| |
|

This overlay will guide you through the buttons:

पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ॥ ०२.१९.०१ ॥
pautava-adhyakṣaḥ pautava-karma-antānkārayet .. 02.19.01 ..
धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ॥ ०२.१९.०२ ॥
dhānya-māṣā daśa suvarṇa-māṣakaḥ . pañca vā guñjāḥ .. 02.19.02 ..
ते षोडश सुवर्णः कर्षो वा ॥ ०२.१९.०३ ॥
te ṣoḍaśa suvarṇaḥ karṣo vā .. 02.19.03 ..
चतुष्-कर्षं पलं ॥ ०२.१९.०४ ॥
catuṣ-karṣaṃ palaṃ .. 02.19.04 ..
अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ॥ ०२.१९.०५ ॥
aṣṭa-aśītirgaura-sarṣapā rūpya-māṣakaḥ .. 02.19.05 ..
ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ॥ ०२.१९.०६ ॥
te ṣoḍaśa dharaṇam . śaumbyāni vā viṃśatiḥ .. 02.19.06 ..
विंशति-तण्डुलं वज्र-धरणं ॥ ०२.१९.०७ ॥
viṃśati-taṇḍulaṃ vajra-dharaṇaṃ .. 02.19.07 ..
अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ॥ ०२.१९.०८ ॥
ardha-māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ . aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśatcatvāriṃśatśataṃ iti .. 02.19.08 ..
तेन धरणानि व्याख्यातानि ॥ ०२.१९.०९ ॥
tena dharaṇāni vyākhyātāni .. 02.19.09 ..
प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ॥ ०२.१९.१० ॥
pratimānānyayomayāni māgadha-mekala-śailamayāni yāni vā naudaka-pradehābhyāṃ vṛddhiṃ gaccheyuruṣṇena vā hrāsaṃ .. 02.19.10 ..
षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ॥ ०२.१९.११ ॥
ṣaḍaṅgulādūrdhvaṃ aṣṭa-aṅgula-uttarā daśa tulāḥ kārayetloha-palādūrdhvaṃ eka-pala-uttarāḥ . yantraṃ ubhayataḥ-śikyaṃ vā .. 02.19.11 ..
पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ॥ ०२.१९.१२ ॥
pañca-triṃśat-palalohāṃ dvi-saptaty-aṅgula-āyāmāṃ sama-vṛttāṃ kārayet .. 02.19.12 ..
तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ॥ ०२.१९.१३ ॥
tasyāḥ pañca-palikaṃ maṇḍalaṃ baddhvā sama-karaṇaṃ kārayet .. 02.19.13 ..
ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ॥ ०२.१९.१४ ॥
tataḥ karṣa-uttaraṃ palaṃ pala-uttaraṃ daśa-palaṃ dvādaśa pañcadaśa viṃśatiriti padāni kārayet .. 02.19.14 ..
तत आ-शताद्दश-उत्तरं कारयेत् ॥ ०२.१९.१५ ॥
tata ā-śatāddaśa-uttaraṃ kārayet .. 02.19.15 ..
अक्षेषु नान्दी-पिनद्धं कारयेत् ॥ ०२.१९.१६ ॥
akṣeṣu nāndī-pinaddhaṃ kārayet .. 02.19.16 ..
द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ॥ ०२.१९.१७ ॥
dvi-guṇa-lohāṃ tulāṃ ataḥ ṣaṇṇavaty-aṅgula-āyāmāṃ parimāṇīṃ kārayet .. 02.19.17 ..
तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ॥ ०२.१९.१८ ॥
tasyāḥ śata-padādūrdhvaṃ viṃśatiḥ pañcāśatśataṃ iti padāni kārayet .. 02.19.18 ..
विंशति-तौलिको भारः ॥ ०२.१९.१९ ॥
viṃśati-tauliko bhāraḥ .. 02.19.19 ..
दश-धारणिकं पलं ॥ ०२.१९.२० ॥
daśa-dhāraṇikaṃ palaṃ .. 02.19.20 ..
तत्-पल-शतं आय-मानी ॥ ०२.१९.२१ ॥
tat-pala-śataṃ āya-mānī .. 02.19.21 ..
पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ॥ ०२.१९.२२ ॥
pañca-pala-avarā vyāvahārikī bhājanyantaḥ-pura-bhājanī ca .. 02.19.22 ..
तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ॥ ०२.१९.२३ ॥
tāsāṃ ardha-dharaṇa-avaraṃ palam . dvi-pala-avaraṃ uttara-loham . ṣaḍ-aṅgula-avarāśca'yāmāḥ .. 02.19.23 ..
पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ॥ ०२.१९.२४ ॥
pūrvayoḥ pañca-palikaḥ prayāmo māṃsa-loha-lavaṇa-maṇi-varjaṃ .. 02.19.24 ..
काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ॥ ०२.१९.२५ ॥
kāṣṭha-tulā aṣṭa-hastā padavatī pratimānavatī mayūra-pada-adhiṣṭhitā .. 02.19.25 ..
काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ॥ ०२.१९.२६ ॥
kāṣṭha-pañcaviṃśati-palaṃ taṇḍula-prastha-sādhanaṃ .. 02.19.26 ..
एष प्रदेशो बह्व्-अल्पयोः ॥ ०२.१९.२७ ॥
eṣa pradeśo bahv-alpayoḥ .. 02.19.27 ..
इति तुला-प्रतिमानं व्याख्यातं ॥ ०२.१९.२८ ॥
iti tulā-pratimānaṃ vyākhyātaṃ .. 02.19.28 ..
अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ॥ ०२.१९.२९ ॥
atha dhānya-māṣa-dvi-pala-śataṃ droṇaṃ āya-mānam . sapta-aśīti-pala-śataṃ ardha-palaṃ ca vyāvahārikam . pañca-saptati-pala-śataṃ bhājanīyam . dvi-ṣaṣṭi-pala-śataṃ ardha-palaṃ cāntaḥ-pura-bhājanīyaṃ .. 02.19.29 ..
तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ॥ ०२.१९.३० ॥
teṣāṃ āḍhaka-prastha-kuḍubāścatur-bhāga-avarāḥ .. 02.19.30 ..
षोडश-द्रोणा खारी ॥ ०२.१९.३१ ॥
ṣoḍaśa-droṇā khārī .. 02.19.31 ..
विंशति-द्रोणिकः कुम्भः ॥ ०२.१९.३२ ॥
viṃśati-droṇikaḥ kumbhaḥ .. 02.19.32 ..
कुम्भैर्दशभिर्वहः ॥ ०२.१९.३३ ॥
kumbhairdaśabhirvahaḥ .. 02.19.33 ..
शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ॥ ०२.१९.३४ ॥
śuṣka-sāra-dāru-mayaṃ samaṃ catur-bhāga-śikhaṃ mānaṃ kārayet . antaḥ-śikhaṃ vā .. 02.19.34 ..
रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ॥ ०२.१९.३५ ॥
rasasya tu surāyāḥ puṣpa-phalayostuṣa-aṅgārāṇāṃ sudhāyāśca śikhā-mānaṃ dvi-guṇa-uttarā vṛddhiḥ .. 02.19.35 ..
सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ॥ ०२.१९.३६ ॥
sapāda-paṇo droṇa-mūlyaṃ āḍhakasya pāda-ūnaḥ . ṣaṇ-māṣakāḥ prasthasya . māṣakaḥ kuḍubasya .. 02.19.36 ..
द्वि-गुणं रस-आदीनां मान-मूल्यं ॥ ०२.१९.३७ ॥
dvi-guṇaṃ rasa-ādīnāṃ māna-mūlyaṃ .. 02.19.37 ..
विंशति-पणाः प्रतिमानस्य ॥ ०२.१९.३८ ॥
viṃśati-paṇāḥ pratimānasya .. 02.19.38 ..
तुला-मूल्यं त्रि-भागः ॥ ०२.१९.३९ ॥
tulā-mūlyaṃ tri-bhāgaḥ .. 02.19.39 ..
चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ॥ ०२.१९.४० ॥
catur-māsikaṃ prātivedhanikaṃ kārayet .. 02.19.40 ..
अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ॥ ०२.१९.४१ ॥
apratividdhasyātyayaḥ sapādaḥ sapta-viṃśati-paṇaḥ .. 02.19.41 ..
प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ॥ ०२.१९.४२ ॥
prātivedhanikaṃ kākaṇīkaṃ aharahaḥ pautava-adhyakṣāya dadyuḥ .. 02.19.42 ..
द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ॥ ०२.१९.४३ ॥
dvātriṃśad-bhāgastapta-vyājī sarpiṣaḥ . catuḥ-ṣaṣṭi-bhāgastailasya .. 02.19.43 ..
पञ्चाशद्भागो मान-स्रावो द्रवाणां ॥ ०२.१९.४४ ॥
pañcāśadbhāgo māna-srāvo dravāṇāṃ .. 02.19.44 ..
कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ॥ ०२.१९.४५ ॥
kuḍuba-ardha-catur-aṣṭa-bhāgāni mānāni kārayet .. 02.19.45 ..
कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ॥ ०२.१९.४६ ॥
kuḍubāścatur-aśītirvārakaḥ sarpiṣo mataḥ .. 02.19.46 ..
चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ॥ ०२.१९.४७ ॥
catuḥ-ṣaṣṭistu tailasya pādaśca ghaṭikāanayoḥ .. 02.19.47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In