| |
|

This overlay will guide you through the buttons:

सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ॥ ०२.१३.०१ ॥
सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानाम् असम्बन्ध-आवेशन-चतुः-शालाम् एक-द्वाराम् अक्ष-शालाम् कारयेत् ॥ ०२।१३।०१ ॥
suvarṇa-adhyakṣaḥ suvarṇa-rajata-karma-antānām asambandha-āveśana-catuḥ-śālām eka-dvārām akṣa-śālām kārayet .. 02.13.01 ..
विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ॥ ०२.१३.०२ ॥
विशिखा-मध्ये सौवर्णिकम् शिल्पवन्तम् अभिजातम् प्रात्ययिकम् च स्थापयेत् ॥ ०२।१३।०२ ॥
viśikhā-madhye sauvarṇikam śilpavantam abhijātam prātyayikam ca sthāpayet .. 02.13.02 ..
जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ॥ ०२.१३.०३ ॥
जाम्बूनदम् शातकुम्भम् हाटकम् वैणवम् शृङ्ग-शुक्ति-जम् जात-रूपम् रस-विद्धम् आकर-उद्गतम् च सुवर्णम् ॥ ०२।१३।०३ ॥
jāmbūnadam śātakumbham hāṭakam vaiṇavam śṛṅga-śukti-jam jāta-rūpam rasa-viddham ākara-udgatam ca suvarṇam .. 02.13.03 ..
किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ॥ ०२.१३.०४ ॥
किञ्जल्क-वर्णम् मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकम् मध्यमम् । रक्तम् अवरम् ॥ ०२।१३।०४ ॥
kiñjalka-varṇam mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭham . rakta-pītakam madhyamam . raktam avaram .. 02.13.04 ..
श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ॥ ०२.१३.०५ ॥
श्रेष्ठानाम् पाण्डु श्वेतम् च अप्राप्तकम् ॥ ०२।१३।०५ ॥
śreṣṭhānām pāṇḍu śvetam ca aprāptakam .. 02.13.05 ..
तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ॥ ०२.१३.०६ ॥
तत् येन अप्राप्तकम् तत् चतुर्-गुणेन सीसेन शोधयेत् ॥ ०२।१३।०६ ॥
tat yena aprāptakam tat catur-guṇena sīsena śodhayet .. 02.13.06 ..
सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ॥ ०२.१३.०७ ॥
सीस-अन्वयेन भिद्यमानम् शुष्क-पटलैः ध्मापयेत् ॥ ०२।१३।०७ ॥
sīsa-anvayena bhidyamānam śuṣka-paṭalaiḥ dhmāpayet .. 02.13.07 ..
रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ॥ ०२.१३.०८ ॥
रूक्ष-त्वात् भिद्यमानम् तैल-गोमये निषेचयेत् ॥ ०२।१३।०८ ॥
rūkṣa-tvāt bhidyamānam taila-gomaye niṣecayet .. 02.13.08 ..
आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ॥ ०२.१३.०९ ॥
आकर-उद्गतम् सीस-अन्वयेन भिद्यमानम् पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । वा निषेचयेत् ॥ ०२।१३।०९ ॥
ākara-udgatam sīsa-anvayena bhidyamānam pāka-pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet . vā niṣecayet .. 02.13.09 ..
तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ॥ ०२.१३.१० ॥
तुत्थ-उद्गतम् गौडिकम् काम्बुकम् चाक्रवालिकम् च रूप्यम् ॥ ०२।१३।१० ॥
tuttha-udgatam gauḍikam kāmbukam cākravālikam ca rūpyam .. 02.13.10 ..
श्वेतं स्निग्धं मृदु च श्रेष्ठं ॥ ०२.१३.११ ॥
श्वेतम् स्निग्धम् मृदु च श्रेष्ठम् ॥ ०२।१३।११ ॥
śvetam snigdham mṛdu ca śreṣṭham .. 02.13.11 ..
विपर्यये स्फोटनं च दुष्टं ॥ ०२.१३.१२ ॥
विपर्यये स्फोटनम् च दुष्टम् ॥ ०२।१३।१२ ॥
viparyaye sphoṭanam ca duṣṭam .. 02.13.12 ..
तत्-सीस-चतुर्-भागेन शोधयेत् ॥ ०२.१३.१३ ॥
तत् सीस-चतुर्-भागेन शोधयेत् ॥ ०२।१३।१३ ॥
tat sīsa-catur-bhāgena śodhayet .. 02.13.13 ..
उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ॥ ०२.१३.१४ ॥
उद्गत-चूलिकम् अच्छम् भ्राजिष्णु दधि-वर्णम् च शुद्धम् ॥ ०२।१३।१४ ॥
udgata-cūlikam accham bhrājiṣṇu dadhi-varṇam ca śuddham .. 02.13.14 ..
शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ॥ ०२.१३.१५ ॥
शुद्धस्य एकः हारिद्रस्य सुवर्णः वर्णकः ॥ ०२।१३।१५ ॥
śuddhasya ekaḥ hāridrasya suvarṇaḥ varṇakaḥ .. 02.13.15 ..
ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ॥ ०२.१३.१६ ॥
ततस् शुल्ब-काकणी-उत्तर-अपसारिता आ चतुर्-सीम-अन्तात् इति षोडश वर्णकाः ॥ ०२।१३।१६ ॥
tatas śulba-kākaṇī-uttara-apasāritā ā catur-sīma-antāt iti ṣoḍaśa varṇakāḥ .. 02.13.16 ..
सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ॥ ०२.१३.१७ ॥
सुवर्णम् पूर्वम् निकष्य पश्चात् वर्णिकाम् निकषयेत् ॥ ०२।१३।१७ ॥
suvarṇam pūrvam nikaṣya paścāt varṇikām nikaṣayet .. 02.13.17 ..
सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ॥ ०२.१३.१८ ॥
सम-राग-लेखम् अ निम्न-उन्नते देशे निकषितम् । परिमृदितम् परिलीढम् नख-अन्तरात् वा गैरिकेण अवचूर्णितम् उपधिम् विद्यात् ॥ ०२।१३।१८ ॥
sama-rāga-lekham a nimna-unnate deśe nikaṣitam . parimṛditam parilīḍham nakha-antarāt vā gairikeṇa avacūrṇitam upadhim vidyāt .. 02.13.18 ..
जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ॥ ०२.१३.१९ ॥
जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेन अग्र-हस्तेन संस्पृष्टम् सुवर्णम् श्वेती भवति ॥ ०२।१३।१९ ॥
jāti-hiṅgulukena puṣpakā-sīsena vā go-mūtra-bhāvitena digdhena agra-hastena saṃspṛṣṭam suvarṇam śvetī bhavati .. 02.13.19 ..
सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ॥ ०२.१३.२० ॥
स केसरः स्निग्धः मृदुः भाजिष्णुः च निकष-रागः श्रेष्ठः ॥ ०२।१३।२० ॥
sa kesaraḥ snigdhaḥ mṛduḥ bhājiṣṇuḥ ca nikaṣa-rāgaḥ śreṣṭhaḥ .. 02.13.20 ..
कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ॥ ०२.१३.२१ ॥
कालिङ्गकः तापी-पाषाणः वा मुद्ग-वर्णः निकषः श्रेष्ठः ॥ ०२।१३।२१ ॥
kāliṅgakaḥ tāpī-pāṣāṇaḥ vā mudga-varṇaḥ nikaṣaḥ śreṣṭhaḥ .. 02.13.21 ..
सम-रागी विक्रय-क्रय-हितः ॥ ०२.१३.२२ ॥
सम-रागी विक्रय-क्रय-हितः ॥ ०२।१३।२२ ॥
sama-rāgī vikraya-kraya-hitaḥ .. 02.13.22 ..
हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ॥ ०२.१३.२३ ॥
हस्ति-छविकः स हरितः प्रति रागी विक्रय-हितः ॥ ०२।१३।२३ ॥
hasti-chavikaḥ sa haritaḥ prati rāgī vikraya-hitaḥ .. 02.13.23 ..
स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ॥ ०२.१३.२४ ॥
स्थिरः परुषः विषम-वर्णः च अ प्रतिरागी क्रय-हितः ॥ ०२।१३।२४ ॥
sthiraḥ paruṣaḥ viṣama-varṇaḥ ca a pratirāgī kraya-hitaḥ .. 02.13.24 ..
छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ॥ ०२.१३.२५ ॥
छेदः चिक्कणः सम-वर्णः श्लक्ष्णः मृदुः भाजिष्णुः च श्रेष्ठः ॥ ०२।१३।२५ ॥
chedaḥ cikkaṇaḥ sama-varṇaḥ ślakṣṇaḥ mṛduḥ bhājiṣṇuḥ ca śreṣṭhaḥ .. 02.13.25 ..
तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ॥ ०२.१३.२६ ॥
तापः बहिस् अन्तर् च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णः वा श्रेष्ठः ॥ ०२।१३।२६ ॥
tāpaḥ bahis antar ca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇaḥ vā śreṣṭhaḥ .. 02.13.26 ..
श्यावो नीलश्चाप्राप्तकः ॥ ०२.१३.२७ ॥
श्यावः नीलः च अप्राप्तकः ॥ ०२।१३।२७ ॥
śyāvaḥ nīlaḥ ca aprāptakaḥ .. 02.13.27 ..
तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ॥ ०२.१३.२८ ॥
तुला-प्रतिमानम् पौतव-अध्यक्षे वक्ष्यामः ॥ ०२।१३।२८ ॥
tulā-pratimānam pautava-adhyakṣe vakṣyāmaḥ .. 02.13.28 ..
तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ॥ ०२.१३.२९ ॥
तेन औपदेशेन रूप्य-सुवर्णम् दद्यात् आददीत च ॥ ०२।१३।२९ ॥
tena aupadeśena rūpya-suvarṇam dadyāt ādadīta ca .. 02.13.29 ..
अक्ष-शालां अनायुक्तो नौपगच्छेत् ॥ ०२.१३.३० ॥
अक्ष-शालाम् अनायुक्तः न उपगच्छेत् ॥ ०२।१३।३० ॥
akṣa-śālām anāyuktaḥ na upagacchet .. 02.13.30 ..
अभिगच्छन्नुच्छेद्यः ॥ ०२.१३.३१ ॥
अभिगच्छन् उच्छेद्यः ॥ ०२।१३।३१ ॥
abhigacchan ucchedyaḥ .. 02.13.31 ..
आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ॥ ०२.१३.३२ ॥
आयुक्तः वा स रूप्य-सुवर्णः तेन एव जीयेत ॥ ०२।१३।३२ ॥
āyuktaḥ vā sa rūpya-suvarṇaḥ tena eva jīyeta .. 02.13.32 ..
विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ॥ ०२.१३.३३ ॥
विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवः ध्मायक-चरक-पांसु-धावकाः प्रविशेयुः निष्कसेयुः च ॥ ०२।१३।३३ ॥
vicita-vastra-hasta-guhyāḥ kāñcana-pṛṣata-tvaṣṭṛ-tapanīya-kāravaḥ dhmāyaka-caraka-pāṃsu-dhāvakāḥ praviśeyuḥ niṣkaseyuḥ ca .. 02.13.33 ..
सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ॥ ०२.१३.३४ ॥
सर्वम् च एषाम् उपकरणम् अनिष्ठिताः च प्रयोगाः तत्र एव अवतिष्ठेरन् ॥ ०२।१३।३४ ॥
sarvam ca eṣām upakaraṇam aniṣṭhitāḥ ca prayogāḥ tatra eva avatiṣṭheran .. 02.13.34 ..
गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ॥ ०२.१३.३५ ॥
गृहीतम् सुवर्णम् धृतम् च प्रयोगम् करण-मध्ये दद्यात् ॥ ०२।१३।३५ ॥
gṛhītam suvarṇam dhṛtam ca prayogam karaṇa-madhye dadyāt .. 02.13.35 ..
सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ॥ ०२.१३.३६ ॥
सायम् प्रातर् च लक्षितम् कर्तृ-कारयितृ-मुद्राभ्याम् निदध्यात् ॥ ०२।१३।३६ ॥
sāyam prātar ca lakṣitam kartṛ-kārayitṛ-mudrābhyām nidadhyāt .. 02.13.36 ..
क्षेपणो गुणः क्षुद्रकं इति कर्माणि ॥ ०२.१३.३७ ॥
क्षेपणः गुणः क्षुद्रकम् इति कर्माणि ॥ ०२।१३।३७ ॥
kṣepaṇaḥ guṇaḥ kṣudrakam iti karmāṇi .. 02.13.37 ..
क्षेपणः काच-अर्पण-आदीनि ॥ ०२.१३.३८ ॥
क्षेपणः काच-अर्पण-आदीनि ॥ ०२।१३।३८ ॥
kṣepaṇaḥ kāca-arpaṇa-ādīni .. 02.13.38 ..
गुणः सूत्र-वान-आदीनि ॥ ०२.१३.३९ ॥
गुणः सूत्र-वान-आदीनि ॥ ०२।१३।३९ ॥
guṇaḥ sūtra-vāna-ādīni .. 02.13.39 ..
घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ॥ ०२.१३.४० ॥
घनम् सुषिरम् पृषत-आदि-युक्तम् क्षुद्रकम् इति ॥ ०२।१३।४० ॥
ghanam suṣiram pṛṣata-ādi-yuktam kṣudrakam iti .. 02.13.40 ..
अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ॥ ०२.१३.४१ ॥
अर्पयेत् काच-कर्मणः पञ्च-भागम् काञ्चनम् दश-भागम् कटु-मानम् ॥ ०२।१३।४१ ॥
arpayet kāca-karmaṇaḥ pañca-bhāgam kāñcanam daśa-bhāgam kaṭu-mānam .. 02.13.41 ..
ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ॥ ०२.१३.४२ ॥
ताम्र-पाद-युक्तम् रूप्यम् रूप्य-पाद-युक्तम् वा सुवर्णम् संस्कृतकम् । तस्मात् रक्षेत् ॥ ०२।१३।४२ ॥
tāmra-pāda-yuktam rūpyam rūpya-pāda-yuktam vā suvarṇam saṃskṛtakam . tasmāt rakṣet .. 02.13.42 ..
पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ॥ ०२.१३.४३ ॥
पृषत-काच-कर्मणः त्रयः हि भागाः परिभाण्डम् द्वौ वास्तुकम् । चत्वारः वा वास्तुकम् त्रयः परिभाण्डम् ॥ ०२।१३।४३ ॥
pṛṣata-kāca-karmaṇaḥ trayaḥ hi bhāgāḥ paribhāṇḍam dvau vāstukam . catvāraḥ vā vāstukam trayaḥ paribhāṇḍam .. 02.13.43 ..
त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ॥ ०२.१३.४४ ॥
त्वष्टृ-कर्मणः शुल्ब-भाण्डम् सम-सुवर्णेन सम्यूहयेत् ॥ ०२।१३।४४ ॥
tvaṣṭṛ-karmaṇaḥ śulba-bhāṇḍam sama-suvarṇena samyūhayet .. 02.13.44 ..
रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ॥ ०२.१३.४५ ॥
रूप्य-भाण्डम् घनम् सुषिरम् वा सुवर्ण-अर्धेन अवलेपयेत् ॥ ०२।१३।४५ ॥
rūpya-bhāṇḍam ghanam suṣiram vā suvarṇa-ardhena avalepayet .. 02.13.45 ..
चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ॥ ०२.१३.४६ ॥
चतुर्-भाग-सुवर्णम् वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ॥ ०२।१३।४६ ॥
catur-bhāga-suvarṇam vā vālukā-hiṅgulukasya rasena cūrṇena vā vāsayet . .. 02.13.46 ..
तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ॥ ०२.१३.४७ ॥
तपनीयम् ज्येष्ठम् सुवर्णम् सु रागम् सम-सीस-अतिक्रान्तम् पाक-पत्त्र-पक्वम् सैन्धविकया उज्ज्वालितम् नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानाम् प्रकृतिः भवति ॥ ०२।१३।४७ ॥
tapanīyam jyeṣṭham suvarṇam su rāgam sama-sīsa-atikrāntam pāka-pattra-pakvam saindhavikayā ujjvālitam nīla-pīta-śveta-harita-śuka-pattra-varṇānām prakṛtiḥ bhavati .. 02.13.47 ..
तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ॥ ०२.१३.४८ ॥
तीक्ष्णम् च अस्य मयूर-ग्रीव-आभम् श्वेत-भङ्गम् चिमिचिमायितम् पीत-चूर्णितम् काकणिकः सुवर्ण-रागः ॥ ०२।१३।४८ ॥
tīkṣṇam ca asya mayūra-grīva-ābham śveta-bhaṅgam cimicimāyitam pīta-cūrṇitam kākaṇikaḥ suvarṇa-rāgaḥ .. 02.13.48 ..
तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ॥ ०२.१३.४९ ॥
तारम् उपशुद्धम् वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिस् गोमये द्विस् एवम् सप्त-दश-तुत्थ-अतिक्रान्तम् सैन्धविकया उज्ज्वालितम् ॥ ०२।१३।४९ ॥
tāram upaśuddham vā asthi-tutthe catuḥ sama-sīse catuḥ śuṣka-tutthe catuḥ kapāle tris gomaye dvis evam sapta-daśa-tuttha-atikrāntam saindhavikayā ujjvālitam .. 02.13.49 ..
एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ॥ ०२.१३.५० ॥
एतस्मात् काकणी-उत्तरमात् विमाषात् इति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारम् भवति । ॥ ०२।१३।५० ॥
etasmāt kākaṇī-uttaramāt vimāṣāt iti suvarṇe deyam . paścādrāga-yogaḥ . śveta-tāram bhavati . .. 02.13.50 ..
त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ॥ ०२.१३.५१ ॥
त्रयः अंशाः तपनीयस्य द्वात्रिंशत्-भाग-श्वेत-तारम् ऊर्च्छिताः तत् श्वेतलोहितकम् भवति ॥ ०२।१३।५१ ॥
trayaḥ aṃśāḥ tapanīyasya dvātriṃśat-bhāga-śveta-tāram ūrcchitāḥ tat śvetalohitakam bhavati .. 02.13.51 ..
ताम्रं पीतकं करोति ॥ ०२.१३.५२ ॥
ताम्रम् पीतकम् करोति ॥ ०२।१३।५२ ॥
tāmram pītakam karoti .. 02.13.52 ..
तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ॥ ०२.१३.५३ ॥
तपनीयम् उज्ज्वाल्य राग-त्रि-भागम् दद्यात् । पीत-रागम् भवति ॥ ०२।१३।५३ ॥
tapanīyam ujjvālya rāga-tri-bhāgam dadyāt . pīta-rāgam bhavati .. 02.13.53 ..
श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ॥ ०२.१३.५४ ॥
श्वेत-तार-भागौ द्वौ एकः तपनीयस्य मुद्ग-वर्णम् करोति ॥ ०२।१३।५४ ॥
śveta-tāra-bhāgau dvau ekaḥ tapanīyasya mudga-varṇam karoti .. 02.13.54 ..
काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ॥ ०२.१३.५५ ॥
काल-अयसस्य अर्ध-भाग-अभ्यक्तम् कृष्णम् भवति ॥ ०२।१३।५५ ॥
kāla-ayasasya ardha-bhāga-abhyaktam kṛṣṇam bhavati .. 02.13.55 ..
प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ॥ ०२.१३.५६ ॥
प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तम् तपनीयम् शुक-पत्त्र-वर्णम् भवति ॥ ०२।१३।५६ ॥
pratilepinā rasena dvi-guṇa-abhyaktam tapanīyam śuka-pattra-varṇam bhavati .. 02.13.56 ..
तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥ ०२.१३.५७ ॥
तस्य आरम्भे राग-विशेषेषु प्रतिवर्णिकाम् गृह्णीयात् ॥ ०२।१३।५७ ॥
tasya ārambhe rāga-viśeṣeṣu prativarṇikām gṛhṇīyāt .. 02.13.57 ..
तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ॥ ०२.१३.५८ ॥
तीक्ष्ण-ताम्र-संस्कारम् च बुध्येत ॥ ०२।१३।५८ ॥
tīkṣṇa-tāmra-saṃskāram ca budhyeta .. 02.13.58 ..
तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ॥ ०२.१३.५९ ॥
तस्मात् वज्र-मणि-मुक्ता-प्रवाल-रूपाणाम् अपनेयि-मानम् च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ॥ ०२।१३।५९ ॥
tasmāt vajra-maṇi-muktā-pravāla-rūpāṇām apaneyi-mānam ca rūpya-suvarṇa-bhāṇḍa-bandha-pramāṇāni ca .. 02.13.59 ..
सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ॥ ०२.१३.६०अ ब ॥
सम-रागम् सम-द्वन्द्वम् असक्त-पृषतम् स्थिरम् । ॥ ०२।१३।६०अ ब ॥
sama-rāgam sama-dvandvam asakta-pṛṣatam sthiram . .. 02.13.60a ba ..
सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ॥ ०२.१३.६०च्द् ॥
सु प्रमृष्टम् अ सम्पीतम् विभक्तम् धारणे सुखम् ॥ ०२।१३।६०च् ॥
su pramṛṣṭam a sampītam vibhaktam dhāraṇe sukham .. 02.13.60c ..
अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ॥ ०२.१३.६१अ ब ॥
अभिनीतम् प्रभा-युक्तम् संस्थानम् अधुरम् समम् । ॥ ०२।१३।६१अ ब ॥
abhinītam prabhā-yuktam saṃsthānam adhuram samam . .. 02.13.61a ba ..
मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ॥ ०२.१३.६१च्द् ॥
मनः-नेत्र-अभिरामम् च तपनीय-गुणाः स्मृताः ॥ ०२।१३।६१च् ॥
manaḥ-netra-abhirāmam ca tapanīya-guṇāḥ smṛtāḥ .. 02.13.61c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In