| |
|

This overlay will guide you through the buttons:

भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ॥ ०२.०१.०१ ॥
भूत-पूर्वम् अभूत-पूर्वम् वा जन-पदम् पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ॥ ०२।०१।०१ ॥
bhūta-pūrvam abhūta-pūrvam vā jana-padam para-deśa-apavāhanena sva-deśa-abhiṣyanda-vamanena vā niveśayet .. 02.01.01 ..
शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ॥ ०२.०१.०२ ॥
शूद्र-कर्षक-प्रायम् कुल-शत-अवरम् पञ्च-कुल-शत-परम् ग्रामम् क्रोशत्-विक्रोश-सीमानम् अन्योन्य-आरक्षम् निवेशयेत् ॥ ०२।०१।०२ ॥
śūdra-karṣaka-prāyam kula-śata-avaram pañca-kula-śata-param grāmam krośat-vikrośa-sīmānam anyonya-ārakṣam niveśayet .. 02.01.02 ..
नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ॥ ०२.०१.०३ ॥
स्थापयेत् ॥ ०२।०१।०३ ॥
sthāpayet .. 02.01.03 ..
अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ॥ ०२.०१.०४ ॥
अष्टशत-ग्राम्याः मध्ये स्थानीयम् । चतुह्शत-ग्राम्याः द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहम् स्थापयेत् ॥ ०२।०१।०४ ॥
aṣṭaśata-grāmyāḥ madhye sthānīyam . catuhśata-grāmyāḥ droṇa-mukham . dviśata-grāmyāḥ kārvaṭikam . daśa-grāmī-saṃgraheṇa saṃgraham sthāpayet .. 02.01.04 ..
अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ॥ ०२.०१.०५ ॥
अन्तेषु अन्त-पाल-दुर्गाणि जन-पद-द्वाराणि अन्त-पाल-अधिष्ठितानि स्थापयेत् ॥ ०२।०१।०५ ॥
anteṣu anta-pāla-durgāṇi jana-pada-dvārāṇi anta-pāla-adhiṣṭhitāni sthāpayet .. 02.01.05 ..
तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ॥ ०२.०१.०६ ॥
तेषाम् अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चराः रक्षेयुः ॥ ०२।०१।०६ ॥
teṣām antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carāḥ rakṣeyuḥ .. 02.01.06 ..
ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ॥
ऋत्विज्-आचार्य-पुरोहित-श्रोत्रियेभ्यः ब्रह्म-देयानि अदण्ड-कराणि अभिरूप-दायादकानि प्रयच्छेत्।०१।०७अ ॥
ṛtvij-ācārya-purohita-śrotriyebhyaḥ brahma-deyāni adaṇḍa-karāṇi abhirūpa-dāyādakāni prayacchet.01.07a ..
अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ॥ ०२.०१.०७ब ॥
अध्यक्ष-संख्यायक-आदिभ्यः गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यः च विक्रय-आधान-वर्जानि ॥ ०२।०१।०७ब ॥
adhyakṣa-saṃkhyāyaka-ādibhyaḥ gopa-sthānika-anīkastha-cikitsaka-aśva-damaka-jaṅghākārikebhyaḥ ca vikraya-ādhāna-varjāni .. 02.01.07ba ..
करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ॥ ०२.०१.०८ ॥
कर-देभ्यः कृत-क्षेत्राणि ऐकपुरुषिकाणि प्रयच्छेत् ॥ ०२।०१।०८ ॥
kara-debhyaḥ kṛta-kṣetrāṇi aikapuruṣikāṇi prayacchet .. 02.01.08 ..
अकृतानि कर्तृभ्यो नऽदेयानि ॥ ०२.०१.०९ ॥
अकृतानि कर्तृभ्यः न अ देयानि ॥ ०२।०१।०९ ॥
akṛtāni kartṛbhyaḥ na a deyāni .. 02.01.09 ..
अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ॥ ०२.०१.१० ॥
अ कृषताम् आछिद्य अन्येभ्यः प्रयच्छेत् ॥ ०२।०१।१० ॥
a kṛṣatām āchidya anyebhyaḥ prayacchet .. 02.01.10 ..
ग्राम-भृतक-वैदेहका वा कृषेयुः ॥ ०२.०१.११ ॥
ग्राम-भृतक-वैदेहकाः वा कृषेयुः ॥ ०२।०१।११ ॥
grāma-bhṛtaka-vaidehakāḥ vā kṛṣeyuḥ .. 02.01.11 ..
अकृषन्तो वाअवहीनं दद्युः ॥ ०२.०१.१२ ॥
अ कृषन्तः वा अ अवहीनम् दद्युः ॥ ०२।०१।१२ ॥
a kṛṣantaḥ vā a avahīnam dadyuḥ .. 02.01.12 ..
धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ॥ ०२.०१.१३ ॥
धान्य-पशु-हिरण्यैः च एतान् अनुगृह्णीयात् ॥ ०२।०१।१३ ॥
dhānya-paśu-hiraṇyaiḥ ca etān anugṛhṇīyāt .. 02.01.13 ..
