| |
|

This overlay will guide you through the buttons:

सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ॥ ०२.१३.०१ ॥
suvarṇa-adhyakṣaḥ suvarṇa-rajata-karma-antānāṃ asambandha-āveśana-catuḥ-śālāṃ eka-dvārāṃ akṣa-śālāṃ kārayet .. 02.13.01 ..
विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ॥ ०२.१३.०२ ॥
viśikhā-madhye sauvarṇikaṃ śilpavantaṃ abhijātaṃ prātyayikaṃ ca sthāpayet .. 02.13.02 ..
जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ॥ ०२.१३.०३ ॥
jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅga-śuktijaṃ jāta-rūpaṃ rasa-viddhaṃ ākara-udgataṃ ca suvarṇaṃ .. 02.13.03 ..
किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ॥ ०२.१३.०४ ॥
kiñjalka-varṇaṃ mṛdu snigdhaṃ anādi bhrājiṣṇu ca śreṣṭham . rakta-pītakaṃ madhyamam . raktaṃ avaraṃ .. 02.13.04 ..
श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ॥ ०२.१३.०५ ॥
śreṣṭhānāṃ pāṇḍu śvetaṃ cāprāptakaṃ .. 02.13.05 ..
तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ॥ ०२.१३.०६ ॥
tadyenāprāptakaṃ taccatur-guṇena sīsena śodhayet .. 02.13.06 ..
सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ॥ ०२.१३.०७ ॥
sīsa-anvayena bhidyamānaṃ śuṣka-paṭalairdhmāpayet .. 02.13.07 ..
रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ॥ ०२.१३.०८ ॥
rūkṣatvādbhidyamānaṃ taila-gomaye niṣecayet .. 02.13.08 ..
आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ॥ ०२.१३.०९ ॥
ākara-udgataṃ sīsa-anvayena bhidyamānaṃ pāka-pattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet . kadalī-vajra-kanda-kalke vā niṣecayet .. 02.13.09 ..
तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ॥ ०२.१३.१० ॥
tuttha-udgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyaṃ .. 02.13.10 ..
श्वेतं स्निग्धं मृदु च श्रेष्ठं ॥ ०२.१३.११ ॥
śvetaṃ snigdhaṃ mṛdu ca śreṣṭhaṃ .. 02.13.11 ..
विपर्यये स्फोटनं च दुष्टं ॥ ०२.१३.१२ ॥
viparyaye sphoṭanaṃ ca duṣṭaṃ .. 02.13.12 ..
तत्-सीस-चतुर्-भागेन शोधयेत् ॥ ०२.१३.१३ ॥
tat-sīsa-catur-bhāgena śodhayet .. 02.13.13 ..
उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ॥ ०२.१३.१४ ॥
udgata-cūlikaṃ acchaṃ bhrājiṣṇu dadhi-varṇaṃ ca śuddhaṃ .. 02.13.14 ..
शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ॥ ०२.१३.१५ ॥
śuddhasyaeko hāridrasya suvarṇo varṇakaḥ .. 02.13.15 ..
ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ॥ ०२.१३.१६ ॥
tataḥ śulba-kākaṇy-uttara-apasāritā ā-catuḥ-sīma-antāditi ṣoḍaśa varṇakāḥ .. 02.13.16 ..
सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ॥ ०२.१३.१७ ॥
suvarṇaṃ pūrvaṃ nikaṣya paścādvarṇikāṃ nikaṣayet .. 02.13.17 ..
सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ॥ ०२.१३.१८ ॥
sama-rāga-lekhaṃ animna-unnate deśe nikaṣitam . parimṛditaṃ parilīḍhaṃ nakha-antarādvā gairikeṇa-avacūrṇitaṃ upadhiṃ vidyāt .. 02.13.18 ..
जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ॥ ०२.१३.१९ ॥
jāti-hiṅgulukena puṣpakā-sīsena vā go-mūtra-bhāvitena digdhenāgra-hastena saṃspṛṣṭaṃ suvarṇaṃ śvetī-bhavati .. 02.13.19 ..
सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ॥ ०२.१३.२० ॥
sakesaraḥ snigdho mṛdurbhājiṣṇuśca nikaṣa-rāgaḥ śreṣṭhaḥ .. 02.13.20 ..
कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ॥ ०२.१३.२१ ॥
kāliṅgakastāpī-pāṣāṇo vā mudga-varṇo nikaṣaḥ śreṣṭhaḥ .. 02.13.21 ..
