| |
|

This overlay will guide you through the buttons:

पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ॥ ०२.१६.०१ ॥
पण्य-अध्यक्षः स्थल-जल-जानाम् नाना विधानाम् पण्यानाम् स्थल-पथ-वारि-पथ-उपयातानाम् सार-फल्गु-अर्घ-अन्तरम् प्रिय-अप्रिय-ताम् च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ॥ ०२।१६।०१ ॥
paṇya-adhyakṣaḥ sthala-jala-jānām nānā vidhānām paṇyānām sthala-patha-vāri-patha-upayātānām sāra-phalgu-argha-antaram priya-apriya-tām ca vidyāt . tathā vikṣepa-saṃkṣepa-kraya-vikraya-prayoga-kālān .. 02.16.01 ..
यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ॥ ०२.१६.०२ ॥
यत् च पण्यम् प्रचुरम् स्यात् तत् एकीकृत्य अर्घम् आरोपयेत् ॥ ०२।१६।०२ ॥
yat ca paṇyam pracuram syāt tat ekīkṛtya argham āropayet .. 02.16.02 ..
प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ॥ ०२.१६.०३ ॥
प्राप्तेअर्घे वाअर्घ-अन्तरम् कारयेत् ॥ ०२।१६।०३ ॥
prāptearghe vāargha-antaram kārayet .. 02.16.03 ..
स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ॥ ०२.१६.०४ ॥
स्व-भूमि-जानाम् राज-पण्यानाम् एक-मुखम् व्यवहारम् स्थापयेत् । पर-भूमिजानाम् अनेक-मुखम् ॥ ०२।१६।०४ ॥
sva-bhūmi-jānām rāja-paṇyānām eka-mukham vyavahāram sthāpayet . para-bhūmijānām aneka-mukham .. 02.16.04 ..
उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ॥ ०२.१६.०५ ॥
उभयम् च प्रजानाम् अनुग्रहेण ॥ ०२।१६।०५ ॥
ubhayam ca prajānām anugraheṇa .. 02.16.05 ..
स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ॥ ०२.१६.०६ ॥
स्थूलम् अपि च लाभम् प्रजानाम् औपघातिकम् वारयेत् ॥ ०२।१६।०६ ॥
sthūlam api ca lābham prajānām aupaghātikam vārayet .. 02.16.06 ..
अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ॥ ०२.१६.०७ ॥
अजस्र-पण्यानाम् काल-उपरोधम् संकुल-दोषम् वा न उत्पादयेत् ॥ ०२।१६।०७ ॥
ajasra-paṇyānām kāla-uparodham saṃkula-doṣam vā na utpādayet .. 02.16.07 ..
बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ॥ ०२.१६.०८ ॥
बहु-मुखम् वा राज-पण्यम् वैदेहकाः कृत-अर्घम् विक्रीणीरन् ॥ ०२।१६।०८ ॥
bahu-mukham vā rāja-paṇyam vaidehakāḥ kṛta-argham vikrīṇīran .. 02.16.08 ..
छेद-अनुरूपं च वैधरणं दद्युः ॥ ०२.१६.०९ ॥
छेद-अनुरूपम् च वैधरणम् दद्युः ॥ ०२।१६।०९ ॥
cheda-anurūpam ca vaidharaṇam dadyuḥ .. 02.16.09 ..
षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ॥ ०२.१६.१० ॥
षोडश-भागः मान-व्याजी । विंशति-भागः तुला-मानम् । गण्य-पण्यानाम् एकादश-भागः ॥ ०२।१६।१० ॥
ṣoḍaśa-bhāgaḥ māna-vyājī . viṃśati-bhāgaḥ tulā-mānam . gaṇya-paṇyānām ekādaśa-bhāgaḥ .. 02.16.10 ..
पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ॥ ०२.१६.११ ॥
पर-भूमि-जम् पण्यम् अनुग्रहेण आवाहयेत् ॥ ०२।१६।११ ॥
para-bhūmi-jam paṇyam anugraheṇa āvāhayet .. 02.16.11 ..
नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ॥ ०२.१६.१२ ॥
न अविकस-अर्थ-वाहेभ्यः च परिहारम् आयति-क्षमम् दद्यात् ॥ ०२।१६।१२ ॥
na avikasa-artha-vāhebhyaḥ ca parihāram āyati-kṣamam dadyāt .. 02.16.12 ..
अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ॥ ०२.१६.१३ ॥
अनभियोगः च अर्थेषु आगन्तूनाम् । अन्यत्र सभ्य-आ उपकारिभ्यः ॥ ०२।१६।१३ ॥
anabhiyogaḥ ca artheṣu āgantūnām . anyatra sabhya-ā upakāribhyaḥ .. 02.16.13 ..
पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ॥ ०२.१६.१४ ॥
पण्य-अधिष्ठातारः पण्य-मूल्यम् एक-मुखम् काष्ठ-द्रोण्याम् एकच्-छिद्र-अपिधानायाम् निदध्युः ॥ ०२।१६।१४ ॥
paṇya-adhiṣṭhātāraḥ paṇya-mūlyam eka-mukham kāṣṭha-droṇyām ekac-chidra-apidhānāyām nidadhyuḥ .. 02.16.14 ..
अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ॥ ०२.१६.१५ ॥
अह्नः च अष्टमे भागे पण्य-अध्यक्षस्य अर्पयेयुः "इदम् विक्रीतम् । इदम् शेषम्" इति ॥ ०२।१६।१५ ॥
ahnaḥ ca aṣṭame bhāge paṇya-adhyakṣasya arpayeyuḥ "idam vikrītam . idam śeṣam" iti .. 02.16.15 ..
तुला-मान-भाण्डं चार्पयेयुः ॥ ०२.१६.१६ ॥
तुला-मान-भाण्डम् च अर्पयेयुः ॥ ०२।१६।१६ ॥
tulā-māna-bhāṇḍam ca arpayeyuḥ .. 02.16.16 ..
इति स्व-विषये व्याख्यातं ॥ ०२.१६.१७ ॥
इति स्व-विषये व्याख्यातम् ॥ ०२।१६।१७ ॥
iti sva-viṣaye vyākhyātam .. 02.16.17 ..
पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ॥ ०२.१६.१८ ॥
पर-विषये तु पण्य-प्रतिपण्ययोः अर्घम् मूल्यम् च अ गमय्य शुल्क-वर्तन्या आआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धम् उदयम् पश्येत् ॥ ०२।१६।१८ ॥
para-viṣaye tu paṇya-pratipaṇyayoḥ argham mūlyam ca a gamayya śulka-vartanyā āātivāhika-gulmatara-deya-bhakta-bhāga-vyaya-śuddham udayam paśyet .. 02.16.18 ..
असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ॥ ०२.१६.१९ ॥
असति उदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभम् पश्येत् ॥ ०२।१६।१९ ॥
asati udaye bhāṇḍa-nirvahaṇena paṇya-pratipaṇya-ānayanena vā lābham paśyet .. 02.16.19 ..
ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ॥ ०२.१६.२० ॥
ततस् सार-पादेन स्थल-व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥ ०२।१६।२० ॥
tatas sāra-pādena sthala-vyavahāram adhvanā kṣemeṇa prayojayet .. 02.16.20 ..
अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ॥ ०२.१६.२१ ॥
अटवी-अन्त-पाल-पुर-राष्ट्र-मुख्यैः च प्रतिसंसर्गम् गच्छेत् अनुग्रह-अर्थम् ॥ ०२।१६।२१ ॥
aṭavī-anta-pāla-pura-rāṣṭra-mukhyaiḥ ca pratisaṃsargam gacchet anugraha-artham .. 02.16.21 ..
आपदि सारं आत्मानं वा मोक्षयेत् ॥ ०२.१६.२२ ॥
आपदि सारम् आत्मानम् वा मोक्षयेत् ॥ ०२।१६।२२ ॥
āpadi sāram ātmānam vā mokṣayet .. 02.16.22 ..
आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ॥ ०२.१६.२३ ॥
आत्मनः वा भूमिम् प्राप्तः सर्व-देय-विशुद्धम् व्यवहरेत ॥ ०२।१६।२३ ॥
ātmanaḥ vā bhūmim prāptaḥ sarva-deya-viśuddham vyavahareta .. 02.16.23 ..
वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ॥ ०२.१६.२४ ॥
वारि-पथे वा यान-भागक-पथि-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राणि उपलभेत ॥ ०२।१६।२४ ॥
vāri-pathe vā yāna-bhāgaka-pathi-adana-paṇya-pratipaṇya-argha-pramāṇa-yātrā-kāla-bhaya-pratīkāra-paṇya-pattana-cāritrāṇi upalabheta .. 02.16.24 ..
नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ॥ ०२.१६.२५अ ब ॥
नदी-पथे च विज्ञाय व्यवहारम् चरित्रतः । ॥ ०२।१६।२५अ ब ॥
nadī-pathe ca vijñāya vyavahāram caritrataḥ . .. 02.16.25a ba ..
यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ॥ ०२.१६.२५च्द् ॥
यतस् लाभः ततस् गच्छेत् अलाभम् परिवर्जयेत् ॥ ०२।१६।२५च् ॥
yatas lābhaḥ tatas gacchet alābham parivarjayet .. 02.16.25c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In