| |
|

This overlay will guide you through the buttons:

भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ॥ ०२.०१.०१ ॥
bhūta-pūrvaṃ abhūta-pūrvaṃ vā jana-padaṃ para-deśa-apavāhanena sva-deśa-abhiṣyanda-vamanena vā niveśayet .. 02.01.01 ..
शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ॥ ०२.०१.०२ ॥
śūdra-karṣaka-prāyaṃ kula-śata-avaraṃ pañca-kula-śata-paraṃ grāmaṃ krośad-vikrośa-sīmānaṃ anyonya-ārakṣaṃ niveśayet .. 02.01.02 ..
नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ॥ ०२.०१.०३ ॥
nalī-śaila-vana-bhṛṣṭi-darī-setu-bandha-śamī-śālmalī-kṣīra-vṛkṣānanteṣu sīmnāṃ sthāpayet .. 02.01.03 ..
अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ॥ ०२.०१.०४ ॥
aṣṭaśata-grāmyā madhye sthānīyam . catuhśata-grāmyā droṇa-mukham . dviśata-grāmyāḥ kārvaṭikam . daśa-grāmī-saṃgraheṇa saṃgrahaṃ sthāpayet .. 02.01.04 ..
अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ॥ ०२.०१.०५ ॥
anteṣvanta-pāla-durgāṇi jana-pada-dvārāṇyanta-pāla-adhiṣṭhitāni sthāpayet .. 02.01.05 ..
तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ॥ ०२.०१.०६ ॥
teṣāṃ antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carā rakṣeyuḥ .. 02.01.06 ..
ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ॥
ṛtvig-ācārya-purohita-śrotriyebhyo brahma-deyānyadaṇḍa-karāṇyabhirūpa-dāyādakāni prayacchet 02.01.07a ..
अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ॥ ०२.०१.०७ब ॥
adhyakṣa-saṃkhyāyaka-ādibhyo gopa-sthānika-anīkastha-cikitsaka-aśva-damaka-jaṅghākārikebhyaśca vikraya-ādhāna-varjāni .. 02.01.07ba ..
करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ॥ ०२.०१.०८ ॥
karadebhyaḥ kṛta-kṣetrāṇyaikapuruṣikāṇi prayacchet .. 02.01.08 ..
अकृतानि कर्तृभ्यो नऽदेयानि ॥ ०२.०१.०९ ॥
akṛtāni kartṛbhyo na'deyāni .. 02.01.09 ..
अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ॥ ०२.०१.१० ॥
akṛṣatāṃ āchidyānyebhyaḥ prayacchet .. 02.01.10 ..
ग्राम-भृतक-वैदेहका वा कृषेयुः ॥ ०२.०१.११ ॥
grāma-bhṛtaka-vaidehakā vā kṛṣeyuḥ .. 02.01.11 ..
अकृषन्तो वाअवहीनं दद्युः ॥ ०२.०१.१२ ॥
akṛṣanto vāavahīnaṃ dadyuḥ .. 02.01.12 ..
धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ॥ ०२.०१.१३ ॥
dhānya-paśu-hiraṇyaiścaetānanugṛhṇīyāt .. 02.01.13 ..
तान्यनु सुखेन दद्युः ॥ ०२.०१.१४ ॥
tānyanu sukhena dadyuḥ .. 02.01.14 ..
अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ॥ ०२.०१.१५ ॥
anugraha-parihārau caetebbhyaḥ kośa-vṛddhi-karau dadyāt . kośa-upaghātakau varjayet .. 02.01.15 ..
अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ॥ ०२.०१.१६ ॥
alpa-kośo hi rājā paura-jānapadāneva grasate .. 02.01.16 ..
निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ॥ ०२.०१.१७ ॥
niveśa-sama-kālaṃ yathā-āgatakaṃ vā parihāraṃ dadyāt .. 02.01.17 ..
निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ॥ ०२.०१.१८ ॥
nivṛtta-parihārānpitāivānugṛhṇīyāt .. 02.01.18 ..
आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ॥ ०२.०१.१९ ॥
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇik-patha-pracārānvāri-sthala-patha-paṇya-pattanāni ca niveśayet .. 02.01.19 ..
सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ॥ ०२.०१.२० ॥
saha-udakaṃ āhāryaudakaṃ vā setuṃ bandhayet .. 02.01.20 ..
अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ॥ ०२.०१.२१ ॥
anyeṣāṃ vā badhnatāṃ bhūmi-mārga-vṛkṣa-upakaraṇa-anugrahaṃ kuryāt . puṇya-sthāna-ārāmāṇāṃ ca .. 02.01.21 ..
सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ॥ ०२.०१.२२ ॥
sambhūya-setu-bandhādapakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ .. 02.01.22 ..
व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ॥ ०२.०१.२३ ॥
vyayakarmaṇi ca bhāgī syāt . na cāṃśaṃ labheta .. 02.01.23 ..
मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ॥ ०२.०१.२४ ॥
matsya-plava-hari-tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet .. 02.01.24 ..
दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ॥ ०२.०१.२५ ॥
dāsa-āhitaka-bandhūnaśṛṇvato rājā vinayaṃ grāhayet .. 02.01.25 ..
बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ॥ ०२.०१.२६ ॥
bāla-vṛddha-vyasany-anāthāṃśca rājā bibhṛyāt . striyaṃ aprajātāṃ prajātāyaśca putrān .. 02.01.26 ..
बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ॥ ०२.०१.२७ ॥
bāla-dravyaṃ grāma-vṛddhā vardhayeyurā vyavahāra-prāpaṇāt . deva-dravyaṃ ca .. 02.01.27 ..
अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ॥ ०२.०१.२८ ॥
apatya-dāraṃ mātā-pitarau bhrātṛṛnaprāpta-vyavahārānbhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśa-paṇo daṇḍaḥ . anyatra patitebhyaḥ . anyatra mātuḥ .. 02.01.28 ..
पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ॥ ०२.०१.२९ ॥
putra-dāraṃ apratividhāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ . striyaṃ ca pravrājayataḥ .. 02.01.29 ..
लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ॥ ०२.०१.३० ॥
lupta-vyāyāmaḥ pravrajedāpṛcchya dharmasthān .. 02.01.30 ..
अन्यथा नियम्येत ॥ ०२.०१.३१ ॥
anyathā niyamyeta .. 02.01.31 ..
वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ॥ ०२.०१.३२ ॥
vānaprasthādanyaḥ pravrajita-bhāvaḥ . sajātādanyaḥ saṃghaḥ . sāmutthāyikādanyaḥ samaya-anubandho vā nāsya jana-padaṃ upaniviśeta .. 02.01.32 ..
न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ॥ ०२.०१.३३ ॥
na ca tatra'rāmā vihāra-arthā vā śālāḥ syuḥ .. 02.01.33 ..
नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ॥ ०२.०१.३४ ॥
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavā na karma-vighnaṃ kuryuḥ .. 02.01.34 ..
निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ॥ ०२.०१.३५ ॥
nirāśrayatvādgrāmāṇāṃ kṣetra-abhiratatvācca puruṣāṇāṃ kośa-viṣṭi-dravya-dhānya-rasa-vṛddhirbhavati .. 02.01.35 ..
पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ॥
para-cakra-aṭavī-grastaṃ vyādhi-durbhikṣa-pīḍitaṃ . 02.01.36a ba ..
देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ॥ ०२.०१.३६च्द् ॥
deśaṃ pariharedrājā vyaya-krīḍāśca vārayet .. 02.01.36cd ..
दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ॥
daṇḍa-viṣṭi-kara-ābādhai rakṣedupahatāṃ kṛṣiṃ . 02.01.37a ba ..
स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ॥ ०२.०१.३७च्द् ॥
stena-vyāla-viṣa-grāhairvyādhibhiśca paśu-vrajān .. 02.01.37cd ..
वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ॥
vallabhaiḥ kārmikaiḥ stenairanta-pālaiśca pīḍitaṃ . 02.01.38a ba ..
शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ॥ ०२.०१.३८च्द् ॥
śodhayetpaśu-saṃghaiśca kṣīyamāṇaṃ vaṇik-pathaṃ .. 02.01.38cd ..
एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ॥
evaṃ dravya-dvi-pavanaṃ setu-bandhaṃ atha'karān . 02.01.39a ba ..
रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ॥ ०२.०१.३९च्द् ॥
rakṣetpūrva-kṛtānrājā navāṃścābhipravartayet .. 02.01.39cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In