśva-ratha-dvipānām yuddha-sambādhanam na kuryāt tāvat āvāpaḥ kāryaḥ .. 10.5.24 ..
दण्ड-बाहुल्यं आवापः ॥ १०.५.२५ ॥
दण्ड-बाहुल्यम् आवापः ॥ १०।५।२५ ॥
daṇḍa-bāhulyam āvāpaḥ .. 10.5.25 ..
पत्ति-बाहुल्यं प्रत्यापावः ॥ १०.५.२६ ॥
पत्ति-बाहुल्यम् प्रत्यापावः ॥ १०।५।२६ ॥
patti-bāhulyam pratyāpāvaḥ .. 10.5.26 ..
एक-अङ्ग-बाहुल्यं अन्वावापः ॥ १०.५.२७ ॥
एक-अङ्ग-बाहुल्यम् अन्वावापः ॥ १०।५।२७ ॥
eka-aṅga-bāhulyam anvāvāpaḥ .. 10.5.27 ..
दूष्य-बाहुल्यं अत्यावापः ॥ १०.५.२८ ॥
दूष्य-बाहुल्यम् अत्यावापः ॥ १०।५।२८ ॥
dūṣya-bāhulyam atyāvāpaḥ .. 10.5.28 ..
पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ॥ १०.५.२९ ॥
पर-आवापात् प्रत्यावापात् च चतुर्-गुणात् आ अष्ट-गुणात् इति वा विभवतः सैन्यानाम् आवापः ॥ १०।५।२९ ॥
para-āvāpāt pratyāvāpāt ca catur-guṇāt ā aṣṭa-guṇāt iti vā vibhavataḥ sainyānām āvāpaḥ .. 10.5.29 ..
रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ॥ १०.५.३० ॥
रथ-व्यूहेन हस्ति-व्यूहः व्याख्यातः ॥ १०।५।३० ॥
ratha-vyūhena hasti-vyūhaḥ vyākhyātaḥ .. 10.5.30 ..
व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ॥ १०.५.३१ ॥
व्यामिश्रः वा हस्ति-रथ-अश्वानाम् चक्र-अन्तेषु हस्तिनः पार्श्वयोः अश्वाः रथाः उरस्ये ॥ १०।५।३१ ॥
vyāmiśraḥ vā hasti-ratha-aśvānām cakra-anteṣu hastinaḥ pārśvayoḥ aśvāḥ rathāḥ urasye .. 10.5.31 ..
हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ॥ १०.५.३२ ॥
हस्तिनाम् उरस्यम् रथानाम् कक्षौ अश्वानाम् पक्षौ इति मध्य-भेदी ॥ १०।५।३२ ॥
hastinām urasyam rathānām kakṣau aśvānām pakṣau iti madhya-bhedī .. 10.5.32 ..
विपरीतोअन्त-भेदी ॥ १०.५.३३ ॥
विपरीत-ऊअन्त-भेदी ॥ १०।५।३३ ॥
viparīta-ūanta-bhedī .. 10.5.33 ..
हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ॥ १०.५.३४ ॥
हस्तिनाम् एव तु शुद्धः साम्नाह्यानाम् उरस्यम् औपवाह्यानाम् जघनम् व्यालानाम् कोट्यौ इति ॥ १०।५।३४ ॥
hastinām eva tu śuddhaḥ sāmnāhyānām urasyam aupavāhyānām jaghanam vyālānām koṭyau iti .. 10.5.34 ..
अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ॥ १०.५.३५ ॥
अश्व-व्यूहः वर्मिणाम् उरस्यम् शुद्धानाम् कक्ष-पक्षौ इति ॥ १०।५।३५ ॥
aśva-vyūhaḥ varmiṇām urasyam śuddhānām kakṣa-pakṣau iti .. 10.5.35 ..
पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ॥ १०.५.३६ ॥
पत्ति-व्यूहः पुरस्तात् आवरणिनः पृष्ठतस् धन्विनः ॥ १०।५।३६ ॥
patti-vyūhaḥ purastāt āvaraṇinaḥ pṛṣṭhatas dhanvinaḥ .. 10.5.36 ..
इति शुद्धाः ॥ १०.५.३७ ॥
इति शुद्धाः ॥ १०।५।३७ ॥
iti śuddhāḥ .. 10.5.37 ..
पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ॥ १०.५.३८ ॥
पत्तयः पक्षयोः अश्वाः पार्श्वयोः हस्तिनः पृष्ठतस् रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ॥ १०।५।३८ ॥
pattayaḥ pakṣayoḥ aśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhatas rathāḥ purastāt . para-vyūha-vaśena vā viparyāsaḥ .. 10.5.38 ..
