| |
|

This overlay will guide you through the buttons:

शासने शासनं इत्याचक्षते ॥ ०२.१०.०१ ॥
śāsane śāsanaṃ ityācakṣate .. 02.10.01 ..
शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ॥ ०२.१०.०२ ॥
śāsana-pradhānā hi rājānaḥ . tan-mūlatvātsaṃdhi-vigrahayoḥ .. 02.10.02 ..
तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ॥ ०२.१०.०३ ॥
tasmādamātya-sampadāupetaḥ sarva-samayavidāśu-granthaścāru-akṣaro lekhana-vācana-samartho lekhakaḥ syāt .. 02.10.03 ..
सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ॥ ०२.१०.०४ ॥
soavyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-arthaṃ lekhaṃ vidadhyātdeśa-aiśvarya-vaṃśa-nāmadheya-upacāraṃ īśvarasya . deśa-nāmadheya-upacāraṃ anīśvarasya .. 02.10.04 ..
जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ॥ ०२.१०.०५अ ब ॥
jātiṃ kulaṃ sthāna-vayaḥ-śrutāni karma-ṛddhi-śīlānyatha deśa-kālau . .. 02.10.05a ba ..
यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ॥ ०२.१०.०५च्द् ॥
yauna-anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyātpuruṣa-anurūpaṃ .. 02.10.05cd ..
अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ॥ ०२.१०.०६ ॥
artha-kramaḥ sambandhaḥ paripūrṇatā mādhuryaṃ audāryaṃ spaṣṭatvaṃ iti lekha-sampat .. 02.10.06 ..
तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ॥ ०२.१०.०७ ॥
tatra yathāvadanupūrva-kriyā pradhānasyārthasya pūrvaṃ abhiniveśa ityartha-kramaḥ .. 02.10.07 ..
प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ॥ ०२.१०.०८ ॥
prastutasyārthasyānuparodhāduttarasya vidhānaṃ ā-samāpteriti sambandhaḥ .. 02.10.08 ..
अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ॥ ०२.१०.०९ ॥
artha-pada-akṣarāṇāṃ anyūna-atiriktatā hetu-udāharaṇa-dṛṣṭāntairartha-upavarṇanāaśrānta-padatāiti paripūrṇatā .. 02.10.09 ..
सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ॥ ०२.१०.१० ॥
sukha-upanīta-cāru-artha-śabda-abhidhānaṃ mādhuryaṃ .. 02.10.10 ..
अग्राम्य-शब्द-अभिधानं औदार्यं ॥ ०२.१०.११ ॥
agrāmya-śabda-abhidhānaṃ audāryaṃ .. 02.10.11 ..
प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ॥ ०२.१०.१२ ॥
pratīta-śabda-prayogaḥ spaṣṭatvaṃ iti .. 02.10.12 ..
अ-कार-आदयो वर्णास्त्रिषष्टिः ॥ ०२.१०.१३ ॥
a-kāra-ādayo varṇāstriṣaṣṭiḥ .. 02.10.13 ..
वर्ण-संघातः पदं ॥ ०२.१०.१४ ॥
varṇa-saṃghātaḥ padaṃ .. 02.10.14 ..
तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ॥ ०२.१०.१५ ॥
taccaturvidhaṃ nāma-ākhyāta-upasarga-nipātāścaiti .. 02.10.15 ..
तत्र नाम सत्त्व-अभिधायि ॥ ०२.१०.१६ ॥
tatra nāma sattva-abhidhāyi .. 02.10.16 ..
अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ॥ ०२.१०.१७ ॥
aviśiṣṭa-liṅgaṃ ākhyātaṃ kriyā-vāci .. 02.10.17 ..
क्रिया-विशेषकाः प्र-आदय उपसर्गाः ॥ ०२.१०.१८ ॥
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ .. 02.10.18 ..
अव्ययाश्च-आदयो निपाताः ॥ ०२.१०.१९ ॥
avyayāśca-ādayo nipātāḥ .. 02.10.19 ..
पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ॥ ०२.१०.२० ॥
pada-samūho vākyaṃ artha-parisamāptau .. 02.10.20 ..
एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ॥ ०२.१०.२१ ॥
eka-pada-avarastri-pada-paraḥ para-pada-artha-anuparodhena vargaḥ kāryaḥ .. 02.10.21 ..
लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ॥ ०२.१०.२२ ॥
lekha-parisaṃharaṇa-artha iti-śabdo vācikaṃ asyaiti ca .. 02.10.22 ..
निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ॥ ०२.१०.२३अ ब ॥
nindā praśaṃsā pṛcchā ca tathāākhyānaṃ athārthanā . .. 02.10.23a ba ..
