| |
|

This overlay will guide you through the buttons:

कोश-अध्यक्षः कोश-प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ॥ ०२.११.०१ ॥
कोश-अध्यक्षः कोश-प्रवेश्यम् रत्नम् सारम् फल्गुम् कुप्यम् वा तद्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ॥ ०२।११।०१ ॥
kośa-adhyakṣaḥ kośa-praveśyam ratnam sāram phalgum kupyam vā tad-jāta-karaṇa-adhiṣṭhitaḥ pratigṛhṇīyāt .. 02.11.01 ..
ताम्र-पर्णिकं पाण्ड्यक-वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकं ॥ ०२.११.०२ ॥
ताम्र-पर्णिकम् पाण्ड्यक-वाटकम् पाशिक्यम् कौलेयम् चौर्णेयम् माहेन्द्रम् कार्दमिकम् स्रौतसीयम् ह्रादीयम् हैमवतम् च मौक्तिकम् ॥ ०२।११।०२ ॥
tāmra-parṇikam pāṇḍyaka-vāṭakam pāśikyam kauleyam caurṇeyam māhendram kārdamikam srautasīyam hrādīyam haimavatam ca mauktikam .. 02.11.02 ..
शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥ ०२.११.०३ ॥
शुक्तिः शङ्खः प्रकीर्णकम् च योनयः ॥ ०२।११।०३ ॥
śuktiḥ śaṅkhaḥ prakīrṇakam ca yonayaḥ .. 02.11.03 ..
मसूरकं त्रि-पुटकं कूर्मकं अर्ध-चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तं ॥ ०२.११.०४ ॥
मसूरकम् त्रि-पुटकम् कूर्मकम् अर्धचन्द्रकम् कञ्चुकितम् यमकम् कर्तकम् खरकम् सिक्तकम् कामण्डलुकम् श्यावम् नीलम् दुर्विद्धम् च अप्रशस्तम् ॥ ०२।११।०४ ॥
masūrakam tri-puṭakam kūrmakam ardhacandrakam kañcukitam yamakam kartakam kharakam siktakam kāmaṇḍalukam śyāvam nīlam durviddham ca apraśastam .. 02.11.04 ..
स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश-विद्धं च प्रशस्तं ॥ ०२.११.०५ ॥
स्थूलम् वृत्तम् निस्तलम् भ्राजिष्णु श्वेतम् गुरु स्निग्धम् देश-विद्धम् च प्रशस्तम् ॥ ०२।११।०५ ॥
sthūlam vṛttam nistalam bhrājiṣṇu śvetam guru snigdham deśa-viddham ca praśastam .. 02.11.05 ..
शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरल-प्रतिबद्धं चैति यष्टि-प्रभेदाः ॥ ०२.११.०६ ॥
शीर्षकम् उपशीर्षकम् प्रकाण्डकम् अवघाटकम् तरल-प्रतिबद्धम् च एति यष्टि-प्रभेदाः ॥ ०२।११।०६ ॥
śīrṣakam upaśīrṣakam prakāṇḍakam avaghāṭakam tarala-pratibaddham ca eti yaṣṭi-prabhedāḥ .. 02.11.06 ..
यष्टीनां अष्ट-सहस्रं इन्द्रच्-छन्दः ॥ ०२.११.०७ ॥
यष्टीनाम् अष्ट-सहस्रम् इन्द्रद्-छन्दः ॥ ०२।११।०७ ॥
yaṣṭīnām aṣṭa-sahasram indrad-chandaḥ .. 02.11.07 ..
ततोअर्धं विजयच्-छन्दः ॥ ०२.११.०८ ॥
ततोअर्धम् विजयत्-छन्दः ॥ ०२।११।०८ ॥
tatoardham vijayat-chandaḥ .. 02.11.08 ..
चतुष्षष्टिरर्ध-हारः ॥ ०२.११.०९ ॥
चतुष्षष्टिः अर्ध-हारः ॥ ०२।११।०९ ॥
catuṣṣaṣṭiḥ ardha-hāraḥ .. 02.11.09 ..
चतुष्-पञ्चाशद्रश्मि-कलापः ॥ ०२.११.१० ॥
चतुष्-पञ्चाशत्-रश्मि-कलापः ॥ ०२।११।१० ॥
catuṣ-pañcāśat-raśmi-kalāpaḥ .. 02.11.10 ..
द्वात्रिंशद्गुच्छः ॥ ०२.११.११ ॥
द्वात्रिंशत्-गुच्छः ॥ ०२।११।११ ॥
dvātriṃśat-gucchaḥ .. 02.11.11 ..
सप्त-विंशतिर्नक्षत्र-माला ॥ ०२.११.१२ ॥
सप्त-विंशतिः नक्षत्र-माला ॥ ०२।११।१२ ॥
sapta-viṃśatiḥ nakṣatra-mālā .. 02.11.12 ..
चतुर्विंशतिरर्ध-गुच्छः ॥ ०२.११.१३ ॥
चतुर्विंशतिः अर्ध-गुच्छः ॥ ०२।११।१३ ॥
caturviṃśatiḥ ardha-gucchaḥ .. 02.11.13 ..
विंशतिर्माणवकः ॥ ०२.११.१४ ॥
विंशतिः माणवकः ॥ ०२।११।१४ ॥
viṃśatiḥ māṇavakaḥ .. 02.11.14 ..