तान्यनु सुखेन दद्युः ॥ ०२.०१.१४ ॥
तानि अनु सुखेन दद्युः ॥ ०२।०१।१४ ॥
tāni anu sukhena dadyuḥ .. 02.01.14 ..
अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ॥ ०२.०१.१५ ॥
अनुग्रह-परिहारौ च एतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ॥ ०२।०१।१५ ॥
anugraha-parihārau ca etebbhyaḥ kośa-vṛddhi-karau dadyāt . kośa-upaghātakau varjayet .. 02.01.15 ..
अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ॥ ०२.०१.१६ ॥
अल्प-कोशः हि राजा पौर-जानपदान् एव ग्रसते ॥ ०२।०१।१६ ॥
alpa-kośaḥ hi rājā paura-jānapadān eva grasate .. 02.01.16 ..
निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ॥ ०२.०१.१७ ॥
निवेश-सम-कालम् यथा आगतकम् वा परिहारम् दद्यात् ॥ ०२।०१।१७ ॥
niveśa-sama-kālam yathā āgatakam vā parihāram dadyāt .. 02.01.17 ..
निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ॥ ०२.०१.१८ ॥
निवृत्त-परिहारान् पिता इव अनुगृह्णीयात् ॥ ०२।०१।१८ ॥
nivṛtta-parihārān pitā iva anugṛhṇīyāt .. 02.01.18 ..
आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ॥ ०२.०१.१९ ॥
आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिज्-पथ-प्रचारान् वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ॥ ०२।०१।१९ ॥
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇij-patha-pracārān vāri-sthala-patha-paṇya-pattanāni ca niveśayet .. 02.01.19 ..
सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ॥ ०२.०१.२० ॥
सह उदकम् आहार्य-औदकम् वा सेतुम् बन्धयेत् ॥ ०२।०१।२० ॥
saha udakam āhārya-audakam vā setum bandhayet .. 02.01.20 ..
अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ॥ ०२.०१.२१ ॥
अन्येषाम् वा बध्नताम् भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहम् कुर्यात् । पुण्य-स्थान-आरामाणाम् च ॥ ०२।०१।२१ ॥
anyeṣām vā badhnatām bhūmi-mārga-vṛkṣa-upakaraṇa-anugraham kuryāt . puṇya-sthāna-ārāmāṇām ca .. 02.01.21 ..
सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ॥ ०२.०१.२२ ॥
सम्भूय सेतु-बन्धात् अपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ॥ ०२।०१।२२ ॥
sambhūya setu-bandhāt apakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ .. 02.01.22 ..
व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ॥ ०२.०१.२३ ॥
व्यय-कर्मणि च भागी स्यात् । न च अंशम् लभेत ॥ ०२।०१।२३ ॥
vyaya-karmaṇi ca bhāgī syāt . na ca aṃśam labheta .. 02.01.23 ..
मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥ ०२.०१.२४ ॥
मत्स्य-प्लव-हरि-तपण्यानाम् सेतुषु राजा स्वाम्यम् गच्छेत् ॥ ०२।०१।२४ ॥
matsya-plava-hari-tapaṇyānām setuṣu rājā svāmyam gacchet .. 02.01.24 ..
दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ॥ ०२.०१.२५ ॥
दास-आहितक-बन्धून् अशृण्वतः राजा विनयम् ग्राहयेत् ॥ ०२।०१।२५ ॥
dāsa-āhitaka-bandhūn aśṛṇvataḥ rājā vinayam grāhayet .. 02.01.25 ..
बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ॥ ०२.०१.२६ ॥
बाल-वृद्ध-व्यसनि-अनाथान् च राजा बिभृयात् । स्त्रियम् अ प्रजाताम् प्रजात-अयः च पुत्रान् ॥ ०२।०१।२६ ॥
bāla-vṛddha-vyasani-anāthān ca rājā bibhṛyāt . striyam a prajātām prajāta-ayaḥ ca putrān .. 02.01.26 ..
बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ॥ ०२.०१.२७ ॥
बाल-द्रव्यम् ग्राम-वृद्धाः वर्धयेयुः आ व्यवहार-प्रापणात् । देव-द्रव्यम् च ॥ ०२।०१।२७ ॥
bāla-dravyam grāma-vṛddhāḥ vardhayeyuḥ ā vyavahāra-prāpaṇāt . deva-dravyam ca .. 02.01.27 ..
अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ॥ ०२.०१.२८ ॥
अपत्य-दारम् माता-पितरौ भ्रातृऋन् अप्राप्त-व्यवहारान् भगिनीः कन्याः विधवाः च अबिभ्रतः शक्तिमतः द्वादश-पणः दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ॥ ०२।०१।२८ ॥
apatya-dāram mātā-pitarau bhrātṛṛn aprāpta-vyavahārān bhaginīḥ kanyāḥ vidhavāḥ ca abibhrataḥ śaktimataḥ dvādaśa-paṇaḥ daṇḍaḥ . anyatra patitebhyaḥ . anyatra mātuḥ .. 02.01.28 ..
पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ॥ ०२.०१.२९ ॥
पुत्र-दारम् अ प्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियम् च प्रव्राजयतः ॥ ०२।०१।२९ ॥
putra-dāram a pratividhāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ . striyam ca pravrājayataḥ .. 02.01.29 ..
लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ॥ ०२.०१.३० ॥
लुप्त-व्यायामः प्रव्रजेत् आपृच्छ्य धर्मस्थान् ॥ ०२।०१।३० ॥
lupta-vyāyāmaḥ pravrajet āpṛcchya dharmasthān .. 02.01.30 ..
अन्यथा नियम्येत ॥ ०२.०१.३१ ॥
अन्यथा नियम्येत ॥ ०२।०१।३१ ॥
anyathā niyamyeta .. 02.01.31 ..
वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ॥ ०२.०१.३२ ॥
वानप्रस्थात् अन्यः प्रव्रजित-भावः । सजातात् अन्यः संघः । सामुत्थायिकात् अन्यः समय-अनुबन्धः वा न अस्य जन-पदम् उपनिविशेत ॥ ०२।०१।३२ ॥
vānaprasthāt anyaḥ pravrajita-bhāvaḥ . sajātāt anyaḥ saṃghaḥ . sāmutthāyikāt anyaḥ samaya-anubandhaḥ vā na asya jana-padam upaniviśeta .. 02.01.32 ..
न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ॥ ०२.०१.३३ ॥
न च तत्र अरामाः विहार-अर्थाः वा शालाः स्युः ॥ ०२।०१।३३ ॥
na ca tatra arāmāḥ vihāra-arthāḥ vā śālāḥ syuḥ .. 02.01.33 ..
नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ॥ ०२.०१.३४ ॥
नट-नर्तक-गायन-वादक-वाच्-जीवन-कुशीलवाः न कर्म-विघ्नम् कुर्युः ॥ ०२।०१।३४ ॥
naṭa-nartaka-gāyana-vādaka-vāc-jīvana-kuśīlavāḥ na karma-vighnam kuryuḥ .. 02.01.34 ..
निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ॥ ०२.०१.३५ ॥
निराश्रय-त्वात् ग्रामाणाम् क्षेत्र-अभिरत-त्वात् च पुरुषाणाम् कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिः भवति ॥ ०२।०१।३५ ॥
nirāśraya-tvāt grāmāṇām kṣetra-abhirata-tvāt ca puruṣāṇām kośa-viṣṭi-dravya-dhānya-rasa-vṛddhiḥ bhavati .. 02.01.35 ..
पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ॥
पर-चक्र-अटवी-ग्रस्तम् व्याधि-दुर्भिक्ष-पीडितम् । ०२।०१।३६अ ब ॥
para-cakra-aṭavī-grastam vyādhi-durbhikṣa-pīḍitam . 02.01.36a ba ..
देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ॥ ०२.०१.३६च्द् ॥
देशम् परिहरेत् राजा व्यय-क्रीडाः च वारयेत् ॥ ०२।०१।३६च् ॥
deśam pariharet rājā vyaya-krīḍāḥ ca vārayet .. 02.01.36c ..
दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ॥
दण्ड-विष्टि-कर-आबाधैः रक्षेत् उपहताम् कृषिम् । ०२।०१।३७अ ब ॥
daṇḍa-viṣṭi-kara-ābādhaiḥ rakṣet upahatām kṛṣim . 02.01.37a ba ..
स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ॥ ०२.०१.३७च्द् ॥
स्तेन-व्याल-विष-ग्राहैः व्याधिभिः च पशु-व्रजान् ॥ ०२।०१।३७च् ॥
stena-vyāla-viṣa-grāhaiḥ vyādhibhiḥ ca paśu-vrajān .. 02.01.37c ..
वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ॥
वल्लभैः कार्मिकैः स्तेनैः अन्त-पालैः च पीडितम् । ०२।०१।३८अ ब ॥
vallabhaiḥ kārmikaiḥ stenaiḥ anta-pālaiḥ ca pīḍitam . 02.01.38a ba ..
शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ॥ ०२.०१.३८च्द् ॥
शोधयेत् पशु-संघैः च क्षीयमाणम् वणिज्-पथम् ॥ ०२।०१।३८च् ॥
śodhayet paśu-saṃghaiḥ ca kṣīyamāṇam vaṇij-patham .. 02.01.38c ..
एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ॥
एवम् द्रव्य-द्वि-पवनम् सेतु-बन्धम् । ०२।०१।३९अ ब ॥
evam dravya-dvi-pavanam setu-bandham . 02.01.39a ba ..
रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ॥ ०२.०१.३९च्द् ॥
रक्षेत् पूर्व-कृतान् राजा नवान् च अभिप्रवर्तयेत् ॥ ०२।०१।३९च् ॥
rakṣet pūrva-kṛtān rājā navān ca abhipravartayet .. 02.01.39c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In