| |
|

This overlay will guide you through the buttons:

आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ॥ ०२.१२.०१ ॥
आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-राग-ज्ञः तद्-ज्ञ-सखः वा तद्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गम् वाआकरम् भूत-पूर्वम् अ भुत-पूर्वम् वा भूमि-प्रस्तर-रस-धातुम् अत्यर्थ-वर्ण-गौरवम् उग्र-गन्ध-रसम् परीक्षेत ॥ ०२।१२।०१ ॥
ākara-adhyakṣaḥ śulba-dhātu-śāstra-rasa-pāka-maṇi-rāga-jñaḥ tad-jña-sakhaḥ vā tad-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bhasma-liṅgam vāākaram bhūta-pūrvam a bhuta-pūrvam vā bhūmi-prastara-rasa-dhātum atyartha-varṇa-gauravam ugra-gandha-rasam parīkṣeta .. 02.12.01 ..
पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ॥ ०२.१२.०२ ॥
पर्वतानाम् अभिज्ञात-उद्देशानाम् बिल-गुह-उपत्यक-आलयन-गूढ-खातेषु अन्तर् प्रस्यन्दिनः जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड-(गूड?)हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताः चिक्कणाः विशदाः भारिकाः च रसाः काञ्चनिकाः ॥ ०२।१२।०२ ॥
parvatānām abhijñāta-uddeśānām bila-guha-upatyaka-ālayana-gūḍha-khāteṣu antar prasyandinaḥ jambū-cūta-tāla-phala-pakva-haridrā-bheda-guḍa-(gūḍa?)hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadhi-paryantāḥ cikkaṇāḥ viśadāḥ bhārikāḥ ca rasāḥ kāñcanikāḥ .. 02.12.02 ..
अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ॥ ०२.१२.०३ ॥
अप्सु निष्ठ्यूताः तैल-वत् विसर्पिणः षङ्क-मल-ग्राहिणः च ताम्र-रूप्ययोः शतात् उपरि वेद्धारः ॥ ०२।१२।०३ ॥
apsu niṣṭhyūtāḥ taila-vat visarpiṇaḥ ṣaṅka-mala-grāhiṇaḥ ca tāmra-rūpyayoḥ śatāt upari veddhāraḥ .. 02.12.03 ..
तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ॥ ०२.१२.०४ ॥
तद्-प्रतिरूपकम् उग्र-गन्ध-रसम् शिला-जतु विद्यात् ॥ ०२।१२।०४ ॥
tad-pratirūpakam ugra-gandha-rasam śilā-jatu vidyāt .. 02.12.04 ..
पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ॥ ०२.१२.०५ ॥
पीतकाः ताम्रकाः ताम्र-पीतकाः वा भूमि-प्रस्तर-धातवः भिन्नाः नील-राजीवन्तः मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाः चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सु गुलिकाः अर्चिष्मन्तः ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाः च सुवर्ण-धातवः प्रतीवाप-अर्थाः ताम्र-रूप्य-वेधनाः ॥ ०२।१२।०५ ॥
pītakāḥ tāmrakāḥ tāmra-pītakāḥ vā bhūmi-prastara-dhātavaḥ bhinnāḥ nīla-rājīvantaḥ mudga-māṣa-kṛsara-varṇā vā dadhi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakṛt-plīha-anavadya-varṇā bhinnāḥ cuñcu-vāluka-ālekhā-bindu-svastikavantaḥ su gulikāḥ arciṣmantaḥ tāpyamānā na bhidyante bahu-phena-dhūmāḥ ca suvarṇa-dhātavaḥ pratīvāpa-arthāḥ tāmra-rūpya-vedhanāḥ .. 02.12.05 ..
शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ॥ ०२.१२.०६ ॥
शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स अञ्जनाः विस्राः भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्राः मृदवः ध्मायमानाः न स्फुटन्ति बहु-फेन-धूमाः च रूप्य-धातवः ॥ ०२।१२।०६ ॥
śaṅkha-karpūra-sphaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sasīsāḥ sa añjanāḥ visrāḥ bhinnāḥ śveta-ābhāḥ kṛṣṇāḥ kṛṣṇa-ābhāḥ śvetāḥ sarve vā lekhā-bindu-citrāḥ mṛdavaḥ dhmāyamānāḥ na sphuṭanti bahu-phena-dhūmāḥ ca rūpya-dhātavaḥ .. 02.12.06 ..
सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ॥ ०२.१२.०७ ॥
सर्व-धातूनाम् गौरव-वृद्धौ सत्त्व-वृद्धिः ॥ ०२।१२।०७ ॥
sarva-dhātūnām gaurava-vṛddhau sattva-vṛddhiḥ .. 02.12.07 ..
तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ॥ ०२.१२.०८ ॥
तेषाम् अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धाः तद्-प्रतीवापाः तद्-अवलेपाः वा विशुद्धाः स्रवन्ति ॥ ०२।१२।०८ ॥
teṣām aśuddhā mūḍha-garbhā vā tīkṣṇa-mūtra-kṣara-bhāvitā rāja-vṛkṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-khara-karabha-mūtra-leṇḍa-piṇḍa-baddhāḥ tad-pratīvāpāḥ tad-avalepāḥ vā viśuddhāḥ sravanti .. 02.12.08 ..
यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ॥ ०२.१२.०९ ॥
यव-माष-तिल-पलाश-पीलु-क्षारैः गो-क्षीर-अज-क्षीरैः वा कदली-वज्र-कन्द-प्रतीवपः मार्दव-करः ॥ ०२।१२।०९ ॥
yava-māṣa-tila-palāśa-pīlu-kṣāraiḥ go-kṣīra-aja-kṣīraiḥ vā kadalī-vajra-kanda-pratīvapaḥ mārdava-karaḥ .. 02.12.09 ..
मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ॥ ०२.१२.१०अ ब ॥
मधु-मधुकम् अजा-पयः स तैलम् घृत-गुड-किण्व-युतम् स कन्दलीकम् । ॥ ०२।१२।१०अ ब ॥
madhu-madhukam ajā-payaḥ sa tailam ghṛta-guḍa-kiṇva-yutam sa kandalīkam . .. 02.12.10a ba ..
यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ॥ ०२.१२.१०च्द् ॥
यत् अपि शत-सहस्रधा विभिन्नम् भवति मृदु त्रिभिः एव तद्-निषेकैः ॥ ०२।१२।१०च् ॥
yat api śata-sahasradhā vibhinnam bhavati mṛdu tribhiḥ eva tad-niṣekaiḥ .. 02.12.10c ..
गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ॥ ०२.१२.११ ॥
go-danta-śṛṅga-pratīvāpo mṛdu-stambhanaḥ || 02.12.11 ||
go-danta-śṛṅga-pratīvāpo mṛdu-stambhanaḥ || 02.12.11 ||
भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ॥ ०२.१२.१२ ॥
भारिकः स्निग्धः मृदुः च प्रस्तर-धातुः भूमि-भागः वा पिङ्गलः हरितः पाटलः लोहितः वा ताम्र-धातुः ॥ ०२।१२।१२ ॥
bhārikaḥ snigdhaḥ mṛduḥ ca prastara-dhātuḥ bhūmi-bhāgaḥ vā piṅgalaḥ haritaḥ pāṭalaḥ lohitaḥ vā tāmra-dhātuḥ .. 02.12.12 ..
काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ॥ ०२.१२.१३ ॥
काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धः वा विस्रः सीस-धातुः ॥ ०२।१२।१३ ॥
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddhaḥ vā visraḥ sīsa-dhātuḥ .. 02.12.13 ..
ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ॥ ०२.१२.१४ ॥
ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णः वा त्रपु-धातुः ॥ ०२।१२।१४ ॥
ūṣara-karburaḥ pakva-loṣṭha-varṇaḥ vā trapu-dhātuḥ .. 02.12.14 ..
खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ॥ ०२.१२.१५ ॥
खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णः वा तीक्ष्ण-धातुः ॥ ०२।१२।१५ ॥
kharumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇaḥ vā tīkṣṇa-dhātuḥ .. 02.12.15 ..
काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ॥ ०२.१२.१६ ॥
काक-अण्ड-भुज-पत्त्र-वर्णः वा वैकृन्तक-धातुः ॥ ०२।१२।१६ ॥
kāka-aṇḍa-bhuja-pattra-varṇaḥ vā vaikṛntaka-dhātuḥ .. 02.12.16 ..
अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ॥ ०२.१२.१७ ॥
अच्छः स्निग्धः स प्रभः घोषवान् शीतः तीव्रः तनु-रागः च मणि-धातुः ॥ ०२।१२।१७ ॥
acchaḥ snigdhaḥ sa prabhaḥ ghoṣavān śītaḥ tīvraḥ tanu-rāgaḥ ca maṇi-dhātuḥ .. 02.12.17 ..
धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ॥ ०२.१२.१८ ॥
धातु-समुत्थम् तद्-जात-कर्म-अन्तेषु प्रयोजयेत् ॥ ०२।१२।१८ ॥
dhātu-samuttham tad-jāta-karma-anteṣu prayojayet .. 02.12.18 ..
कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ॥ ०२.१२.१९ ॥
कृत-भाण्ड-व्यवहारम् एक-मुखम् । अत्ययम् च अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणाम् स्थापयेत् ॥ ०२।१२।१९ ॥
kṛta-bhāṇḍa-vyavahāram eka-mukham . atyayam ca anyatra kartṛ-kretṛ-vikretṛṛṇām sthāpayet .. 02.12.19 ..
आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ॥ ०२.१२.२० ॥
आकरिकम् अपहरन्तम् अष्ट-गुणम् दापयेत् अन्यत्र रत्नेभ्यः ॥ ०२।१२।२० ॥
ākarikam apaharantam aṣṭa-guṇam dāpayet anyatra ratnebhyaḥ .. 02.12.20 ..
स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ॥ ०२.१२.२१ ॥
स्तेनम् अनिसृष्ट-उपजीविनम् च बद्धम् कर्म कारयेत् । दण्ड-उपकारिणम् च ॥ ०२।१२।२१ ॥
stenam anisṛṣṭa-upajīvinam ca baddham karma kārayet . daṇḍa-upakāriṇam ca .. 02.12.21 ..
व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ॥ ०२.१२.२२ ॥
व्यय-क्रिया-भारिकम् भागेन प्रक्रयेण वा दद्यात् । लाघविकम् आत्मना कारयेत् ॥ ०२।१२।२२ ॥
vyaya-kriyā-bhārikam bhāgena prakrayeṇa vā dadyāt . lāghavikam ātmanā kārayet .. 02.12.22 ..
लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ॥ ०२.१२.२३ ॥
लोह-अध्यक्षः ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान् कारयेत् । लोह-भाण्ड-व्यवहारम् च ॥ ०२।१२।२३ ॥
loha-adhyakṣaḥ tāmra-sīsa-trapu-vaikṛnta-kāra-kūṭa-vṛtta-kaṃsa-tāla-loha-karma-antān kārayet . loha-bhāṇḍa-vyavahāram ca .. 02.12.23 ..
लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ॥ ०२.१२.२४ ॥
लक्षण-अध्यक्षः चतुर्-भाग-ताम्रम् रूप्य-रूपम् तीक्ष्ण-त्रपु-सीस-अञ्जनानाम् अन्यतम-माष-बीज-युक्तम् कारयेत् पणम् अर्ध-पणम् पादम् । अष्ट-भागं इति । पाद-आजीवम् ताम्र-रूपम् माषकम् अर्ध-माषकम् काकणीम् अर्ध-काकणीम् इति ॥ ०२।१२।२४ ॥
lakṣaṇa-adhyakṣaḥ catur-bhāga-tāmram rūpya-rūpam tīkṣṇa-trapu-sīsa-añjanānām anyatama-māṣa-bīja-yuktam kārayet paṇam ardha-paṇam pādam . aṣṭa-bhāgaṃ iti . pāda-ājīvam tāmra-rūpam māṣakam ardha-māṣakam kākaṇīm ardha-kākaṇīm iti .. 02.12.24 ..
रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ॥ ०२.१२.२५ ॥
रूप-दर्शकः पण-यात्राम् व्यावहारिकीम् कोश-प्रवेश्याम् च स्थापयेत् ॥ ०२।१२।२५ ॥
rūpa-darśakaḥ paṇa-yātrām vyāvahārikīm kośa-praveśyām ca sthāpayet .. 02.12.25 ..
रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ॥ ०२.१२.२६ ॥
रूपिकम् अष्टकम् शतम् । पञ्चकम् शतम् व्याजीम् । पारीक्षिकम् अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणम् अत्ययम् च अन्यत्र कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ॥ ०२।१२।२६ ॥
rūpikam aṣṭakam śatam . pañcakam śatam vyājīm . pārīkṣikam aṣṭa-bhāgikam . śatam . pañca-viṃśati-paṇam atyayam ca anyatra kartṛ-kretṛ-vikretṛ-parīkṣitṛbhyaḥ .. 02.12.26 ..
खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ॥ ०२.१२.२७ ॥
खनि-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान् कारयेत् । पणन-व्यवहारम् च ॥ ०२।१२।२७ ॥
khani-adhyakṣaḥ śaṅkha-vajra-maṇi-muktā-pravāla-kṣāra-karma-antān kārayet . paṇana-vyavahāram ca .. 02.12.27 ..
लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ॥ ०२.१२.२८ ॥
लवण-अध्यक्षः पाक-मुक्तम् लवण-भागम् प्रक्रयम् च यथाकालम् संगृह्णीयात् । विक्रयात् च मूल्यम् रूपम् व्याजीम् च ॥ ०२।१२।२८ ॥
lavaṇa-adhyakṣaḥ pāka-muktam lavaṇa-bhāgam prakrayam ca yathākālam saṃgṛhṇīyāt . vikrayāt ca mūlyam rūpam vyājīm ca .. 02.12.28 ..
आगन्तु-लवणं षड्-भागं दद्यात् ॥ ०२.१२.२९ ॥
आगन्तु-लवणम् षष्-भागम् दद्यात् ॥ ०२।१२।२९ ॥
āgantu-lavaṇam ṣaṣ-bhāgam dadyāt .. 02.12.29 ..
दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ॥ ०२.१२.३० ॥
दत्त-भाग-विभागस्य विक्रयः । पञ्चकम् शतम् व्याजीम् रूपम् रूपिकम् च ॥ ०२।१२।३० ॥
datta-bhāga-vibhāgasya vikrayaḥ . pañcakam śatam vyājīm rūpam rūpikam ca .. 02.12.30 ..
क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ॥ ०२.१२.३१ ॥
क्रेता शुल्कम् राज-पण्य-छेद-अनुरूपम् च वैधरणम् दद्यात् । अन्यत्र क्रेता षष्-शतम् अत्ययम् च ॥ ०२।१२।३१ ॥
kretā śulkam rāja-paṇya-cheda-anurūpam ca vaidharaṇam dadyāt . anyatra kretā ṣaṣ-śatam atyayam ca .. 02.12.31 ..
विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ॥ ०२.१२.३२ ॥
विलवणम् उत्तमम् दण्डम् दद्यात् । अनिष्ट-उपजीवी च अन्यत्र वानप्रस्थेभ्यः ॥ ०२।१२।३२ ॥
vilavaṇam uttamam daṇḍam dadyāt . aniṣṭa-upajīvī ca anyatra vānaprasthebhyaḥ .. 02.12.32 ..
श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ॥ ०२.१२.३३ ॥
श्रोत्रियाः तपस्विनः विष्टयः च भक्त-लवणम् हरेयुः ॥ ०२।१२।३३ ॥
śrotriyāḥ tapasvinaḥ viṣṭayaḥ ca bhakta-lavaṇam hareyuḥ .. 02.12.33 ..
अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ॥ ०२.१२.३४ ॥
अतोअन्यः लवण-क्षार-वर्गः शुल्कम् दद्यात् ॥ ०२।१२।३४ ॥
atoanyaḥ lavaṇa-kṣāra-vargaḥ śulkam dadyāt .. 02.12.34 ..
एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ॥ ०२.१२.३५अ ब ॥
एवम् मूल्यम् च भागम् च व्याजीम् परिघम् अत्ययम् । ॥ ०२।१२।३५अ ब ॥
evam mūlyam ca bhāgam ca vyājīm parigham atyayam . .. 02.12.35a ba ..
शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ॥ ०२.१२.३५च्द् ॥
शुल्कम् वैधरणम् दण्डम् रूपम् रूपिकम् एव च ॥ ०२।१२।३५च् ॥
śulkam vaidharaṇam daṇḍam rūpam rūpikam eva ca .. 02.12.35c ..
खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ॥ ०२.१२.३६अ ब ॥
खनिभ्यः द्वादश-विधम् धातुम् पण्यम् च संहरेत् । ॥ ०२।१२।३६अ ब ॥
khanibhyaḥ dvādaśa-vidham dhātum paṇyam ca saṃharet . .. 02.12.36a ba ..
एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ॥ ०२.१२.३६च्द् ॥
एवम् सर्वेषु पण्येषु स्थापयेत् मुख-संग्रहम् ॥ ०२।१२।३६च् ॥
evam sarveṣu paṇyeṣu sthāpayet mukha-saṃgraham .. 02.12.36c ..
आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ॥ ०२.१२.३७अ ब ॥
आकर-प्रभः कोशः कोशात् दण्डः प्रजायते । ॥ ०२।१२।३७अ ब ॥
ākara-prabhaḥ kośaḥ kośāt daṇḍaḥ prajāyate . .. 02.12.37a ba ..
पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ॥ ०२.१२.३७च्द् ॥
पृथिवी कोश-दण्डाभ्याम् प्राप्यते कोश-भूषणा ॥ ०२।१२।३७च् ॥
pṛthivī kośa-daṇḍābhyām prāpyate kośa-bhūṣaṇā .. 02.12.37c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In