ततोअर्धं अर्ध-माणवकः ॥ ०२.११.१५ ॥
ततोअर्धं अर्ध-माणवकः ॥ ०२।११।१५ ॥
tatoardhaṃ ardha-māṇavakaḥ .. 02.11.15 ..
एत एव मणि-मध्यास्तन्-माणवका भवन्ति ॥ ०२.११.१६ ॥
एते एव मणि-मध्याः तद्-माणवकाः भवन्ति ॥ ०२।११।१६ ॥
ete eva maṇi-madhyāḥ tad-māṇavakāḥ bhavanti .. 02.11.16 ..
एक-शीर्षकः शुद्धो हारः ॥ ०२.११.१७ ॥
एक-शीर्षकः शुद्धः हारः ॥ ०२।११।१७ ॥
eka-śīrṣakaḥ śuddhaḥ hāraḥ .. 02.11.17 ..
तद्वत्-शेषाः ॥ ०२.११.१८ ॥
तद्वत्-शेषाः ॥ ०२।११।१८ ॥
tadvat-śeṣāḥ .. 02.11.18 ..
मणि-मध्योअर्ध-माणवकः ॥ ०२.११.१९ ॥
मणि-मध्योअर्ध-माणवकः ॥ ०२।११।१९ ॥
maṇi-madhyoardha-māṇavakaḥ .. 02.11.19 ..
त्रि-फलकः फलक-हारः । पञ्च-फलको वा ॥ ०२.११.२० ॥
त्रि-फलकः फलक-हारः । पञ्च-फलकः वा ॥ ०२।११।२० ॥
tri-phalakaḥ phalaka-hāraḥ . pañca-phalakaḥ vā .. 02.11.20 ..
सूत्रं एकावली शुद्धा ॥ ०२.११.२१ ॥
सूत्रम् एक-आवली शुद्धा ॥ ०२।११।२१ ॥
sūtram eka-āvalī śuddhā .. 02.11.21 ..
साएव मणि-मध्या यष्टिः ॥ ०२.११.२२ ॥
साएव एव मणि-मध्या यष्टिः ॥ ०२।११।२२ ॥
sāeva eva maṇi-madhyā yaṣṭiḥ .. 02.11.22 ..
हेम-मणि-चित्रा रत्नावली ॥ ०२.११.२३ ॥
हेम-मणि-चित्रा रत्नावली ॥ ०२।११।२३ ॥
hema-maṇi-citrā ratnāvalī .. 02.11.23 ..
हेम-मणि-मुक्ता-अन्तरोअपवर्तकः ॥ ०२.११.२४ ॥
hema-maṇi-muktā-antaroapavartakaḥ || 02.11.24 ||
hema-maṇi-muktā-antaroapavartakaḥ || 02.11.24 ||
सुवर्ण-सूत्र-अन्तरं सोपानकं ॥ ०२.११.२५ ॥
सुवर्ण-सूत्र-अन्तरम् सोपानकम् ॥ ०२।११।२५ ॥
suvarṇa-sūtra-antaram sopānakam .. 02.11.25 ..
मणि-मध्यं वा मणि-सोपानकं ॥ ०२.११.२६ ॥
मणि-मध्यम् वा मणि-सोपानकम् ॥ ०२।११।२६ ॥
maṇi-madhyam vā maṇi-sopānakam .. 02.11.26 ..
तेन शिरो-हस्त-पाद-कटी-कलाप-जालक-विकल्पा व्याख्याताः ॥ ०२.११.२७ ॥
तेन शिरः-हस्त-पाद-कटी-कलाप-जालक-विकल्पाः व्याख्याताः ॥ ०२।११।२७ ॥
tena śiraḥ-hasta-pāda-kaṭī-kalāpa-jālaka-vikalpāḥ vyākhyātāḥ .. 02.11.27 ..
मणिः कौटो-मालेयकः पार-समुद्रकश्च ॥ ०२.११.२८ ॥
मणिः कौटः मालेयकः पार-समुद्रकः च ॥ ०२।११।२८ ॥
maṇiḥ kauṭaḥ māleyakaḥ pāra-samudrakaḥ ca .. 02.11.28 ..
सौगन्धिकः पद्म-रागोअनवद्य-रागः पारिजात-पुष्पको बाल-सूर्यकः ॥ ०२.११.२९ ॥
saugandhikaḥ padma-rāgoanavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ || 02.11.29 ||
saugandhikaḥ padma-rāgoanavadya-rāgaḥ pārijāta-puṣpako bāla-sūryakaḥ || 02.11.29 ||
वैडूर्यं उत्पल-वर्णः शिरीष-पुष्पक उदक-वर्णो वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागो गो-मूत्रको गो-मेदकः ॥ ०२.११.३० ॥
वैडूर्यम् उत्पल-वर्णः शिरीष-पुष्पकः उदक-वर्णः वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागः गो-मूत्रकः गो-मेदकः ॥ ०२।११।३० ॥
vaiḍūryam utpala-varṇaḥ śirīṣa-puṣpakaḥ udaka-varṇaḥ vaṃśa-rāgaḥ śuka-pattra-varṇaḥ puṣya-rāgaḥ go-mūtrakaḥ go-medakaḥ .. 02.11.30 ..