सम-रागी विक्रय-क्रय-हितः ॥ ०२.१३.२२ ॥
sama-rāgī vikraya-kraya-hitaḥ .. 02.13.22 ..
हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ॥ ०२.१३.२३ ॥
hastic-chavikaḥ saharitaḥ prati-rāgī vikraya-hitaḥ .. 02.13.23 ..
स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ॥ ०२.१३.२४ ॥
sthiraḥ paruṣo viṣama-varṇaścāpratirāgī kraya-hitaḥ .. 02.13.24 ..
छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ॥ ०२.१३.२५ ॥
chedaścikkaṇaḥ sama-varṇaḥ ślakṣṇo mṛdurbhājiṣṇuśca śreṣṭhaḥ .. 02.13.25 ..
तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ॥ ०२.१३.२६ ॥
tāpo bahir-antaśca samaḥ kiñjalka-varṇaḥ kuraṇḍaka-puṣpa-varṇo vā śreṣṭhaḥ .. 02.13.26 ..
श्यावो नीलश्चाप्राप्तकः ॥ ०२.१३.२७ ॥
śyāvo nīlaścāprāptakaḥ .. 02.13.27 ..
तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ॥ ०२.१३.२८ ॥
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ .. 02.13.28 ..
तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ॥ ०२.१३.२९ ॥
tenaupadeśena rūpya-suvarṇaṃ dadyādādadīta ca .. 02.13.29 ..
अक्ष-शालां अनायुक्तो नौपगच्छेत् ॥ ०२.१३.३० ॥
akṣa-śālāṃ anāyukto naupagacchet .. 02.13.30 ..
अभिगच्छन्नुच्छेद्यः ॥ ०२.१३.३१ ॥
abhigacchannucchedyaḥ .. 02.13.31 ..
आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ॥ ०२.१३.३२ ॥
āyukto vā sarūpya-suvarṇastenaeva jīyeta .. 02.13.32 ..
विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ॥ ०२.१३.३३ ॥
vicita-vastra-hasta-guhyāḥ kāñcana-pṛṣata-tvaṣṭṛ-tapanīya-kāravo dhmāyaka-caraka-pāṃsu-dhāvakāḥ praviśeyurniṣkaseyuśca .. 02.13.33 ..
सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ॥ ०२.१३.३४ ॥
sarvaṃ caeṣāṃ upakaraṇaṃ aniṣṭhitāśca prayogāstatraevāvatiṣṭheran .. 02.13.34 ..
गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ॥ ०२.१३.३५ ॥
gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇa-madhye dadyāt .. 02.13.35 ..
सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ॥ ०२.१३.३६ ॥
sāyaṃ prātaśca lakṣitaṃ kartṛ-kārayitṛ-mudrābhyāṃ nidadhyāt .. 02.13.36 ..
क्षेपणो गुणः क्षुद्रकं इति कर्माणि ॥ ०२.१३.३७ ॥
kṣepaṇo guṇaḥ kṣudrakaṃ iti karmāṇi .. 02.13.37 ..
क्षेपणः काच-अर्पण-आदीनि ॥ ०२.१३.३८ ॥
kṣepaṇaḥ kāca-arpaṇa-ādīni .. 02.13.38 ..
गुणः सूत्र-वान-आदीनि ॥ ०२.१३.३९ ॥
guṇaḥ sūtra-vāna-ādīni .. 02.13.39 ..
घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ॥ ०२.१३.४० ॥
ghanaṃ suṣiraṃ pṛṣata-ādi-yuktaṃ kṣudrakaṃ iti .. 02.13.40 ..
अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ॥ ०२.१३.४१ ॥
arpayetkāca-karmaṇaḥ pañca-bhāgaṃ kāñcanaṃ daśa-bhāgaṃ kaṭu-mānaṃ .. 02.13.41 ..
ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ॥ ०२.१३.४२ ॥
tāmra-pāda-yuktaṃ rūpyaṃ rūpya-pāda-yuktaṃ vā suvarṇaṃ saṃskṛtakam . tasmādrakṣet .. 02.13.42 ..
पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ॥ ०२.१३.४३ ॥
pṛṣata-kāca-karmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukam . catvāro vā vāstukaṃ trayaḥ paribhāṇḍaṃ .. 02.13.43 ..
