| |
|

This overlay will guide you through the buttons:

पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ॥ ०२.१९.०१ ॥
पौतव-अध्यक्षः पौतव-कर्म-अन्तान् कारयेत् ॥ ०२।१९।०१ ॥
pautava-adhyakṣaḥ pautava-karma-antān kārayet .. 02.19.01 ..
धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ॥ ०२.१९.०२ ॥
धान्य-माषाः दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ॥ ०२।१९।०२ ॥
dhānya-māṣāḥ daśa suvarṇa-māṣakaḥ . pañca vā guñjāḥ .. 02.19.02 ..
ते षोडश सुवर्णः कर्षो वा ॥ ०२.१९.०३ ॥
ते षोडश सुवर्णः कर्षः वा ॥ ०२।१९।०३ ॥
te ṣoḍaśa suvarṇaḥ karṣaḥ vā .. 02.19.03 ..
चतुष्-कर्षं पलं ॥ ०२.१९.०४ ॥
चतुर्-कर्षम् पलम् ॥ ०२।१९।०४ ॥
catur-karṣam palam .. 02.19.04 ..
अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ॥ ०२.१९.०५ ॥
अष्ट-अशीतिः गौर-सर्षपाः रूप्य-माषकः ॥ ०२।१९।०५ ॥
aṣṭa-aśītiḥ gaura-sarṣapāḥ rūpya-māṣakaḥ .. 02.19.05 ..
ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ॥ ०२.१९.०६ ॥
ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ॥ ०२।१९।०६ ॥
te ṣoḍaśa dharaṇam . śaumbyāni vā viṃśatiḥ .. 02.19.06 ..
विंशति-तण्डुलं वज्र-धरणं ॥ ०२.१९.०७ ॥
विंशति-तण्डुलम् वज्र-धरणम् ॥ ०२।१९।०७ ॥
viṃśati-taṇḍulam vajra-dharaṇam .. 02.19.07 ..
अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ॥ ०२.१९.०८ ॥
अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णः द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्-चत्वारिंशत्-शतम् इति ॥ ०२।१९।०८ ॥
ardha-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇaḥ dvau catvāraḥ . aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat-catvāriṃśat-śatam iti .. 02.19.08 ..
तेन धरणानि व्याख्यातानि ॥ ०२.१९.०९ ॥
तेन धरणानि व्याख्यातानि ॥ ०२।१९।०९ ॥
tena dharaṇāni vyākhyātāni .. 02.19.09 ..
प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ॥ ०२.१९.१० ॥
प्रतिमानानि अयः-मयानि मागध-मेकल-शैल-मयानि यानि वा न औदक-प्रदेहाभ्याम् वृद्धिम् गच्छेयुः उष्णेन वा ह्रासम् ॥ ०२।१९।१० ॥
pratimānāni ayaḥ-mayāni māgadha-mekala-śaila-mayāni yāni vā na audaka-pradehābhyām vṛddhim gaccheyuḥ uṣṇena vā hrāsam .. 02.19.10 ..
षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ॥ ०२.१९.११ ॥
षष्-अङ्गुलात् ऊर्ध्वम् अष्ट-अङ्गुल-उत्तराः दश तुलाः कारयेत् लोह-पलात् ऊर्ध्वम् एक-पल-उत्तराः । यन्त्रम् उभयतस् शिक्यम् वा ॥ ०२।१९।११ ॥
ṣaṣ-aṅgulāt ūrdhvam aṣṭa-aṅgula-uttarāḥ daśa tulāḥ kārayet loha-palāt ūrdhvam eka-pala-uttarāḥ . yantram ubhayatas śikyam vā .. 02.19.11 ..
पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ॥ ०२.१९.१२ ॥
पञ्च-त्रिंशत्-पल-लोहाम् द्वि-सप्तति-अङ्गुल-आयामाम् सम-वृत्ताम् कारयेत् ॥ ०२।१९।१२ ॥
pañca-triṃśat-pala-lohām dvi-saptati-aṅgula-āyāmām sama-vṛttām kārayet .. 02.19.12 ..
तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ॥ ०२.१९.१३ ॥
तस्याः पञ्च-पलिकम् मण्डलम् बद्ध्वा सम-करणम् कारयेत् ॥ ०२।१९।१३ ॥
tasyāḥ pañca-palikam maṇḍalam baddhvā sama-karaṇam kārayet .. 02.19.13 ..
ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ॥ ०२.१९.१४ ॥
ततस् कर्ष-उत्तरम् पलम् पल-उत्तरम् दश-पलम् द्वादश पञ्चदश विंशतिः इति पदानि कारयेत् ॥ ०२।१९।१४ ॥
tatas karṣa-uttaram palam pala-uttaram daśa-palam dvādaśa pañcadaśa viṃśatiḥ iti padāni kārayet .. 02.19.14 ..
तत आ-शताद्दश-उत्तरं कारयेत् ॥ ०२.१९.१५ ॥
ततस् आ शतात् दश-उत्तरम् कारयेत् ॥ ०२।१९।१५ ॥
tatas ā śatāt daśa-uttaram kārayet .. 02.19.15 ..
अक्षेषु नान्दी-पिनद्धं कारयेत् ॥ ०२.१९.१६ ॥
अक्षेषु नान्दी-पिनद्धम् कारयेत् ॥ ०२।१९।१६ ॥
akṣeṣu nāndī-pinaddham kārayet .. 02.19.16 ..
द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ॥ ०२.१९.१७ ॥
द्वि-गुण-लोहाम् तुलाम् अतस् षण्णवति-अङ्गुल-आयामाम् परिमाणीम् कारयेत् ॥ ०२।१९।१७ ॥
dvi-guṇa-lohām tulām atas ṣaṇṇavati-aṅgula-āyāmām parimāṇīm kārayet .. 02.19.17 ..
तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ॥ ०२.१९.१८ ॥
तस्याः शत-पदात् ऊर्ध्वम् विंशतिः पञ्चाशत्-शतम् इति पदानि कारयेत् ॥ ०२।१९।१८ ॥
tasyāḥ śata-padāt ūrdhvam viṃśatiḥ pañcāśat-śatam iti padāni kārayet .. 02.19.18 ..
विंशति-तौलिको भारः ॥ ०२.१९.१९ ॥
विंशति-तौलिकः भारः ॥ ०२।१९।१९ ॥
viṃśati-taulikaḥ bhāraḥ .. 02.19.19 ..
दश-धारणिकं पलं ॥ ०२.१९.२० ॥
दश-धारणिकम् पलम् ॥ ०२।१९।२० ॥
daśa-dhāraṇikam palam .. 02.19.20 ..
तत्-पल-शतं आय-मानी ॥ ०२.१९.२१ ॥
तद्-पल-शतम् आय-मानी ॥ ०२।१९।२१ ॥
tad-pala-śatam āya-mānī .. 02.19.21 ..
पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ॥ ०२.१९.२२ ॥
पञ्च-पल-अवरा व्यावहारिकी भाजनी अन्तःपुर-भाजनी च ॥ ०२।१९।२२ ॥
pañca-pala-avarā vyāvahārikī bhājanī antaḥpura-bhājanī ca .. 02.19.22 ..
तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ॥ ०२.१९.२३ ॥
तासाम् अर्ध-धरण-अवरम् पलम् । द्वि-पल-अवरम् उत्तर-लोहम् । षष्-अङ्गुल-अवराः च अयामाः ॥ ०२।१९।२३ ॥
tāsām ardha-dharaṇa-avaram palam . dvi-pala-avaram uttara-loham . ṣaṣ-aṅgula-avarāḥ ca ayāmāḥ .. 02.19.23 ..
पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ॥ ०२.१९.२४ ॥
पूर्वयोः पञ्च-पलिकः प्रयामः मांस-लोह-लवण-मणि-वर्जम् ॥ ०२।१९।२४ ॥
pūrvayoḥ pañca-palikaḥ prayāmaḥ māṃsa-loha-lavaṇa-maṇi-varjam .. 02.19.24 ..
काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ॥ ०२.१९.२५ ॥
काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ॥ ०२।१९।२५ ॥
kāṣṭha-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adhiṣṭhitā .. 02.19.25 ..
काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ॥ ०२.१९.२६ ॥
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ || 02.19.26 ||
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ || 02.19.26 ||
एष प्रदेशो बह्व्-अल्पयोः ॥ ०२.१९.२७ ॥
एष प्रदेशः बहु-अल्पयोः ॥ ०२।१९।२७ ॥
eṣa pradeśaḥ bahu-alpayoḥ .. 02.19.27 ..
इति तुला-प्रतिमानं व्याख्यातं ॥ ०२.१९.२८ ॥
इति तुला-प्रतिमानम् व्याख्यातम् ॥ ०२।१९।२८ ॥
iti tulā-pratimānam vyākhyātam .. 02.19.28 ..
अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ॥ ०२.१९.२९ ॥
अथ धान्य-माष-द्वि-पल-शतम् द्रोणम् आय-मानम् । सप्त-अशीति-पल-शतम् अर्ध-पलम् च व्यावहारिकम् । पञ्च-सप्तति-पल-शतम् भाजनीयम् । द्वि-षष्टि-पल-शतम् अर्ध-पलम् च अन्तःपुर-भाजनीयम् ॥ ०२।१९।२९ ॥
atha dhānya-māṣa-dvi-pala-śatam droṇam āya-mānam . sapta-aśīti-pala-śatam ardha-palam ca vyāvahārikam . pañca-saptati-pala-śatam bhājanīyam . dvi-ṣaṣṭi-pala-śatam ardha-palam ca antaḥpura-bhājanīyam .. 02.19.29 ..
तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ॥ ०२.१९.३० ॥
तेषाम् आढक-प्रस्थ-कुडुबाः चतुर्-भाग-अवराः ॥ ०२।१९।३० ॥
teṣām āḍhaka-prastha-kuḍubāḥ catur-bhāga-avarāḥ .. 02.19.30 ..
षोडश-द्रोणा खारी ॥ ०२.१९.३१ ॥
षोडश-द्रोणा खारी ॥ ०२।१९।३१ ॥
ṣoḍaśa-droṇā khārī .. 02.19.31 ..
विंशति-द्रोणिकः कुम्भः ॥ ०२.१९.३२ ॥
विंशति-द्रोणिकः कुम्भः ॥ ०२।१९।३२ ॥
viṃśati-droṇikaḥ kumbhaḥ .. 02.19.32 ..
कुम्भैर्दशभिर्वहः ॥ ०२.१९.३३ ॥
कुम्भैः दशभिः वहः ॥ ०२।१९।३३ ॥
kumbhaiḥ daśabhiḥ vahaḥ .. 02.19.33 ..
शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ॥ ०२.१९.३४ ॥
शुष्क-सार-दारु-मयम् समम् चतुर्-भाग-शिखम् मानम् कारयेत् । अन्तर् शिखम् वा ॥ ०२।१९।३४ ॥
śuṣka-sāra-dāru-mayam samam catur-bhāga-śikham mānam kārayet . antar śikham vā .. 02.19.34 ..
रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ॥ ०२.१९.३५ ॥
रसस्य तु सुरायाः पुष्प-फलयोः तुष-अङ्गाराणाम् सुधायाः च शिखा-मानम् द्वि-गुण-उत्तरा वृद्धिः ॥ ०२।१९।३५ ॥
rasasya tu surāyāḥ puṣpa-phalayoḥ tuṣa-aṅgārāṇām sudhāyāḥ ca śikhā-mānam dvi-guṇa-uttarā vṛddhiḥ .. 02.19.35 ..
सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ॥ ०२.१९.३६ ॥
स पाद-पणः द्रोण-मूल्यम् आढकस्य पाद-ऊनः । षट् माषकाः प्रस्थस्य । माषकः कुडुबस्य ॥ ०२।१९।३६ ॥
sa pāda-paṇaḥ droṇa-mūlyam āḍhakasya pāda-ūnaḥ . ṣaṭ māṣakāḥ prasthasya . māṣakaḥ kuḍubasya .. 02.19.36 ..
द्वि-गुणं रस-आदीनां मान-मूल्यं ॥ ०२.१९.३७ ॥
द्वि-गुणम् रस-आदीनाम् मान-मूल्यम् ॥ ०२।१९।३७ ॥
dvi-guṇam rasa-ādīnām māna-mūlyam .. 02.19.37 ..
विंशति-पणाः प्रतिमानस्य ॥ ०२.१९.३८ ॥
विंशति-पणाः प्रतिमानस्य ॥ ०२।१९।३८ ॥
viṃśati-paṇāḥ pratimānasya .. 02.19.38 ..
तुला-मूल्यं त्रि-भागः ॥ ०२.१९.३९ ॥
तुला-मूल्यम् त्रि-भागः ॥ ०२।१९।३९ ॥
tulā-mūlyam tri-bhāgaḥ .. 02.19.39 ..
चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ॥ ०२.१९.४० ॥
चतुर्-मासिकम् प्रातिवेधनिकम् कारयेत् ॥ ०२।१९।४० ॥
catur-māsikam prātivedhanikam kārayet .. 02.19.40 ..
अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ॥ ०२.१९.४१ ॥
अ प्रतिविद्धस्य अत्ययः स पादः सप्त-विंशति-पणः ॥ ०२।१९।४१ ॥
a pratividdhasya atyayaḥ sa pādaḥ sapta-viṃśati-paṇaḥ .. 02.19.41 ..
प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ॥ ०२.१९.४२ ॥
प्रातिवेधनिकम् काकणीकम् अहरहर् पौतव-अध्यक्षाय दद्युः ॥ ०२।१९।४२ ॥
prātivedhanikam kākaṇīkam aharahar pautava-adhyakṣāya dadyuḥ .. 02.19.42 ..
द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ॥ ०२.१९.४३ ॥
द्वात्रिंशत्-भागः तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागः तैलस्य ॥ ०२।१९।४३ ॥
dvātriṃśat-bhāgaḥ tapta-vyājī sarpiṣaḥ . catuḥ-ṣaṣṭi-bhāgaḥ tailasya .. 02.19.43 ..
पञ्चाशद्भागो मान-स्रावो द्रवाणां ॥ ०२.१९.४४ ॥
पञ्चाशत्-भागः मान-स्रावः द्रवाणाम् ॥ ०२।१९।४४ ॥
pañcāśat-bhāgaḥ māna-srāvaḥ dravāṇām .. 02.19.44 ..
कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ॥ ०२.१९.४५ ॥
कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ॥ ०२।१९।४५ ॥
kuḍuba-ardha-catur-aṣṭa-bhāgāni mānāni kārayet .. 02.19.45 ..
कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ॥ ०२.१९.४६ ॥
कुडुबाः चतुर्-अशीतिः वारकः सर्पिषः मतः ॥ ०२।१९।४६ ॥
kuḍubāḥ catur-aśītiḥ vārakaḥ sarpiṣaḥ mataḥ .. 02.19.46 ..
चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ॥ ०२.१९.४७ ॥
चतुः-षष्टिः तु तैलस्य पादः च घटिका अनयोः ॥ ०२।१९।४७ ॥
catuḥ-ṣaṣṭiḥ tu tailasya pādaḥ ca ghaṭikā anayoḥ .. 02.19.47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In