| |
|

This overlay will guide you through the buttons:

सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ॥ ०२.१४.०१ ॥
सौवर्णिकः पौर-जानपदानाम् रूप्य-सुवर्णम् आवेशनिभिः कारयेत् ॥ ०२।१४।०१ ॥
sauvarṇikaḥ paura-jānapadānām rūpya-suvarṇam āveśanibhiḥ kārayet .. 02.14.01 ..
निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ॥ ०२.१४.०२ ॥
निर्दिष्ट-काल-कार्यम् च कर्म कुर्युः । अनिर्दिष्ट-कालम् कार्य-अपदेशम् ॥ ०२।१४।०२ ॥
nirdiṣṭa-kāla-kāryam ca karma kuryuḥ . anirdiṣṭa-kālam kārya-apadeśam .. 02.14.02 ..
कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ॥ ०२.१४.०३ ॥
कार्यस्य अन्यथा करणे वेतन-नाशः । तद्-द्वि-गुणः च दण्डः ॥ ०२।१४।०३ ॥
kāryasya anyathā karaṇe vetana-nāśaḥ . tad-dvi-guṇaḥ ca daṇḍaḥ .. 02.14.03 ..
काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ॥ ०२.१४.०४ ॥
काल-अतिपातने पाद-हीनम् वेतनम् तद्-द्वि-गुणः च दण्डः ॥ ०२।१४।०४ ॥
kāla-atipātane pāda-hīnam vetanam tad-dvi-guṇaḥ ca daṇḍaḥ .. 02.14.04 ..
यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ॥ ०२.१४.०५ ॥
यथा वर्ण-प्रमाणम् निक्षेपम् गृह्णीयुः तथाविधम् एव अर्पयेयुः ॥ ०२।१४।०५ ॥
yathā varṇa-pramāṇam nikṣepam gṛhṇīyuḥ tathāvidham eva arpayeyuḥ .. 02.14.05 ..
काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ॥ ०२.१४.०६ ॥
काल-अन्तरात् अपि च तथाविधम् एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्याम् ॥ ०२।१४।०६ ॥
kāla-antarāt api ca tathāvidham eva pratigṛhṇīyuḥ . anyatra kṣīṇa-pariśīrṇābhyām .. 02.14.06 ..
आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ॥ ०२.१४.०७ ॥
आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत् तत् जानीयात् ॥ ०२।१४।०७ ॥
āveśanibhiḥ suvarṇa-pudgala-lakṣaṇa-prayogeṣu tat tat jānīyāt .. 02.14.07 ..
तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥ ०२.१४.०८ ॥
तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयः देयः ॥ ०२।१४।०८ ॥
tapta-kala-dhautakayoḥ kākaṇikaḥ suvarṇe kṣayaḥ deyaḥ .. 02.14.08 ..
तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ॥ ०२.१४.०९ ॥
। तस्य षष्-भागः क्षयः ॥ ०२।१४।०९ ॥
. tasya ṣaṣ-bhāgaḥ kṣayaḥ .. 02.14.09 ..
वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ॥ ०२.१४.१० ॥
वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधौ उत्तमः । कृत-भाण्ड-उपधौ च ॥ ०२।१४।१० ॥
varṇa-hīne māṣa-avare pūrvaḥ sāhasa-daṇḍaḥ . pramāṇa-hīne madhyamaḥ . tulā-pratimāna-upadhau uttamaḥ . kṛta-bhāṇḍa-upadhau ca .. 02.14.10 ..
सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ॥ ०२.१४.११ ॥
सौवर्णिकेन अदृष्टम् अन्यत्र वा प्रयोगम् कारयतः द्वादश-पणः दण्डः ॥ ०२।१४।११ ॥
sauvarṇikena adṛṣṭam anyatra vā prayogam kārayataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 02.14.11 ..
कर्तुर्द्वि-गुणः सापसारश्चेत् ॥ ०२.१४.१२ ॥
कर्तुः द्वि-गुणः स अपसारः चेद् ॥ ०२।१४।१२ ॥
kartuḥ dvi-guṇaḥ sa apasāraḥ ced .. 02.14.12 ..