इन्द्र-नीलो नील-अवलीयः कलाय-पुष्पको महा-नीलो जम्ब्व्-आभो जीमूत-प्रभो नन्दकः स्रवन्-मध्यः ॥ ०२.११.३१ ॥
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābho jīmūta-prabho nandakaḥ sravan-madhyaḥ || 02.11.31 ||
indra-nīlo nīla-avalīyaḥ kalāya-puṣpako mahā-nīlo jambv-ābho jīmūta-prabho nandakaḥ sravan-madhyaḥ || 02.11.31 ||
शुद्ध-स्फटिको मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तश्च इति मणयः ॥ ०२.११.३२ ॥
शुद्ध-स्फटिकः मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तः च इति मणयः ॥ ०२।११।३२ ॥
śuddha-sphaṭikaḥ mūlāṭa-varṇaḥ śīta-vṛṣṭiḥ sūrya-kāntaḥ ca iti maṇayaḥ .. 02.11.32 ..
षड्-अश्रश्चतुर्-अश्रो वृत्तो वा तीव्र-रागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्-गत-प्रभः प्रभा-अनुलेपी चैति मणि-गुणाः ॥ ०२.११.३३ ॥
षष्-अश्रः चतुर्-अश्रः वृत्तः वा तीव्र-रागः स्निग्धः गुरुः अर्चिष्मान् अन्तर् गत-प्रभः प्रभा-अनुलेपी च एति मणि-गुणाः ॥ ०२।११।३३ ॥
ṣaṣ-aśraḥ catur-aśraḥ vṛttaḥ vā tīvra-rāgaḥ snigdhaḥ guruḥ arciṣmān antar gata-prabhaḥ prabhā-anulepī ca eti maṇi-guṇāḥ .. 02.11.33 ..
मन्द-राग-प्रभः सशर्करः पुष्पच्-छिद्रः खण्डो दुर्विद्धो लेख-आकीर्ण इति दोषाः ॥ ०२.११.३४ ॥
मन्द-राग-प्रभः स शर्करः पुष्प-छिद्रः खण्डः दुर्विद्धः लेख-आकीर्णः इति दोषाः ॥ ०२।११।३४ ॥
manda-rāga-prabhaḥ sa śarkaraḥ puṣpa-chidraḥ khaṇḍaḥ durviddhaḥ lekha-ākīrṇaḥ iti doṣāḥ .. 02.11.34 ..
विमलकः सस्यकोअञ्जन-मूलकः पित्तकः सुलभको लोहित-अक्षो मृग-अश्मको ज्योती-रसको मालेयकोअहिच्-छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि-कूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलक इत्यन्तर-जातयः ॥ ०२.११.३५ ॥
प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलकः इति अन्तर-जातयः ॥ ०२।११।३५ ॥
pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śśukti-cūrṇakaḥ śilā-pravālakaḥ pulakaḥ śukla-pulakaḥ iti antara-jātayaḥ .. 02.11.35 ..
शेषाः काच-मणयः ॥ ०२.११.३६ ॥
शेषाः काच-मणयः ॥ ०२।११।३६ ॥
śeṣāḥ kāca-maṇayaḥ .. 02.11.36 ..
सभा-राष्ट्रकं तज्जमा-राष्ट्रकं कास्तीर-राष्ट्रकं श्री-कटनकं मणिमन्तकं इन्द्र-वानकं च वज्रं ॥ ०२.११.३७ ॥
सभा-राष्ट्रकम् तद्-जमा-राष्ट्रकम् कास्तीर-राष्ट्रकम् श्री-कटनकम् मणिमन्तकम् इन्द्र-वानकम् च वज्रम् ॥ ०२।११।३७ ॥
sabhā-rāṣṭrakam tad-jamā-rāṣṭrakam kāstīra-rāṣṭrakam śrī-kaṭanakam maṇimantakam indra-vānakam ca vajram .. 02.11.37 ..
खनिः स्रोतः प्रकीर्णकं च योनयः ॥ ०२.११.३८ ॥
खनिः स्रोतः प्रकीर्णकम् च योनयः ॥ ०२।११।३८ ॥
khaniḥ srotaḥ prakīrṇakam ca yonayaḥ .. 02.11.38 ..
मार्जार-अक्षकं शिरीष-पुष्पकं गो-मूत्रकं गो-मेदकं शुद्ध-स्फटिकं मूलाटी-वर्णं मणि-वर्णानां अन्यतम-वर्णं इति वज्र-वर्णाः ॥ ०२.११.३९ ॥
मार्जार-अक्षकम् शिरीष-पुष्पकम् गो-मूत्रकम् गो-मेदकम् शुद्ध-स्फटिकम् मूलाटी-वर्णम् मणि-वर्णानाम् अन्यतम-वर्णम् इति वज्र-वर्णाः ॥ ०२।११।३९ ॥
mārjāra-akṣakam śirīṣa-puṣpakam go-mūtrakam go-medakam śuddha-sphaṭikam mūlāṭī-varṇam maṇi-varṇānām anyatama-varṇam iti vajra-varṇāḥ .. 02.11.39 ..
स्थूलं गुरु प्रहार-सहं समकोटिकं भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तं ॥ ०२.११.४० ॥
स्थूलम् गुरु प्रहार-सहम् सम-कोटिकम् भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तम् ॥ ०२।११।४० ॥
sthūlam guru prahāra-saham sama-koṭikam bhājana-lekhi tarku-bhrāmi bhrājiṣṇu ca praśastam .. 02.11.40 ..
नष्ट-कोणं निराश्रि पार्श्व-अपवृत्तं चाप्रशस्तं ॥ ०२.११.४१ ॥
नष्ट-कोणम् निराश्रि पार्श्व-अपवृत्तम् च अप्रशस्तम् ॥ ०२।११।४१ ॥
naṣṭa-koṇam nirāśri pārśva-apavṛttam ca apraśastam .. 02.11.41 ..
