| |
|

This overlay will guide you through the buttons:

आयुध-अगार-अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर-पुर-अभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्-जात-कारु-शिल्पिभिः कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारयेत् । स्व-भूमिषु च स्थापयेत् ॥ ०२.१८.०१ ॥
आयुध-अगार-अध्यक्षः सांग्रामिकम् दौर्ग-कर्मिकम् पर-पुर-अभिघातिकम् च यन्त्रम् आयुधम् आवरणम् उपकरणम् च तद्-जात-कारु-शिल्पिभिः कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारयेत् । स्व-भूमिषु च स्थापयेत् ॥ ०२।१८।०१ ॥
āyudha-agāra-adhyakṣaḥ sāṃgrāmikam daurga-karmikam para-pura-abhighātikam ca yantram āyudham āvaraṇam upakaraṇam ca tad-jāta-kāru-śilpibhiḥ kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ kārayet . sva-bhūmiṣu ca sthāpayet .. 02.18.01 ..
स्थान-परिवर्तनं आतप-प्रवात-प्रदानं च बहुशः कुर्यात् ॥ ०२.१८.०२ ॥
स्थान-परिवर्तनम् आतप-प्रवात-प्रदानम् च बहुशस् कुर्यात् ॥ ०२।१८।०२ ॥
sthāna-parivartanam ātapa-pravāta-pradānam ca bahuśas kuryāt .. 02.18.02 ..
ऊष्म-उपस्नेह-क्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत् ॥ ०२.१८.०३ ॥
ऊष्म-उपस्नेह-क्रिमिभिः उपहन्यमानम् अन्यथा स्थापयेत् ॥ ०२।१८।०३ ॥
ūṣma-upasneha-krimibhiḥ upahanyamānam anyathā sthāpayet .. 02.18.03 ..
जाति-रूप-लक्षण-प्रमाण-आगम-मूल्य-निक्षेपैश्चौपलभेत ॥ ०२.१८.०४ ॥
जाति-रूप-लक्षण-प्रमाण-आगम-मूल्य-निक्षेपैः च उपलभेत ॥ ०२।१८।०४ ॥
jāti-rūpa-lakṣaṇa-pramāṇa-āgama-mūlya-nikṣepaiḥ ca upalabheta .. 02.18.04 ..
सर्वतो-भद्र-जामदग्न्य-बहु-मुख-विश्वास-घाति-संघाटी-यानक-पर्जन्यक-बाहु-ऊर्ध्व-बाह्व्-अर्ध-बाहूनि स्थित-यन्त्राणि ॥ ०२.१८.०५ ॥
सर्वतस् भद्र-जामदग्न्य-बहु-मुख-विश्वास-घाति-संघाटी-यानक-पर्जन्यक-बाहु-ऊर्ध्व-बाहु-अर्ध-बाहूनि स्थित-यन्त्राणि ॥ ०२।१८।०५ ॥
sarvatas bhadra-jāmadagnya-bahu-mukha-viśvāsa-ghāti-saṃghāṭī-yānaka-parjanyaka-bāhu-ūrdhva-bāhu-ardha-bāhūni sthita-yantrāṇi .. 02.18.05 ..
पाञ्चालिक-देव-दण्ड-सूकरिका-मुसल-यष्टि-हस्ति-वारक-ताल-वृन्त-मुद्गर-गदा-स्पृक्तला-कुद्दाल-आस्फाटिम-उत्पाटिम-उद्घाटिम-शतघ्नि-त्रि-शूल-चक्राणि चल-यन्त्राणि ॥ ०२.१८.०६ ॥
प आञ्चालिक-देव-दण्ड-सूकरिका-मुसल-यष्टि-हस्ति-वारक-ताल-वृन्त-मुद्गर-गदा-स्पृक्तला-कुद्दाल-आस्फाटिम-उत्पाटिम-उद्घाटिम-शतघ्नि-त्रि-शूल-चक्राणि चल-यन्त्राणि ॥ ०२।१८।०६ ॥
pa āñcālika-deva-daṇḍa-sūkarikā-musala-yaṣṭi-hasti-vāraka-tāla-vṛnta-mudgara-gadā-spṛktalā-kuddāla-āsphāṭima-utpāṭima-udghāṭima-śataghni-tri-śūla-cakrāṇi cala-yantrāṇi .. 02.18.06 ..
