| |
|

This overlay will guide you through the buttons:

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ॥ १०.६.०१ ॥
पक्षौ उरस्यम् प्रतिग्रहः इति औशनसः व्यूह-विभागः ॥ १०।६।०१ ॥
pakṣau urasyam pratigrahaḥ iti auśanasaḥ vyūha-vibhāgaḥ .. 10.6.01 ..
पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ॥ १०.६.०२ ॥
पक्षौ कक्षौ उरस्यम् प्रतिग्रहः इति बार्हस्प्त्यः ॥ १०।६।०२ ॥
pakṣau kakṣau urasyam pratigrahaḥ iti bārhasptyaḥ .. 10.6.02 ..
प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ॥ १०.६.०३ ॥
प्रपक्ष-कक्ष-उरस्याः उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ॥ १०।६।०३ ॥
prapakṣa-kakṣa-urasyāḥ ubhayoḥ daṇḍa-bhoga-maṇḍala-asaṃhatāḥ prakṛti-vyūhāḥ .. 10.6.03 ..
तत्र तिर्यग्-वृत्तिर्दण्डः ॥ १०.६.०४ ॥
तत्र तिर्यक्-वृत्तिः दण्डः ॥ १०।६।०४ ॥
tatra tiryak-vṛttiḥ daṇḍaḥ .. 10.6.04 ..
समस्तानां अन्वावृत्तिर्भोगः ॥ १०.६.०५ ॥
समस्तानाम् अन्वावृत्तिः भोगः ॥ १०।६।०५ ॥
samastānām anvāvṛttiḥ bhogaḥ .. 10.6.05 ..
सरतां सर्वतो-वृत्तिर्मण्डलः ॥ १०.६.०६ ॥
सरताम् सर्वतस् वृत्तिः मण्डलः ॥ १०।६।०६ ॥
saratām sarvatas vṛttiḥ maṇḍalaḥ .. 10.6.06 ..
स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ॥ १०.६.०७ ॥
स्थितानाम् पृथक् अनीक-वृत्तिः असंहतः ॥ १०।६।०७ ॥
sthitānām pṛthak anīka-vṛttiḥ asaṃhataḥ .. 10.6.07 ..
पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ॥ १०.६.०८ ॥
पक्ष-कक्ष-उरस्यैः समम् वर्तमानः दण्डः ॥ १०।६।०८ ॥
pakṣa-kakṣa-urasyaiḥ samam vartamānaḥ daṇḍaḥ .. 10.6.08 ..
स कक्ष-अतिक्रान्तः प्रदरः ॥ १०.६.०९ ॥
स कक्ष-अतिक्रान्तः प्रदरः ॥ १०।६।०९ ॥
sa kakṣa-atikrāntaḥ pradaraḥ .. 10.6.09 ..
स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥ १०.६.१० ॥
सः एव पक्ष-कक्षाभ्याम् प्रतिक्रान्तः दृढकः ॥ १०।६।१० ॥
saḥ eva pakṣa-kakṣābhyām pratikrāntaḥ dṛḍhakaḥ .. 10.6.10 ..
स एवातिक्रान्तः पक्षाभ्यां असह्यः ॥ १०.६.११ ॥
सः एव अतिक्रान्तः पक्षाभ्याम् असह्यः ॥ १०।६।११ ॥
saḥ eva atikrāntaḥ pakṣābhyām asahyaḥ .. 10.6.11 ..
पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ॥ १०.६.१२ ॥
पक्षौ अवस्थाप्य औरस्य अतिक्रान्तः श्येनः ॥ १०।६।१२ ॥
pakṣau avasthāpya aurasya atikrāntaḥ śyenaḥ .. 10.6.12 ..
विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ॥ १०.६.१३ ॥
विपर्यये चापम् चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठः च ॥ १०।६।१३ ॥
viparyaye cāpam cāpa-kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaḥ ca .. 10.6.13 ..
चाप-पक्षः संजयः ॥ १०.६.१४ ॥
चाप-पक्षः संजयः ॥ १०।६।१४ ॥
cāpa-pakṣaḥ saṃjayaḥ .. 10.6.14 ..