प्रवालकं आल-कन्दकं वैवर्णिकं च । रक्तं पद्म-रागं च करट-गर्भिणिका-वर्जं इति ॥ ०२.११.४२ ॥
प्रवालकम् आल-कन्दकम् वैवर्णिकम् च । रक्तम् पद्म-रागम् च करट-गर्भिणिका-वर्जम् इति ॥ ०२।११।४२ ॥
pravālakam āla-kandakam vaivarṇikam ca . raktam padma-rāgam ca karaṭa-garbhiṇikā-varjam iti .. 02.11.42 ..
चन्दनं सातनं रक्तं भूमि-गन्धि ॥ ०२.११.४३ ॥
candanaṃ sātanaṃ raktaṃ bhūmi-gandhi || 02.11.43 ||
candanaṃ sātanaṃ raktaṃ bhūmi-gandhi || 02.11.43 ||
गो-शीर्षकं काल-ताम्रं मत्स्य-गन्धि ॥ ०२.११.४४ ॥
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandhi || 02.11.44 ||
go-śīrṣakaṃ kāla-tāmraṃ matsya-gandhi || 02.11.44 ||
हरि-चन्दनं शुक-पत्त्र-वर्णं आम्र-गन्धि । तार्णसं च ॥ ०२.११.४५ ॥
हरि-चन्दनम् शुक-पत्त्र-वर्णम् आम्र-गन्धि । तार्णसम् च ॥ ०२।११।४५ ॥
hari-candanam śuka-pattra-varṇam āmra-gandhi . tārṇasam ca .. 02.11.45 ..
ग्रामेरुकं रक्तं रक्त-कालं वा बस्त-मूत्र-गन्धि ॥ ०२.११.४६ ॥
ग्रामेरुकम् रक्तम् रक्त-कालम् वा बस्त-मूत्र-गन्धि ॥ ०२।११।४६ ॥
grāmerukam raktam rakta-kālam vā basta-mūtra-gandhi .. 02.11.46 ..
दैवसभेयं रक्तं पद्म-गन्धि । जापकं च ॥ ०२.११.४७ ॥
दैवसभेयम् रक्तम् पद्म-गन्धि । जापकम् च ॥ ०२।११।४७ ॥
daivasabheyam raktam padma-gandhi . jāpakam ca .. 02.11.47 ..
जोङ्गकं रक्तं रक्त-कालं वा स्निग्धम् । तौरूपं च ॥ ०२.११.४८ ॥
जोङ्गकम् रक्तम् रक्त-कालम् वा स्निग्धम् । तौरूपम् च ॥ ०२।११।४८ ॥
joṅgakam raktam rakta-kālam vā snigdham . taurūpam ca .. 02.11.48 ..
मालेयकं पाण्डु-रक्तं ॥ ०२.११.४९ ॥
māleyakaṃ pāṇḍu-raktaṃ || 02.11.49 ||
māleyakaṃ pāṇḍu-raktaṃ || 02.11.49 ||
कुचन्दनं रूक्षं अगुरु-कालं रक्तं रक्त-कालं वा ॥ ०२.११.५० ॥
कुचन्दनम् रूक्षम् अगुरु-कालम् रक्तम् रक्त-कालम् वा ॥ ०२।११।५० ॥
kucandanam rūkṣam aguru-kālam raktam rakta-kālam vā .. 02.11.50 ..
काल-पर्वतकं रक्त-कालं अनवद्य-वर्णं वा ॥ ०२.११.५१ ॥
काल-पर्वतकम् रक्त-कालम् अनवद्य-वर्णम् वा ॥ ०२।११।५१ ॥
kāla-parvatakam rakta-kālam anavadya-varṇam vā .. 02.11.51 ..
कोश-अगार-पर्वतकं कालं काल-चित्रं वा ॥ ०२.११.५२ ॥
कोश-अगार-पर्वतकम् कालम् काल-चित्रम् वा ॥ ०२।११।५२ ॥
kośa-agāra-parvatakam kālam kāla-citram vā .. 02.11.52 ..
शीत-उदकीयं पद्म-आभं काल-स्निग्धं वा ॥ ०२.११.५३ ॥
शीत-उदकीयम् पद्म-आभम् काल-स्निग्धम् वा ॥ ०२।११।५३ ॥
śīta-udakīyam padma-ābham kāla-snigdham vā .. 02.11.53 ..
नाग-पर्वतकं रूक्षं शैवल-वर्णं वा ॥ ०२.११.५४ ॥
नाग-पर्वतकम् रूक्षम् शैवल-वर्णम् वा ॥ ०२।११।५४ ॥
nāga-parvatakam rūkṣam śaivala-varṇam vā .. 02.11.54 ..
शाकलं कपिलं इति ॥ ०२.११.५५ ॥
शाकलम् कपिलम् इति ॥ ०२।११।५५ ॥
śākalam kapilam iti .. 02.11.55 ..