शक्ति-प्रास-कुन्त-हाटक-भिण्डि-पाल-शूल-तोमर-वराह-कर्ण-कणय-कर्पण-त्रासिक-आदीनि च हुल-मुखानि ॥ ०२.१८.०७ ॥
शक्ति-प्रास-कुन्त-हाटक-भिन्दि-पाल-शूल-तोमर-वराह-कर्ण-कणय-कर्पण-त्रासिक-आदीनि च हुल-मुखानि ॥ ०२।१८।०७ ॥
śakti-prāsa-kunta-hāṭaka-bhindi-pāla-śūla-tomara-varāha-karṇa-kaṇaya-karpaṇa-trāsika-ādīni ca hula-mukhāni .. 02.18.07 ..
ताल-चाप-दारव-शार्ङ्गाणि कार्मुक-कोदण्ड-द्रूणा धनूंषि ॥ ०२.१८.०८ ॥
ताल-चाप-दारव-शार्ङ्गाणि कार्मुक-कोदण्ड-द्रूणाः धनूंषि ॥ ०२।१८।०८ ॥
tāla-cāpa-dārava-śārṅgāṇi kārmuka-kodaṇḍa-drūṇāḥ dhanūṃṣi .. 02.18.08 ..
मूर्वा-अर्क-शन-गवेधु-वेणु-स्नायूनि ज्याः ॥ ०२.१८.०९ ॥
मूर्वा-अर्क-शन-गवेधु-वेणु-स्नायूनि ज्याः ॥ ०२।१८।०९ ॥
mūrvā-arka-śana-gavedhu-veṇu-snāyūni jyāḥ .. 02.18.09 ..
वेणु-शर-शलाका-दण्ड-आसन-नाराचाश्चैषवः ॥ ०२.१८.१० ॥
वेणु-शर-शलाका-दण्ड-आसन-नाराचाः च एषवः ॥ ०२।१८।१० ॥
veṇu-śara-śalākā-daṇḍa-āsana-nārācāḥ ca eṣavaḥ .. 02.18.10 ..
तेषां मुखानि छेदन-भेदन-ताडनान्यायस-अस्थि-दारवाणि ॥ ०२.१८.११ ॥
तेषाम् मुखानि छेदन-भेदन-ताडनानि आयस-अस्थि-दारवाणि ॥ ०२।१८।११ ॥
teṣām mukhāni chedana-bhedana-tāḍanāni āyasa-asthi-dāravāṇi .. 02.18.11 ..
निस्त्रिंश-मण्डल-अग्र-असि-यष्टयः खड्गाः ॥ ०२.१८.१२ ॥
निस्त्रिंश-मण्डल-अग्र-असि-यष्टयः खड्गाः ॥ ०२।१८।१२ ॥
nistriṃśa-maṇḍala-agra-asi-yaṣṭayaḥ khaḍgāḥ .. 02.18.12 ..
खड्ग-महिष-वारण-विषाण-दारु-वेणु-मूलानि त्सरवः ॥ ०२.१८.१३ ॥
खड्ग-महिष-वारण-विषाण-दारु-वेणु-मूलानि त्सरवः ॥ ०२।१८।१३ ॥
khaḍga-mahiṣa-vāraṇa-viṣāṇa-dāru-veṇu-mūlāni tsaravaḥ .. 02.18.13 ..
परशु-कुठार-पट्टस-खनित्र-कुद्दाल-क्रकच-काण्डच्-छेदनाः क्षुर-कल्पाः ॥ ०२.१८.१४ ॥
परशु-कुठार-पट्टस-खनित्र-कुद्दाल-क्रकच-काण्डत्-छेदनाः क्षुर-कल्पाः ॥ ०२।१८।१४ ॥
paraśu-kuṭhāra-paṭṭasa-khanitra-kuddāla-krakaca-kāṇḍat-chedanāḥ kṣura-kalpāḥ .. 02.18.14 ..