स एवौरस्य-अतिक्रान्तो विजयः ॥ १०.६.१५ ॥
सः एव औरस्य अतिक्रान्तः विजयः ॥ १०।६।१५ ॥
saḥ eva aurasya atikrāntaḥ vijayaḥ .. 10.6.15 ..
स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ॥ १०.६.१६ ॥
स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ॥ १०।६।१६ ॥
sthūla-karṇa-pakṣaḥ sthūṇa-akarṇaḥ .. 10.6.16 ..
द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ॥ १०.६.१७ ॥
द्वि-गुण-पक्ष-स्थूणः विशाल-विजयः ॥ १०।६।१७ ॥
dvi-guṇa-pakṣa-sthūṇaḥ viśāla-vijayaḥ .. 10.6.17 ..
त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ॥ १०.६.१८ ॥
त्रि-अभिक्रान्त-पक्षः चमू-मुखः ॥ १०।६।१८ ॥
tri-abhikrānta-pakṣaḥ camū-mukhaḥ .. 10.6.18 ..
विपर्यये झष-आस्यः ॥ १०.६.१९ ॥
विपर्यये झष-आस्यः ॥ १०।६।१९ ॥
viparyaye jhaṣa-āsyaḥ .. 10.6.19 ..
ऊर्ध्व-राजिर्दण्डः सूची ॥ १०.६.२० ॥
ऊर्ध्व-राजिः दण्डः सूची ॥ १०।६।२० ॥
ūrdhva-rājiḥ daṇḍaḥ sūcī .. 10.6.20 ..
द्वौ दण्डौ वलयः ॥ १०.६.२१ ॥
द्वौ दण्डौ वलयः ॥ १०।६।२१ ॥
dvau daṇḍau valayaḥ .. 10.6.21 ..
चत्वारो दुर्जयः ॥ १०.६.२२ ॥
चत्वारः दुर्जयः ॥ १०।६।२२ ॥
catvāraḥ durjayaḥ .. 10.6.22 ..
इति दण्ड-व्यूहाः ॥ १०.६.२३ ॥
इति दण्ड-व्यूहाः ॥ १०।६।२३ ॥
iti daṇḍa-vyūhāḥ .. 10.6.23 ..
पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ॥ १०.६.२४ ॥
पक्ष-कक्ष-उरस्यैः विषमम् वर्तमानः भोगः ॥ १०।६।२४ ॥
pakṣa-kakṣa-urasyaiḥ viṣamam vartamānaḥ bhogaḥ .. 10.6.24 ..
स सर्प-सारी गो-मूत्रिका वा ॥ १०.६.२५ ॥
स सर्प-सारी गो-मूत्रिका वा ॥ १०।६।२५ ॥
sa sarpa-sārī go-mūtrikā vā .. 10.6.25 ..
स युग्म-उरस्यो दण्ड-पक्षः शकटः ॥ १०.६.२६ ॥
स युग्म-उरस्यः दण्ड-पक्षः शकटः ॥ १०।६।२६ ॥
sa yugma-urasyaḥ daṇḍa-pakṣaḥ śakaṭaḥ .. 10.6.26 ..
विपर्यये मकरः ॥ १०.६.२७ ॥
विपर्यये मकरः ॥ १०।६।२७ ॥
viparyaye makaraḥ .. 10.6.27 ..
हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ॥ १०.६.२८ ॥
हस्ति-अश्व-रथैः व्यतिकीर्णः शकटः पारिपतन्तकः ॥ १०।६।२८ ॥
hasti-aśva-rathaiḥ vyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ .. 10.6.28 ..
इति भोग-व्यूहाः ॥ १०.६.२९ ॥
इति भोग-व्यूहाः ॥ १०।६।२९ ॥
iti bhoga-vyūhāḥ .. 10.6.29 ..
पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ॥ १०.६.३० ॥
पक्ष-कक्ष-उरस्यानाम् एकीभावे मण्डलः ॥ १०।६।३० ॥
pakṣa-kakṣa-urasyānām ekībhāve maṇḍalaḥ .. 10.6.30 ..