लघु स्निग्धं अश्यानं सर्पिः-स्नेह-लेपि गन्ध-सुखं त्वग्-अनुसार्यनुल्बणं अविराग्युष्ण-सहं दाह-ग्राहि सुख-स्पर्शनं इति चन्दन-गुणाः ॥ ०२.११.५६ ॥
लघु स्निग्धम् अ श्यानम् सर्पिः-स्नेह-लेपि गन्ध-सुखम् त्वच्-अनुसारि अनुल्बणम् अविरागि उष्ण-सहम् दाह-ग्राहि सुख-स्पर्शनम् इति चन्दन-गुणाः ॥ ०२।११।५६ ॥
laghu snigdham a śyānam sarpiḥ-sneha-lepi gandha-sukham tvac-anusāri anulbaṇam avirāgi uṣṇa-saham dāha-grāhi sukha-sparśanam iti candana-guṇāḥ .. 02.11.56 ..
अगुरु जोङ्गकं कालं काल-चित्रं मण्डल-चित्रं वा ॥ ०२.११.५७ ॥
अगुरु जोङ्गकम् कालम् काल-चित्रम् मण्डल-चित्रम् वा ॥ ०२।११।५७ ॥
aguru joṅgakam kālam kāla-citram maṇḍala-citram vā .. 02.11.57 ..
श्यामं दोङ्गकं इति ॥ ०२.११.५८ ॥
श्यामम् इति ॥ ०२।११।५८ ॥
śyāmam iti .. 02.11.58 ..
पार-समुद्रकं चित्र-रूपं उशीर-गन्धि नव-मालिका-गन्धि वा ॥ ०२.११.५९ ॥
पार-समुद्रकम् चित्र-रूपम् उशीर-गन्धि नव-मालिका-गन्धि वा ॥ ०२।११।५९ ॥
pāra-samudrakam citra-rūpam uśīra-gandhi nava-mālikā-gandhi vā .. 02.11.59 ..
गुरु स्निग्धं पेशल-गन्धि निर्हार्यग्नि-सहं असम्प्लुत-धूमं विमर्द-सहं इत्यगुरु-गुणाः ॥ ०२.११.६० ॥
गुरु स्निग्धम् पेशल-गन्धि निर्हारि अग्नि-सहम् असम्प्लुत-धूमम् विमर्द-सहम् इति अगुरु-गुणाः ॥ ०२।११।६० ॥
guru snigdham peśala-gandhi nirhāri agni-saham asampluta-dhūmam vimarda-saham iti aguru-guṇāḥ .. 02.11.60 ..
तैल-पर्णिकं अशोक-ग्रामिकं मांस-वर्णं पद्म-गन्धि ॥ ०२.११.६१ ॥
तैल-पर्णिकम् अशोक-ग्रामिकम् मांस-वर्णम् पद्म-गन्धि ॥ ०२।११।६१ ॥
taila-parṇikam aśoka-grāmikam māṃsa-varṇam padma-gandhi .. 02.11.61 ..
जोङ्गकं रक्त-पीतकं उत्पल-गन्धि गो-मूत्र-गन्धि वा ॥ ०२.११.६२ ॥
जोङ्गकम् रक्त-पीतकम् उत्पल-गन्धि गो-मूत्र-गन्धि वा ॥ ०२।११।६२ ॥
joṅgakam rakta-pītakam utpala-gandhi go-mūtra-gandhi vā .. 02.11.62 ..
ग्रामेरुकं स्निग्धं गो-मूत्र-गन्धि ॥ ०२.११.६३ ॥
grāmerukaṃ snigdhaṃ go-mūtra-gandhi || 02.11.63 ||
grāmerukaṃ snigdhaṃ go-mūtra-gandhi || 02.11.63 ||
सौवर्ण-कुड्यकं रक्त-पीतं मातुलुङ्ग-गन्धि ॥ ०२.११.६४ ॥
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandhi || 02.11.64 ||
sauvarṇa-kuḍyakaṃ rakta-pītaṃ mātuluṅga-gandhi || 02.11.64 ||
पूर्णक-द्वीपकं पद्म-गन्धि नव-नीत-गन्धि वा ॥ ०२.११.६५ ॥
pūrṇaka-dvīpakaṃ padma-gandhi nava-nīta-gandhi vā || 02.11.65 ||
pūrṇaka-dvīpakaṃ padma-gandhi nava-nīta-gandhi vā || 02.11.65 ||
भद्र-श्रियं पारलौहित्यकं जाती-वर्णं ॥ ०२.११.६६ ॥
भद्र-श्रियम् पारलौहित्यकम् जाती-वर्णम् ॥ ०२।११।६६ ॥
bhadra-śriyam pāralauhityakam jātī-varṇam .. 02.11.66 ..
आन्तरवत्यं उशीर-वर्णं ॥ ०२.११.६७ ॥
आन्तरवत्यम् उशीर-वर्णम् ॥ ०२।११।६७ ॥
āntaravatyam uśīra-varṇam .. 02.11.67 ..
उभयं कुष्ठ-गन्धि च इति ॥ ०२.११.६८ ॥
उभयम् कुष्ठ-गन्धि च इति ॥ ०२।११।६८ ॥
ubhayam kuṣṭha-gandhi ca iti .. 02.11.68 ..
कालेयकः स्वर्ण-भूमिजः स्निग्ध-पीतकः ॥ ०२.११.६९ ॥
kāleyakaḥ svarṇa-bhūmijaḥ snigdha-pītakaḥ || 02.11.69 ||
kāleyakaḥ svarṇa-bhūmijaḥ snigdha-pītakaḥ || 02.11.69 ||
औत्तर-पर्वतको रक्त-पीतकः इति साराः । ॥ ०२.११.७० ॥
औत्तरपर्वतकः रक्त-पीतकः इति साराः । ॥ ०२।११।७० ॥
auttaraparvatakaḥ rakta-pītakaḥ iti sārāḥ . .. 02.11.70 ..
