| |
|

This overlay will guide you through the buttons:

शासने शासनं इत्याचक्षते ॥ ०२.१०.०१ ॥
शासने शासनम् इति आचक्षते ॥ ०२।१०।०१ ॥
śāsane śāsanam iti ācakṣate .. 02.10.01 ..
शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ॥ ०२.१०.०२ ॥
शासन-प्रधानाः हि राजानः । तद्-मूल-त्वात् संधि-विग्रहयोः ॥ ०२।१०।०२ ॥
śāsana-pradhānāḥ hi rājānaḥ . tad-mūla-tvāt saṃdhi-vigrahayoḥ .. 02.10.02 ..
तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ॥ ०२.१०.०३ ॥
तस्मात् अमात्य-सम्पदा औपेतः सर्व-समय-विद् आशु-ग्रन्थः चारु-अक्षरः लेखन-वाचन-समर्थः लेखकः स्यात् ॥ ०२।१०।०३ ॥
tasmāt amātya-sampadā aupetaḥ sarva-samaya-vid āśu-granthaḥ cāru-akṣaraḥ lekhana-vācana-samarthaḥ lekhakaḥ syāt .. 02.10.03 ..
सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ॥ ०२.१०.०४ ॥
सः अव्यग्र-मनाः राज्ञः संदेशम् श्रुत्वा निश्चित-अर्थम् लेखम् विदध्यात् देश-ऐश्वर्य-वंश-नामधेय-उपचारम् ईश्वरस्य । देश-नामधेय-उपचारम् अनीश्वरस्य ॥ ०२।१०।०४ ॥
saḥ avyagra-manāḥ rājñaḥ saṃdeśam śrutvā niścita-artham lekham vidadhyāt deśa-aiśvarya-vaṃśa-nāmadheya-upacāram īśvarasya . deśa-nāmadheya-upacāram anīśvarasya .. 02.10.04 ..
जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ॥ ०२.१०.०५अ ब ॥
जातिम् कुलम् स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलानि अथ देश-कालौ । ॥ ०२।१०।०५अ ब ॥
jātim kulam sthāna-vayaḥ-śrutāni karma-ṛddhi-śīlāni atha deśa-kālau . .. 02.10.05a ba ..
यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ॥ ०२.१०.०५च्द् ॥
यौन-अनुबन्धम् च समीक्ष्य कार्ये लेखम् विदध्यात् पुरुष-अनुरूपम् ॥ ०२।१०।०५च् ॥
yauna-anubandham ca samīkṣya kārye lekham vidadhyāt puruṣa-anurūpam .. 02.10.05c ..
अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ॥ ०२.१०.०६ ॥
अर्थ-क्रमः सम्बन्धः परिपूर्ण-ता माधुर्यम् औदार्यम् स्पष्ट-त्वम् इति लेख-सम्पद् ॥ ०२।१०।०६ ॥
artha-kramaḥ sambandhaḥ paripūrṇa-tā mādhuryam audāryam spaṣṭa-tvam iti lekha-sampad .. 02.10.06 ..
तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ॥ ०२.१०.०७ ॥
तत्र यथावत् अनुपूर्व-क्रिया प्रधानस्य अर्थस्य पूर्वम् अभिनिवेशः इति अर्थ-क्रमः ॥ ०२।१०।०७ ॥
tatra yathāvat anupūrva-kriyā pradhānasya arthasya pūrvam abhiniveśaḥ iti artha-kramaḥ .. 02.10.07 ..
प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ॥ ०२.१०.०८ ॥
प्रस्तुतस्य अर्थस्य अन् उपरोधात् उत्तरस्य विधानम् आ समाप्तेः इति सम्बन्धः ॥ ०२।१०।०८ ॥
prastutasya arthasya an uparodhāt uttarasya vidhānam ā samāpteḥ iti sambandhaḥ .. 02.10.08 ..
अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ॥ ०२.१०.०९ ॥
अर्थ-पद-अक्षराणाम् अन्यून-अतिरिक्त-ता हेतु-उदाहरण-दृष्टान्तैः अर्थ-उपवर्णना अश्रान्त-पद-ता इति परिपूर्ण-ता ॥ ०२।१०।०९ ॥
artha-pada-akṣarāṇām anyūna-atirikta-tā hetu-udāharaṇa-dṛṣṭāntaiḥ artha-upavarṇanā aśrānta-pada-tā iti paripūrṇa-tā .. 02.10.09 ..
सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ॥ ०२.१०.१० ॥
सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानम् माधुर्यम् ॥ ०२।१०।१० ॥
sukha-upanīta-cāru-artha-śabda-abhidhānam mādhuryam .. 02.10.10 ..
अग्राम्य-शब्द-अभिधानं औदार्यं ॥ ०२.१०.११ ॥
अग्राम्य-शब्द-अभिधानम् औदार्यम् ॥ ०२।१०।११ ॥
agrāmya-śabda-abhidhānam audāryam .. 02.10.11 ..
प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ॥ ०२.१०.१२ ॥
प्रतीत-शब्द-प्रयोगः स्पष्ट-त्वम् इति ॥ ०२।१०।१२ ॥
pratīta-śabda-prayogaḥ spaṣṭa-tvam iti .. 02.10.12 ..
अ-कार-आदयो वर्णास्त्रिषष्टिः ॥ ०२.१०.१३ ॥
अ-कार-आदयः वर्णाः त्रिषष्टिः ॥ ०२।१०।१३ ॥
a-kāra-ādayaḥ varṇāḥ triṣaṣṭiḥ .. 02.10.13 ..
वर्ण-संघातः पदं ॥ ०२.१०.१४ ॥
वर्ण-संघातः पदम् ॥ ०२।१०।१४ ॥
varṇa-saṃghātaḥ padam .. 02.10.14 ..
तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ॥ ०२.१०.१५ ॥
तत् चतुर्विधम् नाम-आख्यात-उपसर्ग-निपाताः च एति ॥ ०२।१०।१५ ॥
tat caturvidham nāma-ākhyāta-upasarga-nipātāḥ ca eti .. 02.10.15 ..
तत्र नाम सत्त्व-अभिधायि ॥ ०२.१०.१६ ॥
तत्र नाम सत्त्व-अभिधायि ॥ ०२।१०।१६ ॥
tatra nāma sattva-abhidhāyi .. 02.10.16 ..
अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ॥ ०२.१०.१७ ॥
अविशिष्ट-लिङ्गम् आख्यातम् क्रिया-वाचि ॥ ०२।१०।१७ ॥
aviśiṣṭa-liṅgam ākhyātam kriyā-vāci .. 02.10.17 ..
क्रिया-विशेषकाः प्र-आदय उपसर्गाः ॥ ०२.१०.१८ ॥
क्रिया-विशेषकाः प्र-आदयः उपसर्गाः ॥ ०२।१०।१८ ॥
kriyā-viśeṣakāḥ pra-ādayaḥ upasargāḥ .. 02.10.18 ..
अव्ययाश्च-आदयो निपाताः ॥ ०२.१०.१९ ॥
अव्ययाः च आदयः निपाताः ॥ ०२।१०।१९ ॥
avyayāḥ ca ādayaḥ nipātāḥ .. 02.10.19 ..
पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ॥ ०२.१०.२० ॥
पद-समूहः वाक्यम् अर्थ-परिसमाप्तौ ॥ ०२।१०।२० ॥
pada-samūhaḥ vākyam artha-parisamāptau .. 02.10.20 ..
एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ॥ ०२.१०.२१ ॥
एक-पद-अवरः त्रि-पद-परः पर-पद-अर्थ-अन् उपरोधेन वर्गः कार्यः ॥ ०२।१०।२१ ॥
eka-pada-avaraḥ tri-pada-paraḥ para-pada-artha-an uparodhena vargaḥ kāryaḥ .. 02.10.21 ..
लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ॥ ०२.१०.२२ ॥
लेख-परिसंहरण-अर्थः इति शब्दः वाचिकम् अस्य एति च ॥ ०२।१०।२२ ॥
lekha-parisaṃharaṇa-arthaḥ iti śabdaḥ vācikam asya eti ca .. 02.10.22 ..
निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ॥ ०२.१०.२३अ ब ॥
निन्दा प्रशंसा पृच्छा च तथाआख्यानम् अथ अर्थना । ॥ ०२।१०।२३अ ब ॥
nindā praśaṃsā pṛcchā ca tathāākhyānam atha arthanā . .. 02.10.23a ba ..
प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ॥ ०२.१०.२३च्द् ॥
प्रत्याख्यानम् उपालम्भः प्रतिषेधः अथ चोदना ॥ ०२।१०।२३च् ॥
pratyākhyānam upālambhaḥ pratiṣedhaḥ atha codanā .. 02.10.23c ..
सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ॥ ०२.१०.२४अ ब ॥
सान्त्वम् अभ्युपपत्तिः च भर्त्सन-अनुनयौ तथा । ॥ ०२।१०।२४अ ब ॥
sāntvam abhyupapattiḥ ca bhartsana-anunayau tathā . .. 02.10.24a ba ..
एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥ ०२.१०.२४च्द् ॥
एतेषु अर्थाः प्रवर्तन्ते त्रयोदशसु लेख-जाः ॥ ०२।१०।२४च् ॥
eteṣu arthāḥ pravartante trayodaśasu lekha-jāḥ .. 02.10.24c ..
तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ॥ ०२.१०.२५ ॥
तत्र अभिजन-शरीर-कर्मणाम् दोष-वचनम् निन्दा ॥ ०२।१०।२५ ॥
tatra abhijana-śarīra-karmaṇām doṣa-vacanam nindā .. 02.10.25 ..
गुण-वचनं एतेषां एव प्रशंसा ॥ ०२.१०.२६ ॥
गुण-वचनम् एतेषाम् एव प्रशंसा ॥ ०२।१०।२६ ॥
guṇa-vacanam eteṣām eva praśaṃsā .. 02.10.26 ..
कथं एतद् इति पृच्छा ॥ ०२.१०.२७ ॥
कथम् एतत् इति पृच्छा ॥ ०२।१०।२७ ॥
katham etat iti pṛcchā .. 02.10.27 ..
एवम् इत्याख्यानं ॥ ०२.१०.२८ ॥
एवम् इति आख्यानम् ॥ ०२।१०।२८ ॥
evam iti ākhyānam .. 02.10.28 ..
देहि इत्यर्थना ॥ ०२.१०.२९ ॥
देहि इति अर्थना ॥ ०२।१०।२९ ॥
dehi iti arthanā .. 02.10.29 ..
न प्रयच्छामि इति प्रत्याख्यानं ॥ ०२.१०.३० ॥
न प्रयच्छामि इति प्रत्याख्यानम् ॥ ०२।१०।३० ॥
na prayacchāmi iti pratyākhyānam .. 02.10.30 ..
अननुरूपं भवतः इत्युपालम्भः ॥ ०२.१०.३१ ॥
अननुरूपम् भवतः इति उपालम्भः ॥ ०२।१०।३१ ॥
ananurūpam bhavataḥ iti upālambhaḥ .. 02.10.31 ..
मा कार्षीः इति प्रतिषेधः ॥ ०२.१०.३२ ॥
मा कार्षीः इति प्रतिषेधः ॥ ०२।१०।३२ ॥
mā kārṣīḥ iti pratiṣedhaḥ .. 02.10.32 ..
इदं क्रियताम् इति चोदना ॥ ०२.१०.३३ ॥
इदम् क्रियताम् इति चोदना ॥ ०२।१०।३३ ॥
idam kriyatām iti codanā .. 02.10.33 ..
योअहं स भवान् । यन्मम द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वं ॥ ०२.१०.३४ ॥
यः अहम् स भवान् । यत् मम द्रव्यम् तत् भवतः इति उपग्रहः सान्त्वम् ॥ ०२।१०।३४ ॥
yaḥ aham sa bhavān . yat mama dravyam tat bhavataḥ iti upagrahaḥ sāntvam .. 02.10.34 ..
व्यसन-साहाय्यं अभ्युपपत्तिः ॥ ०२.१०.३५ ॥
व्यसन-साहाय्यम् अभ्युपपत्तिः ॥ ०२।१०।३५ ॥
vyasana-sāhāyyam abhyupapattiḥ .. 02.10.35 ..
सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ॥ ०२.१०.३६ ॥
स दोषम् आयति-प्रदर्शनम् अभिभर्त्सनम् ॥ ०२।१०।३६ ॥
sa doṣam āyati-pradarśanam abhibhartsanam .. 02.10.36 ..
अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ॥ ०२.१०.३७ ॥
अनुनयः त्रिविधः अर्थ-कृत-अवतिक्रमे पुरुष-आदि-व्यसने च एति ॥ ०२।१०।३७ ॥
anunayaḥ trividhaḥ artha-kṛta-avatikrame puruṣa-ādi-vyasane ca eti .. 02.10.37 ..
प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ॥ ०२.१०.३८अ ब ॥
प्रज्ञापन-आज्ञा-परिदान-लेखाः तथा परीहार-निसृष्टि-लेखौ । ॥ ०२।१०।३८अ ब ॥
prajñāpana-ājñā-paridāna-lekhāḥ tathā parīhāra-nisṛṣṭi-lekhau . .. 02.10.38a ba ..
प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ॥ ०२.१०.३८च्द् ॥
प्रावृत्तिकः च प्रतिलेखः एव सर्वत्रगः च एति हि शासनानि ॥ ०२।१०।३८च् ॥
prāvṛttikaḥ ca pratilekhaḥ eva sarvatragaḥ ca eti hi śāsanāni .. 02.10.38c ..
अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ॥ ०२.१०.३९अ ब ॥
अनेन विज्ञापितम् एवम् आह तत् दीयताम् चेद् यदि तत्त्वम् अस्ति । ॥ ०२।१०।३९अ ब ॥
anena vijñāpitam evam āha tat dīyatām ced yadi tattvam asti . .. 02.10.39a ba ..
राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ॥ ०२.१०.३९च्द् ॥
राज्ञः समीपे आह प्रज्ञापना एषा विविधा उपदिष्टा ॥ ०२।१०।३९च् ॥
rājñaḥ samīpe āha prajñāpanā eṣā vividhā upadiṣṭā .. 02.10.39c ..
भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ॥ ०२.१०.४०अ ब ॥
भर्तुः आज्ञा भवेत् यत्र निग्रह-अनुग्रहौ प्रति । ॥ ०२।१०।४०अ ब ॥
bhartuḥ ājñā bhavet yatra nigraha-anugrahau prati . .. 02.10.40a ba ..
विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ॥ ०२.१०.४०च्द् ॥
विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणम् ॥ ०२।१०।४०च् ॥
viśeṣeṇa tu bhṛtyeṣu tad-ājñā-lekha-lakṣaṇam .. 02.10.40c ..
यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ॥ ०२.१०.४१अ ब ॥
यथा अर्ह-गुण-सम्युक्ता पूजा यत्र औपलक्ष्यते । ॥ ०२।१०।४१अ ब ॥
yathā arha-guṇa-samyuktā pūjā yatra aupalakṣyate . .. 02.10.41a ba ..
अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ॥ ०२.१०.४१च्द् ॥
अपि आधौ परिदाने वा भवतः तौ उपग्रहौ ॥ ०२।१०।४१च् ॥
api ādhau paridāne vā bhavataḥ tau upagrahau .. 02.10.41c ..
जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ॥ ०२.१०.४२अ ब ॥
जातेः विशेषेषु परेषु च एव ग्रामेषु देशेषु च तेषु तेषु । ॥ ०२।१०।४२अ ब ॥
jāteḥ viśeṣeṣu pareṣu ca eva grāmeṣu deśeṣu ca teṣu teṣu . .. 02.10.42a ba ..
अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ॥ ०२ ।१०-४२च्द् ॥
अनुग्रहः यः नृप्तेः निदेशात् तद्-ज्ञः परीहारः इति व्यवस्येत् ॥ ०२ ।१० ॥
anugrahaḥ yaḥ nṛpteḥ nideśāt tad-jñaḥ parīhāraḥ iti vyavasyet .. 02 .10 ..
निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ॥ ०२.१०.४३अ ब ॥
कार्य-करणे वचने तथा । ॥ ०२।१०।४३अ ब ॥
kārya-karaṇe vacane tathā . .. 02.10.43a ba ..
एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ॥ ०२.१०.४३च्द् ॥
एष वाचिक-लेखः स्यात् भवेत् नैसृष्टिकः अपि वा ॥ ०२।१०।४३च् ॥
eṣa vācika-lekhaḥ syāt bhavet naisṛṣṭikaḥ api vā .. 02.10.43c ..
विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ॥ ०२.१०.४४अ ब ॥
विविधाम् दैव-सम्युक्ताम् तत्त्व-जाम् च एव मानुषीम् । ॥ ०२।१०।४४अ ब ॥
vividhām daiva-samyuktām tattva-jām ca eva mānuṣīm . .. 02.10.44a ba ..
द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥ ०२.१०.४४च्द् ॥
द्वि-विधाम् ताम् व्यवस्यन्ति प्रवृत्तिम् शासनम् प्रति ॥ ०२।१०।४४च् ॥
dvi-vidhām tām vyavasyanti pravṛttim śāsanam prati .. 02.10.44c ..
दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ॥ ०२.१०.४५अ ब ॥
दृष्ट्वा लेखम् यथा तत्त्वम् ततस् प्रत्यनुभाष्य च । ॥ ०२।१०।४५अ ब ॥
dṛṣṭvā lekham yathā tattvam tatas pratyanubhāṣya ca . .. 02.10.45a ba ..
प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ॥ ०२.१०.४५च्द् ॥
प्रतिलेखः भवेत् कार्यः यथा राज-वचः तथा ॥ ०२।१०।४५च् ॥
pratilekhaḥ bhavet kāryaḥ yathā rāja-vacaḥ tathā .. 02.10.45c ..
यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ॥ ०२.१०.४६अ ब ॥
यत्र ईश्वरान् च अधिकृतान् च राजा रक्षा-उपकारौ पथिक-अर्थम् आह । ॥ ०२।१०।४६अ ब ॥
yatra īśvarān ca adhikṛtān ca rājā rakṣā-upakārau pathika-artham āha . .. 02.10.46a ba ..
सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ ०२.१०.४६च्द् ॥
सर्वत्रगः नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ ०२।१०।४६च् ॥
sarvatragaḥ nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ .. 02.10.46c ..
उपायाः साम-उपप्रदान-भेद-दण्डाः ॥ ०२.१०.४७ ॥
उपायाः साम-उपप्रदान-भेद-दण्डाः ॥ ०२।१०।४७ ॥
upāyāḥ sāma-upapradāna-bheda-daṇḍāḥ .. 02.10.47 ..
तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ॥ ०२.१०.४८ ॥
तत्र साम पञ्चविधम् गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानम् इति ॥ ०२।१०।४८ ॥
tatra sāma pañcavidham guṇa-saṃkīrtanam . sambandha-upākhyānam . paraspara-upakāra-saṃdarśanam . āyati-pradarśanam . ātma-upanidhānam iti .. 02.10.48 ..
तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ॥ ०२.१०.४९ ॥
तत्र अभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनाम् गुण-ग्रहणम् प्रशंसा स्तुतिः गुण-संकीर्तनम् ॥ ०२।१०।४९ ॥
tatra abhijana-śarīra-karma-prakṛti-śruta-dravya-ādīnām guṇa-grahaṇam praśaṃsā stutiḥ guṇa-saṃkīrtanam .. 02.10.49 ..
ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ॥ ०२.१०.५० ॥
ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनम् सम्बन्ध-उपाख्यानम् ॥ ०२।१०।५० ॥
jñāti-yauna-maukha-srauva-kula-hṛdaya-mitra-saṃkīrtanam sambandha-upākhyānam .. 02.10.50 ..
स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ॥ ०२.१०.५१ ॥
स्व-पक्ष-पर-पक्षयोः अन्योन्य-उपकार-संकीर्तनम् परस्पर-उपकार-संदर्शनम् ॥ ०२।१०।५१ ॥
sva-pakṣa-para-pakṣayoḥ anyonya-upakāra-saṃkīrtanam paraspara-upakāra-saṃdarśanam .. 02.10.51 ..
