| |
|

This overlay will guide you through the buttons:

कुप्य-अध्यक्षो द्रव्य-वन-पालैः कुप्यं आनाययेत् ॥ ०२.१७.०१ ॥
कुप्य-अध्यक्षः द्रव्य-वन-पालैः कुप्यम् आनाययेत् ॥ ०२।१७।०१ ॥
kupya-adhyakṣaḥ dravya-vana-pālaiḥ kupyam ānāyayet .. 02.17.01 ..
द्रव्य-वन-कर्म-अन्तांश्च प्रयोजयेत् ॥ ०२.१७.०२ ॥
द्रव्य-वन-कर्म-अन्तान् च प्रयोजयेत् ॥ ०२।१७।०२ ॥
dravya-vana-karma-antān ca prayojayet .. 02.17.02 ..
द्रव्य-वनच्-छिद्रां च देयं अत्ययं च स्थापयेदन्यत्रऽपद्भ्यः ॥ ०२.१७.०३ ॥
द्रव्य-वनत्-छिद्राम् च देयम् अत्ययम् च स्थापयेत् अन्यत्र अ पद्भ्यः ॥ ०२।१७।०३ ॥
dravya-vanat-chidrām ca deyam atyayam ca sthāpayet anyatra a padbhyaḥ .. 02.17.03 ..
कुप्य-वर्गः शाक-तिनिश-धन्वन-अर्जुन-मधूक-तिलक-साल-शिंशपा-अरिमेद-राज-अदन-शिरीष-खदिर-सरल-ताल-सर्ज-अश्व-कर्ण-सोम-वल्क-कुश-आम्र-प्रियक-धव-आदिः सार-दारु-वर्गः ॥ ०२.१७.०४ ॥
क उ ॥ ०२।१७।०४ ॥
ka u .. 02.17.04 ..
उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिर्वेणु-वर्गः ॥ ०२.१७.०५ ॥
उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिः वेणु-वर्गः ॥ ०२।१७।०५ ॥
uṭaja-cimiya-cāpa-veṇu-vaṃśa-sātina-kaṇṭaka-bhāllūka-ādiḥ veṇu-vargaḥ .. 02.17.05 ..
वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिर्वल्ली-वर्गः ॥ ०२.१७.०६ ॥
वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिः वल्ली-वर्गः ॥ ०२।१७।०६ ॥
vetra-śīka-vallī-vāśī-śyāma-latā-nāga-latā-ādiḥ vallī-vargaḥ .. 02.17.06 ..
मालती-मूर्वा-अर्क-शण-गवेधुका-अतस्य्-आदिर्वल्क-वर्गः ॥ ०२.१७.०७ ॥
मालती-मूर्वा-अर्क-शण-गवेधुका-अतसी-आदिः वल्क-वर्गः ॥ ०२।१७।०७ ॥
mālatī-mūrvā-arka-śaṇa-gavedhukā-atasī-ādiḥ valka-vargaḥ .. 02.17.07 ..
मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ॥ ०२.१७.०८ ॥
मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ॥ ०२।१७।०८ ॥
muñja-balbaja-ādi rajju-bhāṇḍaṃ .. 02.17.08 ..
ताली-ताल-भूर्जानां पत्त्रं ॥ ०२.१७.०९ ॥
ताली-ताल-भूर्जानाम् पत्त्रम् ॥ ०२।१७।०९ ॥
tālī-tāla-bhūrjānām pattram .. 02.17.09 ..
किंशुक-कुसुम्भ-कुङ्कुमानां पुष्पं ॥ ०२.१७.१० ॥
किंशुक-कुसुम्भ-कुङ्कुमानाम् पुष्पम् ॥ ०२।१७।१० ॥
kiṃśuka-kusumbha-kuṅkumānām puṣpam .. 02.17.10 ..
कन्द-मूल-फल-आदिरौषध-वर्गः ॥ ०२.१७.११ ॥
कन्द-मूल-फल-आदिः औषध-वर्गः ॥ ०२।१७।११ ॥
kanda-mūla-phala-ādiḥ auṣadha-vargaḥ .. 02.17.11 ..
काल-कूट-वत्स-नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भ-गताः विष-वर्गः ॥ ०२.१७.१२ ॥
नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि । सर्पाः कीटाः च ते एव कुम्भ-गताः विष-वर्गः ॥ ०२।१७।१२ ॥
nābha-hālāhala-meṣa-śṛṅga-mustā-kuṣṭha-mahā-viṣa-vellitaka-gaura-ardra-bālaka-mārkaṭa-haimavata-kāliṅgaka-dāradaka-aṅkola-sāraka-uṣṭraka-ādīni . sarpāḥ kīṭāḥ ca te eva kumbha-gatāḥ viṣa-vargaḥ .. 02.17.12 ..
गोधा-सेरक-द्वीप्य्-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानां चर्म-अस्थि-पित्त-स्नाय्व्-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषां वाअपि मृग-पशु-पक्षि-व्यालानां ॥ ०२.१७.१३ ॥
गोधा-सेरक-द्वीपि-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानाम् चर्म-अस्थि-पित्त-स्नायु-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषाम् वा अपि मृग-पशु-पक्षि-व्यालानाम् ॥ ०२।१७।१३ ॥
godhā-seraka-dvīpi-ṛkṣa-śiṃśumāra-siṃha-vyāghra-hasti-mahiṣa-camara-sṛmara-khaḍga-go-mṛga-gavayānām carma-asthi-pitta-snāyu-akṣi-danta-śṛṅga-khura-pucchāni . anyeṣām vā api mṛga-paśu-pakṣi-vyālānām .. 02.17.13 ..
काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ॥ ०२.१७.१४ ॥
काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ॥ ०२।१७।१४ ॥
kāla-ayasa-tāmra-vṛtta-kaṃsa-sīsa-trapu-vaikṛntaka-āra-kūṭāni lohāni .. 02.17.14 ..
विदल-मृत्तिकामयं भाण्डं ॥ ०२.१७.१५ ॥
विदल-मृत्तिका-मयम् भाण्डम् ॥ ०२।१७।१५ ॥
vidala-mṛttikā-mayam bhāṇḍam .. 02.17.15 ..
अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाश्च इति ॥ ०२.१७.१६ ॥
अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाः च इति ॥ ०२।१७।१६ ॥
aṅgāra-tuṣa-bhasmāni . mṛga-paśu-pakṣi-vyāla-vāṭāḥ kāṣṭha-tṛṇa-vāṭāḥ ca iti .. 02.17.16 ..
बहिरन्तश्च कर्म-अन्ता विभक्ताः सार्वभाण्डिकाः । ॥ ०२.१७.१७अ ब ॥
बहिस् अन्तर् च कर्म-अन्ताः विभक्ताः सार्वभाण्डिकाः । ॥ ०२।१७।१७अ ब ॥
bahis antar ca karma-antāḥ vibhaktāḥ sārvabhāṇḍikāḥ . .. 02.17.17a ba ..
आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ॥ ०२.१७.१७च्द् ॥
आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ॥ ०२।१७।१७च् ॥
ājīva-pura-rakṣā-arthāḥ kāryāḥ kupya-upajīvinā .. 02.17.17c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In