पिण्ड-क्वाथ-धूम-सहं अविरागि योग-अनुविधायि च ॥ ०२.११.७१ ॥
पिण्ड-क्वाथ-धूम-सहम् अविरागि योग-अनुविधायि च ॥ ०२।११।७१ ॥
piṇḍa-kvātha-dhūma-saham avirāgi yoga-anuvidhāyi ca .. 02.11.71 ..
चन्दन-अगुरुवच्च तेषां गुणाः ॥ ०२.११.७२ ॥
चन्दन-अगुरु-वत् च तेषाम् गुणाः ॥ ०२।११।७२ ॥
candana-aguru-vat ca teṣām guṇāḥ .. 02.11.72 ..
कान्तनावकं प्रैयकं चौत्तर-पर्वतकं चर्म ॥ ०२.११.७३ ॥
कान्त-नावकम् प्रैयकम् च औत्तर-पर्वतकम् चर्म ॥ ०२।११।७३ ॥
kānta-nāvakam praiyakam ca auttara-parvatakam carma .. 02.11.73 ..
कान्तनावकं मयूर-ग्रीव-आभं ॥ ०२.११.७४ ॥
कान्त-नावकम् मयूर-ग्रीव-आभम् ॥ ०२।११।७४ ॥
kānta-nāvakam mayūra-grīva-ābham .. 02.11.74 ..
प्रैयकं नील-पीत-श्वेत-लेखा-बिन्दु-चित्रं ॥ ०२.११.७५ ॥
praiyakaṃ nīla-pīta-śveta-lekhā-bindu-citraṃ || 02.11.75 ||
praiyakaṃ nīla-pīta-śveta-lekhā-bindu-citraṃ || 02.11.75 ||
तद्-उभयं अष्ट-अङ्गुल-आयामं ॥ ०२.११.७६ ॥
तत् उभयम् अष्ट-अङ्गुल-आयामम् ॥ ०२।११।७६ ॥
tat ubhayam aṣṭa-aṅgula-āyāmam .. 02.11.76 ..
बिसी महा-बिसी च द्वादश-ग्रामीये ॥ ०२.११.७७ ॥
बिसी महा-बिसी च द्वादश-ग्रामीये ॥ ०२।११।७७ ॥
bisī mahā-bisī ca dvādaśa-grāmīye .. 02.11.77 ..
अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ॥ ०२.११.७८ ॥
अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ॥ ०२।११।७८ ॥
avyakta-rūpā duhilitikā citrā vā bisī .. 02.11.78 ..
परुषा श्वेत-प्राया महाबिसी ॥ ०२.११.७९ ॥
परुषा श्वेत-प्राया महाबिसी ॥ ०२।११।७९ ॥
paruṣā śveta-prāyā mahābisī .. 02.11.79 ..
द्वादश-अङ्गुल-आयामं उभयं ॥ ०२.११.८० ॥
द्वादश-अङ्गुल-आयामम् उभयम् ॥ ०२।११।८० ॥
dvādaśa-aṅgula-āyāmam ubhayam .. 02.11.80 ..
श्यामिका कालिका कदली चन्द्र-उत्तरा शाकुला चऽरोहजाः ॥ ०२.११.८१ ॥
श्यामिका-कालिका-कदली-चन्द्र-उत्तरा शाकुला च अरोह-जाः ॥ ०२।११।८१ ॥
śyāmikā-kālikā-kadalī-candra-uttarā śākulā ca aroha-jāḥ .. 02.11.81 ..
कपिला बिन्दु-चित्रा वा श्यामिका ॥ ०२.११.८२ ॥
कपिला बिन्दु-चित्रा वा श्यामिका ॥ ०२।११।८२ ॥
kapilā bindu-citrā vā śyāmikā .. 02.11.82 ..
कालिका कपिला कपोत-वर्णा वा ॥ ०२.११.८३ ॥
कालिका कपिला कपोत-वर्णा वा ॥ ०२।११।८३ ॥
kālikā kapilā kapota-varṇā vā .. 02.11.83 ..
तदुभयं अष्ट-अङ्गुल-आयामं ॥ ०२.११.८४ ॥
तत् उभयम् अष्ट-अङ्गुल-आयामम् ॥ ०२।११।८४ ॥
tat ubhayam aṣṭa-aṅgula-āyāmam .. 02.11.84 ..
परुषा कदली हस्त-आयता ॥ ०२.११.८५ ॥
परुषा कदली हस्त-आयता ॥ ०२।११।८५ ॥
paruṣā kadalī hasta-āyatā .. 02.11.85 ..
साएव चन्द्र-चित्रा चन्द्र-उत्तरा ॥ ०२.११.८६ ॥
सा एव चन्द्र-चित्रा चन्द्र-उत्तरा ॥ ०२।११।८६ ॥
sā eva candra-citrā candra-uttarā .. 02.11.86 ..
कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिकाअजिन-चित्रा वा इति ॥ ०२.११.८७ ॥
कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिका-अजिन-चित्रा वा इति ॥ ०२।११।८७ ॥
kadalī-tri-bhāgā śākulā koṭha-maṇḍala-citrā kṛta-karṇikā-ajina-citrā vā iti .. 02.11.87 ..