अस्मिन्नेवं कृत इदं आवयोर्भवति इत्याशा-जननं आयति-प्रदर्शनं ॥ ०२.१०.५२ ॥
अस्मिन् एवम् कृते इदम् आवयोः भवति इति आशा-जननम् आयति-प्रदर्शनम् ॥ ०२।१०।५२ ॥
asmin evam kṛte idam āvayoḥ bhavati iti āśā-jananam āyati-pradarśanam .. 02.10.52 ..
योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम् इत्यात्म-उपनिधानं इति ॥ ०२.१०.५३ ॥
यः अहम् स भवान् । यत् मम द्रव्यम् तत् भवता स्व-कृत्येषु प्रयोज्यताम् इति आत्म-उपनिधानम् इति ॥ ०२।१०।५३ ॥
yaḥ aham sa bhavān . yat mama dravyam tat bhavatā sva-kṛtyeṣu prayojyatām iti ātma-upanidhānam iti .. 02.10.53 ..
उपप्रदानं अर्थ-उपकारः ॥ ०२.१०.५४ ॥
उपप्रदानम् अर्थ-उपकारः ॥ ०२।१०।५४ ॥
upapradānam artha-upakāraḥ .. 02.10.54 ..
शङ्का-जननं निर्भर्त्सनं च भेदः ॥ ०२.१०.५५ ॥
शङ्का-जननम् निर्भर्त्सनम् च भेदः ॥ ०२।१०।५५ ॥
śaṅkā-jananam nirbhartsanam ca bhedaḥ .. 02.10.55 ..
वधः परिक्लेशोअर्थ-हरणं दण्डः इति ॥ ०२.१०.५६ ॥
वधः परिक्लेशः अर्थ-हरणम् दण्डः इति ॥ ०२।१०।५६ ॥
vadhaḥ parikleśaḥ artha-haraṇam daṇḍaḥ iti .. 02.10.56 ..
अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ॥ ०२.१०.५७ ॥
अकान्तिः व्याघातः पुनर् उक्तम् अपशब्दः सम्प्लवः इति लेख-दोषः ॥ ०२।१०।५७ ॥
akāntiḥ vyāghātaḥ punar uktam apaśabdaḥ samplavaḥ iti lekha-doṣaḥ .. 02.10.57 ..
तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ॥ ०२.१०.५८ ॥
तत्र काल-पत्त्रकम् अचारु-विषम् अविराग-अक्षर-त्वम् अकान्तिः ॥ ०२।१०।५८ ॥
tatra kāla-pattrakam acāru-viṣam avirāga-akṣara-tvam akāntiḥ .. 02.10.58 ..
पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ॥ ०२.१०.५९ ॥
पूर्वेण पश्चिमस्य अनुपपत्तिः व्याघातः ॥ ०२।१०।५९ ॥
pūrveṇa paścimasya anupapattiḥ vyāghātaḥ .. 02.10.59 ..
उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ॥ ०२.१०.६० ॥
उक्तस्य अविशेषेण द्वितीयम् उच्चारणम् पुनर् उक्तम् ॥ ०२।१०।६० ॥
uktasya aviśeṣeṇa dvitīyam uccāraṇam punar uktam .. 02.10.60 ..
लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ॥ ०२.१०.६१ ॥
लिङ्ग-वचन-काल-कारकाणाम् अन्यथा प्रयोगः उपशब्दः ॥ ०२।१०।६१ ॥
liṅga-vacana-kāla-kārakāṇām anyathā prayogaḥ upaśabdaḥ .. 02.10.61 ..
अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ॥ ०२.१०.६२ ॥
अवर्गे वर्ग-करणम् च अवर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ॥ ०२।१०।६२ ॥
avarge varga-karaṇam ca avarga-kriyā guṇa-viparyāsaḥ samplavaḥ iti .. 02.10.62 ..
सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ॥ ०२.१०.६३अ ब ॥
सर्व-शास्त्राणि अनुक्रम्य प्रयोगम् उपलभ्य च । ॥ ०२।१०।६३अ ब ॥
sarva-śāstrāṇi anukramya prayogam upalabhya ca . .. 02.10.63a ba ..
कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ॥ ०२.१०.६३च्द् ॥
कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ॥ ०२।१०।६३च् ॥
kauṭilyena nara-indra-arthe śāsanasya vidhiḥ kṛtaḥ .. 02.10.63c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In