इति द्व्य्-अङ्ग-बल-विभागः ॥ १०.५.३९ ॥
इति द्वि-अङ्ग-बल-विभागः ॥ १०।५।३९ ॥
iti dvi-aṅga-bala-vibhāgaḥ .. 10.5.39 ..
तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ॥ १०.५.४० ॥
तेन त्र्-अङ्ग-बल-विभागः व्याख्यातः ॥ १०।५।४० ॥
tena tr-aṅga-bala-vibhāgaḥ vyākhyātaḥ .. 10.5.40 ..
दण्ड-सम्पत्सार-बलं पुंसां ॥ १०.५.४१ ॥
दण्ड-सम्पद्-सार-बलम् पुंसाम् ॥ १०।५।४१ ॥
daṇḍa-sampad-sāra-balam puṃsām .. 10.5.41 ..
हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ॥ १०.५.४२ ॥
हस्ति-अश्वयोः विशेषः कुलम् जातिः सत्त्वम् वयः-स्थ-ता प्राणः वर्ष्म जवः तेजः शिल्पम् स्तैर्यम् उदग्र-ता विधेय-त्वम् सु व्यञ्जन-आचार-ता इति ॥ १०।५।४२ ॥
hasti-aśvayoḥ viśeṣaḥ kulam jātiḥ sattvam vayaḥ-stha-tā prāṇaḥ varṣma javaḥ tejaḥ śilpam stairyam udagra-tā vidheya-tvam su vyañjana-ācāra-tā iti .. 10.5.42 ..
पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ॥ १०.५.४३ ॥
पत्ति-अश्व-रथ-द्विपानाम् सार-त्रि-भागम् उरस्यम् स्थापयेत् । द्वौ त्रि-भागौ कक्षम् पक्षम् च उभयतस् । अनुलोमम् अनुसारम् । प्रतिलोमम् तृतीय-सारम् । फल्गु प्रतिलोमम् ॥ १०।५।४३ ॥
patti-aśva-ratha-dvipānām sāra-tri-bhāgam urasyam sthāpayet . dvau tri-bhāgau kakṣam pakṣam ca ubhayatas . anulomam anusāram . pratilomam tṛtīya-sāram . phalgu pratilomam .. 10.5.43 ..
एवं सर्वं उपयोगं गमयेत् ॥ १०.५.४४ ॥
एवम् सर्वम् उपयोगम् गमयेत् ॥ १०।५।४४ ॥
evam sarvam upayogam gamayet .. 10.5.44 ..
फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ॥ १०.५.४५ ॥
फल्गु-बलम् अन्तेषु अवधाय वेग-अभिहूलिकः भवति ॥ १०।५।४५ ॥
phalgu-balam anteṣu avadhāya vega-abhihūlikaḥ bhavati .. 10.5.45 ..
सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ॥ १०.५.४६ ॥
सार-बलम् अग्रतस् कृत्वा कोटीषु अनुसारम् कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलम् ॥ १०।५।४६ ॥
sāra-balam agratas kṛtvā koṭīṣu anusāram kuryāt . jaghane tṛtiyiya-sāram . madhye phalgu-balam .. 10.5.46 ..
एवं एतत्सहिष्णु भवति ॥ १०.५.४७ ॥
एवम् एतत् सहिष्णु भवति ॥ १०।५।४७ ॥
evam etat sahiṣṇu bhavati .. 10.5.47 ..
व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ॥ १०.५.४८ ॥
व्यूहम् तु स्थापयित्वा पक्ष-कक्ष-उरस्यानाम् एकेन द्वाभ्याम् वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ॥ १०।५।४८ ॥
vyūham tu sthāpayitvā pakṣa-kakṣa-urasyānām ekena dvābhyām vā praharet . śeṣaiḥ pratigṛhṇīyāt .. 10.5.48 ..
यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ॥ १०.५.४९ ॥
यद्-परस्य दुर्बलम् वीत-हस्ति-अश्वम् दूष्य-अमात्यम् कृत-उपजापम् वा तद्-प्रभूत-सारेण अभिहन्यात् ॥ १०।५।४९ ॥
yad-parasya durbalam vīta-hasti-aśvam dūṣya-amātyam kṛta-upajāpam vā tad-prabhūta-sāreṇa abhihanyāt .. 10.5.49 ..
यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ॥ १०.५.५० ॥
यत् वा परस्य सारिष्ठम् तद्-द्वि-गुण-सारेण अभिहन्यात् ॥ १०।५।५० ॥
yat vā parasya sāriṣṭham tad-dvi-guṇa-sāreṇa abhihanyāt .. 10.5.50 ..
यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ॥ १०.५.५१ ॥
यत् अङ्गम् अल्प-सारम् आत्मनः तत् बहुना उपचिनुयात् ॥ १०।५।५१ ॥
yat aṅgam alpa-sāram ātmanaḥ tat bahunā upacinuyāt .. 10.5.51 ..
यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ॥ १०.५.५२ ॥
यतस् परस्य अपचयः ततस् अभ्याशे व्यूहेत । यतस् उ त्वा भयम् स्यात् ॥ १०।५।५२ ॥
yatas parasya apacayaḥ tatas abhyāśe vyūheta . yatas u tvā bhayam syāt .. 10.5.52 ..
अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ॥ १०.५.५३ ॥
अभिसृतम् परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य-अवधानम् वलयः गो-मूत्रिकाः मण्डलम् प्रकीर्णिका व्यावृत्त-पृष्ठम् अनुवंशम् अग्रतस् पार्श्वाभ्याम् पृष्ठतस् भग्न-रक्षा भग्न-अनुपातः इति अश्व-युद्धानि ॥ १०।५।५३ ॥
abhisṛtam parisṛtam atisṛtam apasṛtam unmathya-avadhānam valayaḥ go-mūtrikāḥ maṇḍalam prakīrṇikā vyāvṛtta-pṛṣṭham anuvaṃśam agratas pārśvābhyām pṛṣṭhatas bhagna-rakṣā bhagna-anupātaḥ iti aśva-yuddhāni .. 10.5.53 ..
प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ॥ १०.५.५४ ॥
प्रकीर्णिक-आवर्जानि एतानि एव चतुर्णाम् अङ्गानाम् व्यस्त-समस्तानाम् वा घातः । पक्ष-कक्ष-उरस्यानाम् च प्रभञ्जनम् अवस्कन्दः सौप्तिकम् च एति हसित्-युद्धानि ॥ १०।५।५४ ॥
prakīrṇika-āvarjāni etāni eva caturṇām aṅgānām vyasta-samastānām vā ghātaḥ . pakṣa-kakṣa-urasyānām ca prabhañjanam avaskandaḥ sauptikam ca eti hasit-yuddhāni .. 10.5.54 ..
उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ॥ १०.५.५५ ॥
उन्मथ्य-अवधान-वर्जानि एतानि एव स्व-भूमौ अभियान-अपयान-स्थित-युद्धानि इति रथ-युद्धानि ॥ १०।५।५५ ॥
unmathya-avadhāna-varjāni etāni eva sva-bhūmau abhiyāna-apayāna-sthita-yuddhāni iti ratha-yuddhāni .. 10.5.55 ..
सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ॥ १०.५.५६ ॥
सर्व-देश-काल-प्रहरणम् उपांशु दण्डः च एति पत्ति-युद्धानि ॥ १०।५।५६ ॥
sarva-deśa-kāla-praharaṇam upāṃśu daṇḍaḥ ca eti patti-yuddhāni .. 10.5.56 ..
एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ॥ १०.५.५७अ ब ॥
एतेन विधिना व्यूह-अनोजान् युग्मान् च कारयेत् । ॥ १०।५।५७अ ब ॥
etena vidhinā vyūha-anojān yugmān ca kārayet . .. 10.5.57a ba ..
विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ॥ १०.५.५७च्द् ॥
विभवः यावत् अङ्गानाम् चतुर्णाम् सदृशः भवेत् ॥ १०।५।५७च् ॥
vibhavaḥ yāvat aṅgānām caturṇām sadṛśaḥ bhavet .. 10.5.57c ..
द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ॥ १०.५.५८अ ब ॥
द्वे शते धनुषाम् गत्वा राजा तिष्ठेत् प्रतिग्रहे । ॥ १०।५।५८अ ब ॥
dve śate dhanuṣām gatvā rājā tiṣṭhet pratigrahe . .. 10.5.58a ba ..
भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ॥ १०.५.५८च्द् ॥
भिन्न-संघातनम् तस्मात् न युध्येत अ प्रतिग्रहः ॥ १०।५।५८च् ॥
bhinna-saṃghātanam tasmāt na yudhyeta a pratigrahaḥ .. 10.5.58c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In