सामूरं चीनसी सामूली च बाह्लवेयाः ॥ ०२.११.८८ ॥
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ || 02.11.88 ||
sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ || 02.11.88 ||
षट्-त्रिंशद्-अङ्गुलं अञ्जन-वर्णं सामूरं ॥ ०२.११.८९ ॥
षट्-त्रिंशत्-अङ्गुलम् अञ्जन-वर्णम् सामूरम् ॥ ०२।११।८९ ॥
ṣaṭ-triṃśat-aṅgulam añjana-varṇam sāmūram .. 02.11.89 ..
चीनसी रक्त-काली पाण्डु-काली वा ॥ ०२.११.९० ॥
चीनसी रक्त-काली पाण्डु-काली वा ॥ ०२।११।९० ॥
cīnasī rakta-kālī pāṇḍu-kālī vā .. 02.11.90 ..
सामूली गो-धूम-वर्णा इति ॥ ०२.११.९१ ॥
सामूली गो-धूम-वर्णा इति ॥ ०२।११।९१ ॥
sāmūlī go-dhūma-varṇā iti .. 02.11.91 ..
सांतिना नल-तूला वृत्त-पृच्छा चौद्राः ॥ ०२.११.९२ ॥
सांतिनाः नल-तूलाः वृत्त-पृच्छा चौद्राः ॥ ०२।११।९२ ॥
sāṃtināḥ nala-tūlāḥ vṛtta-pṛcchā caudrāḥ .. 02.11.92 ..
सातिना कृष्णा ॥ ०२.११.९३ ॥
सातिना कृष्णा ॥ ०२।११।९३ ॥
sātinā kṛṣṇā .. 02.11.93 ..
नल-तूला नल-तूल-वर्णा ॥ ०२.११.९४ ॥
नल-तूला नल-तूल-वर्णा ॥ ०२।११।९४ ॥
nala-tūlā nala-tūla-varṇā .. 02.11.94 ..
कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ॥ ०२.११.९५ ॥
कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ॥ ०२।११।९५ ॥
kapilā vṛtta-pucchā ca iti carma-jātayaḥ . .. 02.11.95 ..
चर्मणां मृदु स्निग्धं बहुल-रोम च श्रेष्ठं ॥ ०२.११.९६ ॥
चर्मणाम् मृदु स्निग्धम् बहुल-रोम च श्रेष्ठम् ॥ ०२।११।९६ ॥
carmaṇām mṛdu snigdham bahula-roma ca śreṣṭham .. 02.11.96 ..
शुद्धं शुद्ध-रक्तं पक्ष-रक्तं चऽविकम् । खचितं वान-चित्रं खण्ड-संघात्यं तन्तु-विच्छिन्नं च ॥ ०२.११.९७ ॥
शुद्धम् शुद्ध-रक्तम् पक्ष-रक्तम् च अविकम् । खचितम् वान-चित्रम् खण्ड-संघात्यम् तन्तु-विच्छिन्नम् च ॥ ०२।११।९७ ॥
śuddham śuddha-raktam pakṣa-raktam ca avikam . khacitam vāna-citram khaṇḍa-saṃghātyam tantu-vicchinnam ca .. 02.11.97 ..
कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणं वर्णकं तलिच्छकं वार-वाणः परिस्तोमः समन्त-भद्रकं चऽविकं ॥ ०२.११.९८ ॥
कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणम् वर्णकम् तलिच्छकम् वार-वाणः परिस्तोमः समन्त-भद्रकम् च अविकम् ॥ ०२।११।९८ ॥
kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga-āstaraṇam varṇakam talicchakam vāra-vāṇaḥ paristomaḥ samanta-bhadrakam ca avikam .. 02.11.98 ..
पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठं ॥ ०२.११.९९ ॥
पिच्छिलम् आर्द्रम् इव च सूक्ष्मम् मृदु च श्रेष्ठम् ॥ ०२।११।९९ ॥
picchilam ārdram iva ca sūkṣmam mṛdu ca śreṣṭham .. 02.11.99 ..
अष्ट-प्रोति-संघात्या कृष्णा भिङ्गिसी वर्ष-वारणं अपसारक इति नैपालकं ॥ ०२.११.१०० ॥
कृष्णा भिङ्गिसी वर्ष-वारणम् अपसारकः इति नैपालकम् ॥ ०२।११।१०० ॥
kṛṣṇā bhiṅgisī varṣa-vāraṇam apasārakaḥ iti naipālakam .. 02.11.100 ..
सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकाइति मृग-रोम ॥ ०२.११.१०१ ॥
सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकम् प्रावरकः मृग-रोम ॥ ०२।११।१०१ ॥
sampuṭikā catur-aśrikā lambarā kaṭavānakam prāvarakaḥ mṛga-roma .. 02.11.101 ..
वाङ्गकं श्वेतं स्निग्धं दुकूलं ॥ ०२.११.१०२ ॥
वाङ्गकम् श्वेतम् स्निग्धम् दुकूलम् ॥ ०२।११।१०२ ॥
vāṅgakam śvetam snigdham dukūlam .. 02.11.102 ..