स सर्वतो-मुखः सर्वतो-भद्रः ॥ १०.६.३१ ॥
स सर्वतस् मुखः सर्वतस् भद्रः ॥ १०।६।३१ ॥
sa sarvatas mukhaḥ sarvatas bhadraḥ .. 10.6.31 ..
अष्ट-अनीको दुर्जयः ॥ १०.६.३२ ॥
अष्ट-अनीकः दुर्जयः ॥ १०।६।३२ ॥
aṣṭa-anīkaḥ durjayaḥ .. 10.6.32 ..
इति मण्डल-व्यूहाः ॥ १०.६.३३ ॥
इति मण्डल-व्यूहाः ॥ १०।६।३३ ॥
iti maṇḍala-vyūhāḥ .. 10.6.33 ..
पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ॥ १०.६.३४ ॥
पक्ष-कक्ष-उरस्यानाम् असंहतात् असंहतः ॥ १०।६।३४ ॥
pakṣa-kakṣa-urasyānām asaṃhatāt asaṃhataḥ .. 10.6.34 ..
स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ॥ १०.६.३५ ॥
स पञ्च-अनीकानाम् आकृति-स्थापनात् वज्रः गोधा वा ॥ १०।६।३५ ॥
sa pañca-anīkānām ākṛti-sthāpanāt vajraḥ godhā vā .. 10.6.35 ..
चतुर्णां उद्धानकः काकपदी वा ॥ १०.६.३६ ॥
चतुर्णाम् उद्धानकः काकपदी वा ॥ १०।६।३६ ॥
caturṇām uddhānakaḥ kākapadī vā .. 10.6.36 ..
त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ॥ १०.६.३७ ॥
त्रयाणाम् अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ॥ १०।६।३७ ॥
trayāṇām ardha-candrakaḥ karkaṭaka-śṛṅgī vā .. 10.6.37 ..
इत्यसंहत-व्यूहाः ॥ १०.६.३८ ॥
इति असंहत-व्यूहाः ॥ १०।६।३८ ॥
iti asaṃhata-vyūhāḥ .. 10.6.38 ..
रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ॥ १०.६.३९ ॥
रथ-उरस्यः हस्ति-कक्षः अश्व-पृष्ठः अरिष्टः ॥ १०।६।३९ ॥
ratha-urasyaḥ hasti-kakṣaḥ aśva-pṛṣṭhaḥ ariṣṭaḥ .. 10.6.39 ..
पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ॥ १०.६.४० ॥
पत्तयः अश्वाः रथाः हस्तिनः च अनु पृष्ठम् अचलः ॥ १०।६।४० ॥
pattayaḥ aśvāḥ rathāḥ hastinaḥ ca anu pṛṣṭham acalaḥ .. 10.6.40 ..
हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ॥ १०.६.४१ ॥
रथाः पत्तयः च अनु पृष्ठम् अप्रतिहतः ॥ १०।६।४१ ॥
rathāḥ pattayaḥ ca anu pṛṣṭham apratihataḥ .. 10.6.41 ..
तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ॥ १०.६.४२ ॥
तेषाम् प्रदरम् दृढकेन घातयेत् । दृढकम् असह्येन । श्येनम् चापेन । प्रतिष्ठम् सु प्रतिष्ठेन । संजयम् विजयेन । स्थूण-आकर्णम् विशाल-विजयेन । पारिपतन्तकम् सर्वतोभद्रेण ॥ १०।६।४२ ॥
teṣām pradaram dṛḍhakena ghātayet . dṛḍhakam asahyena . śyenam cāpena . pratiṣṭham su pratiṣṭhena . saṃjayam vijayena . sthūṇa-ākarṇam viśāla-vijayena . pāripatantakam sarvatobhadreṇa .. 10.6.42 ..
दुर्जयेन सर्वान्प्रतिव्यूहेत ॥ १०.६.४३ ॥
दुर्जयेन सर्वान् प्रतिव्यूहेत ॥ १०।६।४३ ॥
durjayena sarvān prativyūheta .. 10.6.43 ..
पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ॥ १०.६.४४ ॥
पत्ति-अश्व-रथ-द्विपानाम् पूर्वम् पूर्वम् उत्तरेण घातयेत् । हीन-अङ्गम् अधिक-अङ्गेन च एति ॥ १०।६।४४ ॥
patti-aśva-ratha-dvipānām pūrvam pūrvam uttareṇa ghātayet . hīna-aṅgam adhika-aṅgena ca eti .. 10.6.44 ..
अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ॥ १०.६.४५ ॥
अङ्ग-दशकस्य एकः पतिः पतिकः । पतिक-दशकस्य एकः सेना-पतिः । तद्-दशकस्य एकः नायकः इति ॥ १०।६।४५ ॥
aṅga-daśakasya ekaḥ patiḥ patikaḥ . patika-daśakasya ekaḥ senā-patiḥ . tad-daśakasya ekaḥ nāyakaḥ iti .. 10.6.45 ..
स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥ १०.६.४६ ॥
स तूर्य-घोष-ध्वज-पताकाभिः व्यूह-अङ्गानाम् संज्ञाः स्थापयेत् अङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥ १०।६।४६ ॥
sa tūrya-ghoṣa-dhvaja-patākābhiḥ vyūha-aṅgānām saṃjñāḥ sthāpayet aṅga-vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca .. 10.6.46 ..
समे व्यूहे देश-काल-सार-योगात्सिद्धिः ॥ १०.६.४७ ॥
समे व्यूहे देश-काल-सार-योगात् सिद्धिः ॥ १०।६।४७ ॥
same vyūhe deśa-kāla-sāra-yogāt siddhiḥ .. 10.6.47 ..
यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ॥ १०.६.४८अ ब ॥
यन्त्रैः उपनिषद्-योगैः तीक्ष्णैः व्यासक्त-घातिभिः । ॥ १०।६।४८अ ब ॥
yantraiḥ upaniṣad-yogaiḥ tīkṣṇaiḥ vyāsakta-ghātibhiḥ . .. 10.6.48a ba ..
मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ॥ १०.६.४८च्द् ॥
मायाभिः देव-सम्योगैः शकटैः हस्ति-भीषणैः ॥ १०।६।४८च् ॥
māyābhiḥ deva-samyogaiḥ śakaṭaiḥ hasti-bhīṣaṇaiḥ .. 10.6.48c ..
दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ॥ १०.६.४९अ ब ॥
दूष्य-प्रकोपैः गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ॥ १०।६।४९अ ब ॥
dūṣya-prakopaiḥ go-yūthaiḥ skandha-āvāra-pradīpanaiḥ . .. 10.6.49a ba ..
कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ॥ १०.६.४९च्द् ॥
कोटी-जघन-घातैः वा दूत-व्यञ्जन-भेदनैः ॥ १०।६।४९च् ॥
koṭī-jaghana-ghātaiḥ vā dūta-vyañjana-bhedanaiḥ .. 10.6.49c ..
दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ॥ १०.६.५०अ ब ॥
दुर्गम् दग्धम् हृतम् वा ते कोपः कुल्यः समुत्थितः । ॥ १०।६।५०अ ब ॥
durgam dagdham hṛtam vā te kopaḥ kulyaḥ samutthitaḥ . .. 10.6.50a ba ..
शत्रुराटविको वा इति परस्यौद्वेगं आचरेत् ॥ १०.६.५०च्द् ॥
शत्रुः आटविकः वा इति परस्य औद्वेगम् आचरेत् ॥ १०।६।५०च् ॥
śatruḥ āṭavikaḥ vā iti parasya audvegam ācaret .. 10.6.50c ..
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ॥ १०.६.५१अ ब ॥
एकम् हन्यात् न वा हन्यात् इषुः क्षिप्तः धनुष्मता । ॥ १०।६।५१अ ब ॥
ekam hanyāt na vā hanyāt iṣuḥ kṣiptaḥ dhanuṣmatā . .. 10.6.51a ba ..
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ॥ १०.६.५१च्द् ॥
प्रज्ञानेन तु मतिः क्षिप्ता हन्यात् गर्भ-गतान् अपि ॥ १०।६।५१च् ॥
prajñānena tu matiḥ kṣiptā hanyāt garbha-gatān api .. 10.6.51c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In