| |
|

This overlay will guide you through the buttons:

अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ॥ ०२.२.०१ ॥
अ कृष्यायाम् भूमौ पशुभ्यः विवीतानि प्रयच्छेत् ॥ ०२।२।०१ ॥
a kṛṣyāyām bhūmau paśubhyaḥ vivītāni prayacchet .. 02.2.01 ..
प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यो गो-रुत-पराणि प्रयच्छेत् ॥ ०२.२.०२ ॥
प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यः गो-रुत-पराणि प्रयच्छेत् ॥ ०२।२।०२ ॥
pradiṣṭa-abhaya-sthāvara-jaṅgamāni ca brahma-soma-araṇyāni tapasvibhyaḥ go-ruta-parāṇi prayacchet .. 02.2.02 ..
तावन्-मात्रं एक-द्वारं खात-गुप्तं स्वादु-फल-गुल्म-गुच्छं अकण्टकि-द्रुमं उत्तान-तोय-आशयं दान्त-मृग-चतुष्पदं भग्न-नख-दंष्ट्र-व्यालं मार्गयुक-हस्ति-हस्तिनीक-लभं मृग-वनं विहार-अर्थं राज्ञः कारयेत् ॥ ०२.२.०३ ॥
तावत्-मात्रम् एक-द्वारम् खात-गुप्तम् स्वादु-फल-गुल्म-गुच्छम् अकण्टकि-द्रुमम् उत्तान-तोय-आशयम् दान्त-मृग-चतुष्पदम् भग्न-नख-दंष्ट्र-व्यालम् मृग-वनम् विहार-अर्थम् राज्ञः कारयेत् ॥ ०२।२।०३ ॥
tāvat-mātram eka-dvāram khāta-guptam svādu-phala-gulma-guccham akaṇṭaki-drumam uttāna-toya-āśayam dānta-mṛga-catuṣpadam bhagna-nakha-daṃṣṭra-vyālam mṛga-vanam vihāra-artham rājñaḥ kārayet .. 02.2.03 ..
सर्व-अतिथि-मृगं प्रत्यन्ते चान्यन्-मृग-वनं भूमि-वशेन वा निवेशयेत् ॥ ०२.२.०४ ॥
सर्व-अतिथि-मृगम् प्रत्यन्ते च अन्यत् मृग-वनम् भूमि-वशेन वा निवेशयेत् ॥ ०२।२।०४ ॥
sarva-atithi-mṛgam pratyante ca anyat mṛga-vanam bhūmi-vaśena vā niveśayet .. 02.2.04 ..
कुप्य-प्रदिष्टानां च द्रव्याणां एक-एकशो वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तानटवीश्च द्रव्य-वन-अपाश्रयाः ॥ ०२.२.०५ ॥
कुप्य-प्रदिष्टानाम् च द्रव्याणाम् एक-एकशस् वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तान् अटवीः च द्रव्य-वन-अपाश्रयाः ॥ ०२।२।०५ ॥
kupya-pradiṣṭānām ca dravyāṇām eka-ekaśas vanāni niveśayet . dravya-vana-karma-antān aṭavīḥ ca dravya-vana-apāśrayāḥ .. 02.2.05 ..
प्रत्यन्ते हस्ति-वनं अटव्य्-आरक्षं निवेशयेत् ॥ ०२.२.०६ ॥
प्रत्यन्ते हस्ति-वनम् अटवी-आरक्षम् निवेशयेत् ॥ ०२।२।०६ ॥
pratyante hasti-vanam aṭavī-ārakṣam niveśayet .. 02.2.06 ..
नाग-वन-अध्यक्षः पार्वतं नऽदेयं सार-सम-अनूपं च नाग-वनं विदित-पर्यन्त-प्रवेश-निष्कासं नाग-वन-पालैः पालयेत् ॥ ०२.२.०७ ॥
नाग-वन-अध्यक्षः पार्वतम् न अदेयम् सार-सम-अनूपम् च नाग-वनम् विदित-पर्यन्त-प्रवेश-निष्कासम् नाग-वन-पालैः पालयेत् ॥ ०२।२।०७ ॥
nāga-vana-adhyakṣaḥ pārvatam na adeyam sāra-sama-anūpam ca nāga-vanam vidita-paryanta-praveśa-niṣkāsam nāga-vana-pālaiḥ pālayet .. 02.2.07 ..
हस्ति-घातिनं हन्युः ॥ ०२.२.०८ ॥
हस्ति-घातिनम् हन्युः ॥ ०२।२।०८ ॥
hasti-ghātinam hanyuḥ .. 02.2.08 ..