प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ॥ ०२.१०.२३च्द् ॥
pratyākhyānaṃ upālambhaḥ pratiṣedhoatha codanā .. 02.10.23cd ..
सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ॥ ०२.१०.२४अ ब ॥
sāntvaṃ abhyupapattiśca bhartsana-anunayau tathā . .. 02.10.24a ba ..
एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ॥ ०२.१०.२४च्द् ॥
eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ .. 02.10.24cd ..
तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ॥ ०२.१०.२५ ॥
tatrābhijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā .. 02.10.25 ..
गुण-वचनं एतेषां एव प्रशंसा ॥ ०२.१०.२६ ॥
guṇa-vacanaṃ eteṣāṃ eva praśaṃsā .. 02.10.26 ..
कथं एतद् इति पृच्छा ॥ ०२.१०.२७ ॥
kathaṃ etad iti pṛcchā .. 02.10.27 ..
एवम् इत्याख्यानं ॥ ०२.१०.२८ ॥
evam ityākhyānaṃ .. 02.10.28 ..
देहि इत्यर्थना ॥ ०२.१०.२९ ॥
dehi ityarthanā .. 02.10.29 ..
न प्रयच्छामि इति प्रत्याख्यानं ॥ ०२.१०.३० ॥
na prayacchāmi iti pratyākhyānaṃ .. 02.10.30 ..
अननुरूपं भवतः इत्युपालम्भः ॥ ०२.१०.३१ ॥
ananurūpaṃ bhavataḥ ityupālambhaḥ .. 02.10.31 ..
मा कार्षीः इति प्रतिषेधः ॥ ०२.१०.३२ ॥
mā kārṣīḥ iti pratiṣedhaḥ .. 02.10.32 ..
इदं क्रियताम् इति चोदना ॥ ०२.१०.३३ ॥
idaṃ kriyatām iti codanā .. 02.10.33 ..
योअहं स भवान् । यन्मम द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वं ॥ ०२.१०.३४ ॥
yoahaṃ sa bhavān . yanmama dravyaṃ tadbhavataḥ ityupagrahaḥ sāntvaṃ .. 02.10.34 ..
व्यसन-साहाय्यं अभ्युपपत्तिः ॥ ०२.१०.३५ ॥
vyasana-sāhāyyaṃ abhyupapattiḥ .. 02.10.35 ..
सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ॥ ०२.१०.३६ ॥
sadoṣaṃ āyati-pradarśanaṃ abhibhartsanaṃ .. 02.10.36 ..
अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ॥ ०२.१०.३७ ॥
anunayastrividhoartha-kṛtāvatikrame puruṣa-ādi-vyasane caiti .. 02.10.37 ..
प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ॥ ०२.१०.३८अ ब ॥
prajñāpana-ājñā-paridāna-lekhāstathā parīhāra-nisṛṣṭi-lekhau . .. 02.10.38a ba ..
प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ॥ ०२.१०.३८च्द् ॥
prāvṛttikaśca pratilekha eva sarvatragaścaiti hi śāsanāni .. 02.10.38cd ..
अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ॥ ०२.१०.३९अ ब ॥
anena vijñāpitaṃ evaṃ āha taddīyatāṃ cedyadi tattvaṃ asti . .. 02.10.39a ba ..
राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ॥ ०२.१०.३९च्द् ॥
rājñaḥ samīpe vara-kāraṃ āha prajñāpanāeṣā vividhāupadiṣṭā .. 02.10.39cd ..
भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ॥ ०२.१०.४०अ ब ॥
bharturājñā bhavedyatra nigraha-anugrahau prati . .. 02.10.40a ba ..
विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ॥ ०२.१०.४०च्द् ॥
viśeṣeṇa tu bhṛtyeṣu tad-ājñā-lekha-lakṣaṇaṃ .. 02.10.40cd ..
यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ॥ ०२.१०.४१अ ब ॥
yathā-arha-guṇa-samyuktā pūjā yatraupalakṣyate . .. 02.10.41a ba ..
अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ॥ ०२.१०.४१च्द् ॥
apyādhau paridāne vā bhavatastāvupagrahau .. 02.10.41cd ..
जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ॥ ०२.१०.४२अ ब ॥
jāterviśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu . .. 02.10.42a ba ..
अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ॥ ०२ ।१०-४२च्द् ॥
anugraho yo nṛpternideśāttaj-jñaḥ parīhāra iti vyavasyet .. 02 .10-42cd ..
निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ॥ ०२.१०.४३अ ब ॥
nisṛṣṭisthāāpanā kārya-karaṇe vacane tathā . .. 02.10.43a ba ..
एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ॥ ०२.१०.४३च्द् ॥
eṣa vācika-lekhaḥ syādbhavennaisṛṣṭikoapi vā .. 02.10.43cd ..
विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ॥ ०२.१०.४४अ ब ॥
vividhāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīṃ . .. 02.10.44a ba ..
द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ॥ ०२.१०.४४च्द् ॥
dvi-vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati .. 02.10.44cd ..
दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ॥ ०२.१०.४५अ ब ॥
dṛṣṭvā lekhaṃ yathā-tattvaṃ tataḥ pratyanubhāṣya ca . .. 02.10.45a ba ..
प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ॥ ०२.१०.४५च्द् ॥
pratilekho bhavetkāryo yathā rāja-vacastathā .. 02.10.45cd ..
यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ॥ ०२.१०.४६अ ब ॥
yatraīśvarāṃścādhikṛtāṃśca rājā rakṣā-upakārau pathika-arthaṃ āha . .. 02.10.46a ba ..
सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ॥ ०२.१०.४६च्द् ॥
sarvatrago nāma bhavetsa mārge deśe ca sarvatra ca veditavyaḥ .. 02.10.46cd ..
उपायाः साम-उपप्रदान-भेद-दण्डाः ॥ ०२.१०.४७ ॥
upāyāḥ sāma-upapradāna-bheda-daṇḍāḥ .. 02.10.47 ..
तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ॥ ०२.१०.४८ ॥
tatra sāma pañcavidhaṃ guṇa-saṃkīrtanam . sambandha-upākhyānam . paraspara-upakāra-saṃdarśanam . āyati-pradarśanam . ātma-upanidhānaṃ iti .. 02.10.48 ..
तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ॥ ०२.१०.४९ ॥
tatrābhijana-śarīra-karma-prakṛti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutirguṇa-saṃkīrtanaṃ .. 02.10.49 ..
ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ॥ ०२.१०.५० ॥
jñāti-yauna-maukha-srauva-kula-hṛdaya-mitra-saṃkīrtanaṃ sambandha-upākhyānaṃ .. 02.10.50 ..
स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ॥ ०२.१०.५१ ॥
sva-pakṣa-para-pakṣayoranyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanaṃ .. 02.10.51 ..
अस्मिन्नेवं कृत इदं आवयोर्भवति इत्याशा-जननं आयति-प्रदर्शनं ॥ ०२.१०.५२ ॥
asminnevaṃ kṛta idaṃ āvayorbhavati ityāśā-jananaṃ āyati-pradarśanaṃ .. 02.10.52 ..
योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम् इत्यात्म-उपनिधानं इति ॥ ०२.१०.५३ ॥
yoahaṃ sa bhavān . yanmama dravyaṃ tadbhavatā sva-kṛtyeṣu prayojyatām ityātma-upanidhānaṃ iti .. 02.10.53 ..
उपप्रदानं अर्थ-उपकारः ॥ ०२.१०.५४ ॥
upapradānaṃ artha-upakāraḥ .. 02.10.54 ..
शङ्का-जननं निर्भर्त्सनं च भेदः ॥ ०२.१०.५५ ॥
śaṅkā-jananaṃ nirbhartsanaṃ ca bhedaḥ .. 02.10.55 ..
वधः परिक्लेशोअर्थ-हरणं दण्डः इति ॥ ०२.१०.५६ ॥
vadhaḥ parikleśoartha-haraṇaṃ daṇḍaḥ iti .. 02.10.56 ..
अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ॥ ०२.१०.५७ ॥
akāntirvyāghātaḥ punar-uktaṃ apaśabdaḥ samplava iti lekha-doṣaḥ .. 02.10.57 ..
तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ॥ ०२.१०.५८ ॥
tatra kāla-pattrakaṃ acāru-viṣaṃ avirāga-akṣaratvaṃ akāntiḥ .. 02.10.58 ..
पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ॥ ०२.१०.५९ ॥
pūrveṇa paścimasyānupapattirvyāghātaḥ .. 02.10.59 ..
उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ॥ ०२.१०.६० ॥
uktasyāviśeṣeṇa dvitīyaṃ uccāraṇaṃ punar-uktaṃ .. 02.10.60 ..
लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ॥ ०२.१०.६१ ॥
liṅga-vacana-kāla-kārakāṇāṃ anyathā-prayogoapaśabdaḥ .. 02.10.61 ..
अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ॥ ०२.१०.६२ ॥
avarge varga-karaṇaṃ cāvarga-kriyā guṇa-viparyāsaḥ samplavaḥ iti .. 02.10.62 ..
सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ॥ ०२.१०.६३अ ब ॥
sarva-śāstrāṇyanukramya prayogaṃ upalabhya ca . .. 02.10.63a ba ..
कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ॥ ०२.१०.६३च्द् ॥
kauṭilyena nara-indra-arthe śāsanasya vidhiḥ kṛtaḥ .. 02.10.63cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In