त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ॥ ०२.१३.४४ ॥
tvaṣṭṛ-karmaṇaḥ śulba-bhāṇḍaṃ sama-suvarṇena samyūhayet .. 02.13.44 ..
रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ॥ ०२.१३.४५ ॥
rūpya-bhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇa-ardhenāvalepayet .. 02.13.45 ..
चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ॥ ०२.१३.४६ ॥
catur-bhāga-suvarṇaṃ vā vālukā-hiṅgulukasya rasena cūrṇena vā vāsayet . .. 02.13.46 ..
तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ॥ ०२.१३.४७ ॥
tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ sama-sīsa-atikrāntaṃ pāka-pattra-pakvaṃ saindhavikayāujjvālitaṃ nīla-pīta-śveta-harita-śuka-pattra-varṇānāṃ prakṛtirbhavati .. 02.13.47 ..
तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ॥ ०२.१३.४८ ॥
tīkṣṇaṃ cāsya mayūra-grīva-ābhaṃ śveta-bhaṅgaṃ cimicimāyitaṃ pīta-cūrṇitaṃ kākaṇikaḥ suvarṇa-rāgaḥ .. 02.13.48 ..
तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ॥ ०२.१३.४९ ॥
tāraṃ upaśuddhaṃ vā asthi-tutthe catuḥ sama-sīse catuḥ śuṣka-tutthe catuḥ kapāle trirgomaye dvirevaṃ sapta-daśa-tuttha-atikrāntaṃ saindhavikayāujjvālitaṃ .. 02.13.49 ..
एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ॥ ०२.१३.५० ॥
etasmātkākaṇy-uttaramādvimāṣāditi suvarṇe deyam . paścādrāga-yogaḥ . śveta-tāraṃ bhavati . .. 02.13.50 ..
त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ॥ ०२.१३.५१ ॥
trayoaṃśāstapanīyasya dvātriṃśad-bhāga-śveta-tāraṃ ūrcchitāḥ tatśveta-lohitakaṃ bhavati .. 02.13.51 ..
ताम्रं पीतकं करोति ॥ ०२.१३.५२ ॥
tāmraṃ pītakaṃ karoti .. 02.13.52 ..
तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ॥ ०२.१३.५३ ॥
tapanīyaṃ ujjvālya rāga-tri-bhāgaṃ dadyāt . pīta-rāgaṃ bhavati .. 02.13.53 ..
श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ॥ ०२.१३.५४ ॥
śveta-tāra-bhāgau dvāvekastapanīyasya mudga-varṇaṃ karoti .. 02.13.54 ..
काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ॥ ०२.१३.५५ ॥
kāla-ayasasyārdha-bhāga-abhyaktaṃ kṛṣṇaṃ bhavati .. 02.13.55 ..
प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ॥ ०२.१३.५६ ॥
pratilepinā rasena dvi-guṇa-abhyaktaṃ tapanīyaṃ śuka-pattra-varṇaṃ bhavati .. 02.13.56 ..
तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥ ०२.१३.५७ ॥
tasya-ārambhe rāga-viśeṣeṣu prativarṇikāṃ gṛhṇīyāt .. 02.13.57 ..
तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ॥ ०२.१३.५८ ॥
tīkṣṇa-tāmra-saṃskāraṃ ca budhyeta .. 02.13.58 ..
तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ॥ ०२.१३.५९ ॥
tasmādvajra-maṇi-muktā-pravāla-rūpāṇāṃ apaneyi-mānaṃ ca rūpya-suvarṇa-bhāṇḍa-bandha-pramāṇāni ca .. 02.13.59 ..
सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ॥ ०२.१३.६०अ ब ॥
sama-rāgaṃ sama-dvandvaṃ asakta-pṛṣataṃ sthiraṃ . .. 02.13.60a ba ..
सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ॥ ०२.१३.६०च्द् ॥
supramṛṣṭaṃ asampītaṃ vibhaktaṃ dhāraṇe sukhaṃ .. 02.13.60cd ..
अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ॥ ०२.१३.६१अ ब ॥
abhinītaṃ prabhā-yuktaṃ saṃsthānaṃ adhuraṃ samaṃ . .. 02.13.61a ba ..
मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ॥ ०२.१३.६१च्द् ॥
mano-netra-abhirāmaṃ ca tapanīya-guṇāḥ smṛtāḥ .. 02.13.61cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In