अनपसारः कण्टक-शोधनाय नीयेत ॥ ०२.१४.१३ ॥
अनपसारः कण्टक-शोधनाय नीयेत ॥ ०२।१४।१३ ॥
anapasāraḥ kaṇṭaka-śodhanāya nīyeta .. 02.14.13 ..
कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ॥ ०२.१४.१४ ॥
कर्तुः च द्वि-शतः दण्डः पणत्-छेदनम् वा ॥ ०२।१४।१४ ॥
kartuḥ ca dvi-śataḥ daṇḍaḥ paṇat-chedanam vā .. 02.14.14 ..
तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ॥ ०२.१४.१५ ॥
तुला-प्रतिमान-भाण्डम् पौतव-हस्तात् क्रीणीयुः ॥ ०२।१४।१५ ॥
tulā-pratimāna-bhāṇḍam pautava-hastāt krīṇīyuḥ .. 02.14.15 ..
अन्यथा द्वादश-पणो दण्डः ॥ ०२.१४.१६ ॥
अन्यथा द्वादश-पणः दण्डः ॥ ०२।१४।१६ ॥
anyathā dvādaśa-paṇaḥ daṇḍaḥ .. 02.14.16 ..
घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ॥ ०२.१४.१७ ॥
घनम् सुषिरम् सम्यूह्यम् अवलेप्यम् संघात्यम् वासितकम् च कारु-कर्म ॥ ०२।१४।१७ ॥
ghanam suṣiram samyūhyam avalepyam saṃghātyam vāsitakam ca kāru-karma .. 02.14.17 ..
तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ॥ ०२.१४.१८ ॥
तुला-विषमम् अपसारणम् विस्रावणम् पेटकः पिङ्कः च एति हरण-उपायाः ॥ ०२।१४।१८ ॥
tulā-viṣamam apasāraṇam visrāvaṇam peṭakaḥ piṅkaḥ ca eti haraṇa-upāyāḥ .. 02.14.18 ..
सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ॥ ०२.१४.१९ ॥
सम्नामिनी उत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कु शिक्या स कटु-कक्ष्या परिवेल्या अ अयः-कान्ता च दुष्ट-तुलाः ॥ ०२।१४।१९ ॥
samnāminī utkīrṇikā bhinna-mastaka-upakaṇṭhī ku śikyā sa kaṭu-kakṣyā parivelyā a ayaḥ-kāntā ca duṣṭa-tulāḥ .. 02.14.19 ..
रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ॥ ०२.१४.२० ॥
रूप्यस्य द्वौ भागौ एकः शुल्बस्य त्रिपुटकम् ॥ ०२।१४।२० ॥
rūpyasya dvau bhāgau ekaḥ śulbasya tripuṭakam .. 02.14.20 ..
तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ॥ ०२.१४.२१ ॥
तेन आकर-उद्गतम् अपसार्यते तत् त्रिपुटक-अपसारितम् ॥ ०२।१४।२१ ॥
tena ākara-udgatam apasāryate tat tripuṭaka-apasāritam .. 02.14.21 ..
शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ॥ ०२.१४.२२ ॥
शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितम् ॥ ०२।१४।२२ ॥
śulbena śulba-apasāritam . vellakena vellaka-apasāritam . śulba-ardha-sāreṇa hemnā hema-apasāritam .. 02.14.22 ..
मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ॥ ०२.१४.२३ ॥
मूक-मूषा पूति-किट्टः करटुक-मुखम् नाली संदंशः जोङ्गनी सुवर्चिका-लवणम् तत् एव सुवर्णम् इति अपसारण-मार्गाः ॥ ०२।१४।२३ ॥
mūka-mūṣā pūti-kiṭṭaḥ karaṭuka-mukham nālī saṃdaṃśaḥ joṅganī suvarcikā-lavaṇam tat eva suvarṇam iti apasāraṇa-mārgāḥ .. 02.14.23 ..
पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ॥ ०२.१४.२४ ॥
पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदात् अग्निष्ठात् उद्ध्रियन्ते ॥ ०२।१४।२४ ॥
pūrva-praṇihitā vā piṇḍa-vālukā mūṣā-bhedāt agniṣṭhāt uddhriyante .. 02.14.24 ..
पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ॥ ०२.१४.२५ ॥
पश्चात् बन्धने आचितक-पत्त्र-परीक्षायाम् वा रूप्य-रूपेण परिवर्तनम् विस्रावणम् । पिण्ड-वालुकानाम् लोह-पिण्ड-वालुकाभिः वा ॥ ०२।१४।२५ ॥
paścāt bandhane ācitaka-pattra-parīkṣāyām vā rūpya-rūpeṇa parivartanam visrāvaṇam . piṇḍa-vālukānām loha-piṇḍa-vālukābhiḥ vā .. 02.14.25 ..
गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ॥ ०२.१४.२६ ॥
गाढः च अभ्युद्धार्यः च पेटकः सम्यूह्य-अवलेप्य-संघात्येषु क्रियते ॥ ०२।१४।२६ ॥
gāḍhaḥ ca abhyuddhāryaḥ ca peṭakaḥ samyūhya-avalepya-saṃghātyeṣu kriyate .. 02.14.26 ..
सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ॥ ०२.१४.२७ ॥
सीस-रूपम् सुवर्ण-पत्त्रेण अवलिप्तम् अभ्यन्तरम् अष्टकेन बद्धम् गाढ-पेटकः ॥ ०२।१४।२७ ॥
sīsa-rūpam suvarṇa-pattreṇa avaliptam abhyantaram aṣṭakena baddham gāḍha-peṭakaḥ .. 02.14.27 ..
स एव पटल-सम्पुटेष्वभ्युद्धार्यः ॥ ०२.१४.२८ ॥
सः एव पटल-सम्पुटेषु अभ्युद्धार्यः ॥ ०२।१४।२८ ॥
saḥ eva paṭala-sampuṭeṣu abhyuddhāryaḥ .. 02.14.28 ..
पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ॥ ०२.१४.२९ ॥
पत्त्रम् आश्लिष्टम् यमक-पत्त्रम् वा अ अवलेप्येषु क्रियते ॥ ०२।१४।२९ ॥
pattram āśliṣṭam yamaka-pattram vā a avalepyeṣu kriyate .. 02.14.29 ..
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥ ०२.१४.३० ॥
शुल्बम् तारम् वा गर्भः पत्त्राणाम् संघात्येषु क्रियते ॥ ०२।१४।३० ॥
śulbam tāram vā garbhaḥ pattrāṇām saṃghātyeṣu kriyate .. 02.14.30 ..
शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ॥ ०२.१४.३१ ॥
शुल्ब-रूपम् सुवर्ण-पत्त्र-संहतम् प्रमृष्टम् सुपार्श्वम् । तत् एव यमक-पत्त्र-संहतम् प्रमृष्टम् ताम्र-तार-रुपम् च औत्तर-वर्णकः ॥ ०२।१४।३१ ॥
śulba-rūpam suvarṇa-pattra-saṃhatam pramṛṣṭam supārśvam . tat eva yamaka-pattra-saṃhatam pramṛṣṭam tāmra-tāra-rupam ca auttara-varṇakaḥ .. 02.14.31 ..
तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ॥ ०२.१४.३२ ॥
तत् उभयम् तापनि-कषाभ्याम् निह्शब्द-उल्लेखनाभ्याम् वा विद्यात् ॥ ०२।१४।३२ ॥
tat ubhayam tāpani-kaṣābhyām nihśabda-ullekhanābhyām vā vidyāt .. 02.14.32 ..
अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ॥ ०२.१४.३३ ॥
अभ्युद्धार्यम् बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ॥ ०२।१४।३३ ॥
abhyuddhāryam badara-āmle lavaṇa-udake vā sādayanti iti peṭakaḥ .. 02.14.33 ..
घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ॥ ०२.१४.३४ ॥
घने सुषिरे वा रूपे सुवर्ण-मृद्-मालुका-हिङ्गुलुक-कल्पः वा तप्तः अवतिष्ठते ॥ ०२।१४।३४ ॥
ghane suṣire vā rūpe suvarṇa-mṛd-mālukā-hiṅguluka-kalpaḥ vā taptaḥ avatiṣṭhate .. 02.14.34 ..
दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ॥ ०२.१४.३५ ॥
दृढ-वास्तुके वा रूपे वालुका-मिश्रम् जतु गान्धार-पङ्कः वा तप्तः अवतिष्ठते ॥ ०२।१४।३५ ॥
dṛḍha-vāstuke vā rūpe vālukā-miśram jatu gāndhāra-paṅkaḥ vā taptaḥ avatiṣṭhate .. 02.14.35 ..
तयोस्तापनं अवध्वंसनं वा शुद्धिः ॥ ०२.१४.३६ ॥
तयोः तापनम् अवध्वंसनम् वा शुद्धिः ॥ ०२।१४।३६ ॥
tayoḥ tāpanam avadhvaṃsanam vā śuddhiḥ .. 02.14.36 ..
सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ॥ ०२.१४.३७ ॥
स परिभाण्डे वा रूपे लवणम् उल्कया कटु-शर्करया तप्तम् अवतिष्ठते ॥ ०२।१४।३७ ॥
sa paribhāṇḍe vā rūpe lavaṇam ulkayā kaṭu-śarkarayā taptam avatiṣṭhate .. 02.14.37 ..
तस्य क्वाथनं शुद्धिः ॥ ०२.१४.३८ ॥
तस्य क्वाथनम् शुद्धिः ॥ ०२।१४।३८ ॥
tasya kvāthanam śuddhiḥ .. 02.14.38 ..
अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ॥ ०२.१४.३९ ॥
अभ्र-पटलम् अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ॥ ०२।१४।३९ ॥
abhra-paṭalam aṣṭakena dvi-guṇa-vāstuke vā rūpe badhyate .. 02.14.39 ..
तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ॥ ०२.१४.४० ॥
तस्य अपिहित-काचकस्य औदके निमज्जतः एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ॥ ०२।१४।४० ॥
tasya apihita-kācakasya audake nimajjataḥ eka-deśaḥ sīdati . paṭala-antareṣu vā sūcyā bhidyate .. 02.14.40 ..
मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ॥ ०२.१४.४१ ॥
मणयः रूप्यम् सुवर्णम् वा घन-सुषिराणाम् पिङ्कः ॥ ०२।१४।४१ ॥
maṇayaḥ rūpyam suvarṇam vā ghana-suṣirāṇām piṅkaḥ .. 02.14.41 ..
तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ॥ ०२.१४.४२ ॥
तस्य तापनम् अवध्वंसनम् वा शुद्धिः इति पिङ्कः ॥ ०२।१४।४२ ॥
tasya tāpanam avadhvaṃsanam vā śuddhiḥ iti piṅkaḥ .. 02.14.42 ..
तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ॥ ०२.१४.४३ ॥
तस्मात् वज्र-मणि-मुक्ता-प्रवाल-रूपाणाम् जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणानि उपलभेत ॥ ०२।१४।४३ ॥
tasmāt vajra-maṇi-muktā-pravāla-rūpāṇām jāti-rūpa-varṇa-pramāṇa-pudgala-lakṣaṇāni upalabheta .. 02.14.43 ..
कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ॥ ०२.१४.४४ ॥
कृत-भाण्ड-परीक्षायाम् पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारः हरण-उपायाः परिकुट्टनम् अवच्छेदनम् उल्लेखनम् परिमर्दनम् वा ॥ ०२।१४।४४ ॥
kṛta-bhāṇḍa-parīkṣāyām purāṇa-bhāṇḍa-pratisaṃskāre vā catvāraḥ haraṇa-upāyāḥ parikuṭṭanam avacchedanam ullekhanam parimardanam vā .. 02.14.44 ..
पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ॥ ०२.१४.४५ ॥
पेटक-अपदेशेन पृषतम् गुणम् पिटकाम् वा यत् परिशातयन्ति तत् परिकुट्टनम् ॥ ०२।१४।४५ ॥
peṭaka-apadeśena pṛṣatam guṇam piṭakām vā yat pariśātayanti tat parikuṭṭanam .. 02.14.45 ..
यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ॥ ०२.१४.४६ ॥
यत् द्वि-गुण-वास्तुकानाम् वा रूपे सीस-रूपम् प्रक्षिप्य अभ्यन्तरम् अवच्छिन्दन्ति तत् अवच्छेदनम् ॥ ०२।१४।४६ ॥
yat dvi-guṇa-vāstukānām vā rūpe sīsa-rūpam prakṣipya abhyantaram avacchindanti tat avacchedanam .. 02.14.46 ..
यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ॥ ०२.१४.४७ ॥
यत् घनानाम् तीक्ष्णेन आ उल्लिखन्ति तत् उल्लेखनम् ॥ ०२।१४।४७ ॥
yat ghanānām tīkṣṇena ā ullikhanti tat ullekhanam .. 02.14.47 ..
हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ॥ ०२.१४.४८ ॥
हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानाम् अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रम् सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥ ०२।१४।४८ ॥
hari-tāla-manaḥ-śilā-hiṅguluka-cūrṇānām anyatamena kuru-vinda-cūrṇena vā vastram samyūhya yat parimṛdnanti tat parimardanam .. 02.14.48 ..
तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ॥ ०२.१४.४९ ॥
तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न च एषाम् किंचिद् अवरुग्णम् भवति ॥ ०२।१४।४९ ॥
tena sauvarṇa-rājatāni bhāṇḍāni kṣīyante . na ca eṣām kiṃcid avarugṇam bhavati .. 02.14.49 ..
भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ॥ ०२.१४.५० ॥
भग्न-खण्ड-घृष्टानाम् सम्यूह्यानाम् सदृशेन अनुमानम् कुर्यात् ॥ ०२।१४।५० ॥
bhagna-khaṇḍa-ghṛṣṭānām samyūhyānām sadṛśena anumānam kuryāt .. 02.14.50 ..
अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ॥ ०२.१४.५१ ॥
अवलेप्यानाम् यावत् उत्पाटितम् तावत् उत्पाट्य अनुमानम् कुर्यात् ॥ ०२।१४।५१ ॥
avalepyānām yāvat utpāṭitam tāvat utpāṭya anumānam kuryāt .. 02.14.51 ..
विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ॥ ०२.१४.५२ ॥
विरूपाणाम् वा तापनम् उदक-पेषणम् च बहुशस् कुर्यात् ॥ ०२।१४।५२ ॥
virūpāṇām vā tāpanam udaka-peṣaṇam ca bahuśas kuryāt .. 02.14.52 ..
अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ॥ ०२.१४.५३ ॥
अवक्षेपः प्रतिमानम् अग्निः गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रम् चेल्लम् बोल्लनम् शिरः उत्सङ्गः मक्षिका स्व-काय-ईक्षा दृतिः उदक-शरावम् अग्निष्ठः इति काचम् विद्यात् ॥ ०२।१४।५३ ॥
avakṣepaḥ pratimānam agniḥ gaṇḍikā bhaṇḍika-adhikaraṇī piñchaḥ sūtram cellam bollanam śiraḥ utsaṅgaḥ makṣikā sva-kāya-īkṣā dṛtiḥ udaka-śarāvam agniṣṭhaḥ iti kācam vidyāt .. 02.14.53 ..
राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ॥ ०२.१४.५४ ॥
राजतानाम् विस्रम् मल-ग्राहि परुषम् प्रस्तीनम् विवर्णम् वा दुष्टम् इति विद्यात् ॥ ०२।१४।५४ ॥
rājatānām visram mala-grāhi paruṣam prastīnam vivarṇam vā duṣṭam iti vidyāt .. 02.14.54 ..
एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ॥ ०२.१४.५५अ ब ॥
एवम् नवम् च जीर्णम् च विरूपम् च अपि भाण्डकम् । ॥ ०२।१४।५५अ ब ॥
evam navam ca jīrṇam ca virūpam ca api bhāṇḍakam . .. 02.14.55a ba ..
परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ॥ ०२.१४.५५च्द् ॥
परीक्षेत अत्ययम् च एषाम् यथा उद्दिष्टम् प्रकल्पयेत् ॥ ०२।१४।५५च् ॥
parīkṣeta atyayam ca eṣām yathā uddiṣṭam prakalpayet .. 02.14.55c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In