यन्त्र-गोष्पण-मुष्टि-पाषाण-रोचनी-दृषदश्चाश्म-आयुधानि ॥ ०२.१८.१५ ॥
यन्त्र-गोष्पण-मुष्टि-पाषाण-रोचनी-दृषदः च अश्म-आयुधानि ॥ ०२।१८।१५ ॥
yantra-goṣpaṇa-muṣṭi-pāṣāṇa-rocanī-dṛṣadaḥ ca aśma-āyudhāni .. 02.18.15 ..
लोह-जालिका-पट्ट-कवच-सूत्र-कङ्कट-शिंशुमारक-खड्गि-धेनुक-हस्ति-गो-चर्म-खुर-शृङ्ग-संघातं वर्माणि ॥ ०२.१८.१६ ॥
लोह-जालिका-पट्ट-कवच-सूत्र-कङ्कट-शिंशुमारक-खड्गि-धेनुक-हस्ति-गो-चर्म-खुर-शृङ्ग-संघातम् वर्माणि ॥ ०२।१८।१६ ॥
loha-jālikā-paṭṭa-kavaca-sūtra-kaṅkaṭa-śiṃśumāraka-khaḍgi-dhenuka-hasti-go-carma-khura-śṛṅga-saṃghātam varmāṇi .. 02.18.16 ..
शिरस्-त्राण-कण्ठ-त्राण-कूर्पास-कञ्चुक-वार-वाण-पट्ट-नाग-उदरिकाः पेटी-चर्म-हस्ति-कर्ण-ताल-मूल-धमनि-काक-पाट-किटिका-अप्रतिहत-बलाह-कान्ताश्चऽवरणाणि ॥ ०२.१८.१७ ॥
शिरः-त्राण-कण्ठ-त्राण-कूर्पास-कञ्चुक-वार-वाण-पट्ट-नाग-उदरिकाः पेटी-चर्म-हस्ति-कर्ण-ताल-मूल-धमनि-काक-पाट-किटिका-अप्रतिहत-बलाह-कान्ताः च अवरणाणि ॥ ०२।१८।१७ ॥
śiraḥ-trāṇa-kaṇṭha-trāṇa-kūrpāsa-kañcuka-vāra-vāṇa-paṭṭa-nāga-udarikāḥ peṭī-carma-hasti-karṇa-tāla-mūla-dhamani-kāka-pāṭa-kiṭikā-apratihata-balāha-kāntāḥ ca avaraṇāṇi .. 02.18.17 ..
हस्ति-रथ-वाजिनां योग्या-भाण्डं आलंकारिकं सम्नाह-कल्पनाश्चौपकरणानि ॥ ०२.१८.१८ ॥
हस्ति-रथ-वाजिनाम् योग्या-भाण्डम् आलंकारिकम् सम्नाह-कल्पनाः च औपकरणानि ॥ ०२।१८।१८ ॥
hasti-ratha-vājinām yogyā-bhāṇḍam ālaṃkārikam samnāha-kalpanāḥ ca aupakaraṇāni .. 02.18.18 ..
ऐन्द्रजालिकं औपनिषदिकं च कर्म ॥ ०२.१८.१९ ॥
ऐन्द्रजालिकम् औपनिषदिकम् च कर्म ॥ ०२।१८।१९ ॥
aindrajālikam aupaniṣadikam ca karma .. 02.18.19 ..
कर्म-अन्तानां च इच्छां आरम्भ-निष्पत्तिं प्रयोगं व्याजं उद्दयं । ॥ ०२.१८.२०अ ब ॥
कर्म-अन्तानाम् च इच्छाम् आरम्भ-निष्पत्तिम् प्रयोगम् व्याजम् उद्दयम् । ॥ ०२।१८।२०अ ब ॥
karma-antānām ca icchām ārambha-niṣpattim prayogam vyājam uddayam . .. 02.18.20a ba ..
क्षय-व्ययौ च जानीयात्कुप्यानां आयुध-ईश्वरः ॥ ०२.१८.२०च्द् ॥
क्षय-व्ययौ च जानीयात् कुप्यानाम् आयुध-ईश्वरः ॥ ०२।१८।२०च् ॥
kṣaya-vyayau ca jānīyāt kupyānām āyudha-īśvaraḥ .. 02.18.20c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In