दन्त-युगं स्वयं-मृतस्यऽहरतः सपाद-चतुष्पणो लाभः ॥ ०२.२.०९ ॥
दन्त-युगम् स्वयम् मृतस्य अहरतः लाभः ॥ ०२।२।०९ ॥
danta-yugam svayam mṛtasya aharataḥ lābhaḥ .. 02.2.09 ..
नाग-वन-पाला हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखा हस्ति-मूत्र-पुरीषच्-छन्न-गन्धा भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रं विद्युः ॥ ०२.२.१० ॥
नाग-वन-पालाः हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखाः हस्ति-मूत्र-पुरीषत् छन्न-गन्धाः भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिः वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रम् विद्युः ॥ ०२।२।१० ॥
nāga-vana-pālāḥ hastipaka-pāda-pāśika-saimika-vana-caraka-pārikarmika-sakhāḥ hasti-mūtra-purīṣat channa-gandhāḥ bhallātakī-śākhā-pracchannāḥ pañcabhiḥ saptabhiḥ vā hasti-bandhakībhiḥ saha carantaḥ śayyā-sthāna-padyā-leṇḍa-kūla-ghāta-uddeśena hasti-kula-paryagram vidyuḥ .. 02.2.10 ..
यूथ-चरं एक-चरं निर्यूथं यूथ-पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध-मुक्तं च निबन्धेन विद्युः ॥ ०२.२.११ ॥
यूथ-चरम् एक-चरम् निर्यूथम् यूथ-पतिम् हस्तिनम् व्यालम् मत्तम् पोतम् बन्ध-मुक्तम् च निबन्धेन विद्युः ॥ ०२।२।११ ॥
yūtha-caram eka-caram niryūtham yūtha-patim hastinam vyālam mattam potam bandha-muktam ca nibandhena vidyuḥ .. 02.2.11 ..
अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान्हस्तिनो गृह्णीयुः ॥ ०२.२.१२ ॥
अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान् हस्तिनः गृह्णीयुः ॥ ०२।२।१२ ॥
anīkastha-pramāṇaiḥ praśasta-vyañjana-ācārān hastinaḥ gṛhṇīyuḥ .. 02.2.12 ..
हस्ति-प्रधानं विजयो राज्ञः ॥ ०२.२.१३ ॥
हस्ति-प्रधानम् विजयः राज्ञः ॥ ०२।२।१३ ॥
hasti-pradhānam vijayaḥ rājñaḥ .. 02.2.13 ..
पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दना ह्यतिप्रमाण-शरीराः प्राण-हर-कर्माणो हस्तिनः ॥ ०२.२.१४ ॥
पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दनाः हि अतिप्रमाण-शरीराः प्राण-हर-कर्माणः हस्तिनः ॥ ०२।२।१४ ॥
para-anīka-vyūha-durga-skandha-āvāra-pramardanāḥ hi atipramāṇa-śarīrāḥ prāṇa-hara-karmāṇaḥ hastinaḥ .. 02.2.14 ..
कालिङ्ग-अङ्गरजाः श्रेष्ठाः प्राच्याश्चेदि-करूषजाः । ॥ ०२.२.१५अ ब ॥
कालिङ्ग-अङ्गर-जाः श्रेष्ठाः प्राच्याः चेदि-करूष-जाः । ॥ ०२।२।१५अ ब ॥
kāliṅga-aṅgara-jāḥ śreṣṭhāḥ prācyāḥ cedi-karūṣa-jāḥ . .. 02.2.15a ba ..
दाशार्णाश्चापर-अन्ताश्च द्विपानां मध्यमा मताः ॥ ०२.२.१५च्द् ॥
दाशार्णाः च अपर-अन्ताः च द्विपानाम् मध्यमाः मताः ॥ ०२।२।१५च् ॥
dāśārṇāḥ ca apara-antāḥ ca dvipānām madhyamāḥ matāḥ .. 02.2.15c ..
सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः । ॥ ०२.२.१६अ ब ॥
सौराष्ट्रिकाः पाञ्चनदाः तेषाम् प्रत्यवराः स्मृताः । ॥ ०२।२।१६अ ब ॥
saurāṣṭrikāḥ pāñcanadāḥ teṣām pratyavarāḥ smṛtāḥ . .. 02.2.16a ba ..
सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ॥ ०२.२.१६च्द् ॥
सर्वेषाम् कर्मणा वीर्यम् जवः तेजः च वर्धते ॥ ०२।२।१६च् ॥
sarveṣām karmaṇā vīryam javaḥ tejaḥ ca vardhate .. 02.2.16c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In