पौण्ड्रकं श्यामं मणि-स्निग्धं ॥ ०२.११.१०३ ॥
pauṇḍrakaṃ śyāmaṃ maṇi-snigdhaṃ || 02.11.103 ||
pauṇḍrakaṃ śyāmaṃ maṇi-snigdhaṃ || 02.11.103 ||
सौवर्ण-कुड्यकं सूर्य-वर्णं मणि-स्निग्ध-उदक-वानं चतुर्-अश्र-वानं व्यामिश्र-वानं च ॥ ०२.११.१०४ ॥
सौवर्ण-कुड्यकम् सूर्य-वर्णम् मणि-स्निग्ध-उदक-वानम् चतुर्-अश्र-वानम् व्यामिश्र-वानम् च ॥ ०२।११।१०४ ॥
sauvarṇa-kuḍyakam sūrya-varṇam maṇi-snigdha-udaka-vānam catur-aśra-vānam vyāmiśra-vānam ca .. 02.11.104 ..
एतेषां एक-अंशुकं अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकं इति ॥ ०२.११.१०५ ॥
एतेषाम् एक-अंशुकम् अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकम् इति ॥ ०२।११।१०५ ॥
eteṣām eka-aṃśukam adhyardha-dvi-tri-catur-aṃśukam iti .. 02.11.105 ..
तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातं ॥ ०२.११.१०६ ॥
तेन काशिकम् पौण्ड्रकम् च क्षौमम् व्याख्यातम् ॥ ०२।११।१०६ ॥
tena kāśikam pauṇḍrakam ca kṣaumam vyākhyātam .. 02.11.106 ..
मागधिका पौण्ड्रिका सौवर्ण-कुड्यका च पत्त्र-ऊर्णा ॥ ०२.११.१०७ ॥
मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्र-ऊर्णा ॥ ०२।११।१०७ ॥
māgadhikā pauṇḍrikā sauvarṇakuḍyakā ca pattra-ūrṇā .. 02.11.107 ..
नाग-वृक्षो लिकुचो बकुलो वटश्च योनयः ॥ ०२.११.१०८ ॥
नाग-वृक्षः लिकुचः बकुलः वटः च योनयः ॥ ०२।११।१०८ ॥
nāga-vṛkṣaḥ likucaḥ bakulaḥ vaṭaḥ ca yonayaḥ .. 02.11.108 ..
पीतिका नाग-वृक्षिका ॥ ०२.११.१०९ ॥
pītikā nāga-vṛkṣikā || 02.11.109 ||
pītikā nāga-vṛkṣikā || 02.11.109 ||
गो-धूम-वर्णा लैकुची ॥ ०२.११.११० ॥
गो धूम-वर्णा लैकुची ॥ ०२।११।११० ॥
go dhūma-varṇā laikucī .. 02.11.110 ..
श्वेता बाकुली ॥ ०२.११.१११ ॥
श्वेता बाकुली ॥ ०२।११।१११ ॥
śvetā bākulī .. 02.11.111 ..
शेषा नव-नीत-वर्णा ॥ ०२.११.११२ ॥
शेषा नव-नीत-वर्णा ॥ ०२।११।११२ ॥
śeṣā nava-nīta-varṇā .. 02.11.112 ..
तासां सौवर्ण-कुड्यका श्रेष्ठा ॥ ०२.११.११३ ॥
तासाम् सौवर्ण-कुड्यका श्रेष्ठा ॥ ०२।११।११३ ॥
tāsām sauvarṇa-kuḍyakā śreṣṭhā .. 02.11.113 ..
तया कौशेयं चीन-पट्टाश्च चीन-भूमिजा व्याख्याताः ॥ ०२.११.११४ ॥
तया कौशेयम् चीन-पट्टाः च चीन-भूमि-जाः व्याख्याताः ॥ ०२।११।११४ ॥
tayā kauśeyam cīna-paṭṭāḥ ca cīna-bhūmi-jāḥ vyākhyātāḥ .. 02.11.114 ..
माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठं इति ॥ ०२.११.११५ ॥
माधुरम् आपरान्तकम् कालिङ्गम् काशिकम् वाङ्गकम् वात्सकम् माहिषकम् च कार्पासिकम् श्रेष्ठम् इति ॥ ०२।११।११५ ॥
mādhuram āparāntakam kāliṅgam kāśikam vāṅgakam vātsakam māhiṣakam ca kārpāsikam śreṣṭham iti .. 02.11.115 ..
अतः परेषां रत्नानां प्रमाणं मूल्य-लक्षणं । ॥ ०२.११.११६ ॥
अतस् परेषाम् रत्नानाम् प्रमाणम् मूल्य-लक्षणम् । ॥ ०२।११।११६ ॥
atas pareṣām ratnānām pramāṇam mūlya-lakṣaṇam . .. 02.11.116 ..
जातिं रूपं च जानीयान्निधानं नव-कर्म च ॥ ०२.११.११७ ॥
जातिम् रूपम् च जानीयात् निधानम् नव-कर्म च ॥ ०२।११।११७ ॥
jātim rūpam ca jānīyāt nidhānam nava-karma ca .. 02.11.117 ..
पुराण-प्रतिसंस्कारं कर्म गुह्यं उपस्करान् । ॥ ०२.११.११८ ॥
पुराण-प्रतिसंस्कारम् कर्म गुह्यम् उपस्करान् । ॥ ०२।११।११८ ॥
purāṇa-pratisaṃskāram karma guhyam upaskarān . .. 02.11.118 ..
देश-काल-परीभोगं हिंस्राणां च प्रतिक्रियां ॥ ०२.११.११९ ॥
देश-काल-परीभोगम् हिंस्राणाम् च प्रतिक्रियाम् ॥ ०२।११।११९ ॥
deśa-kāla-parībhogam hiṃsrāṇām ca pratikriyām .. 02.11.119 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In