| |
|

This overlay will guide you through the buttons:

मान-अध्यक्ष्यो देश-काल-मानं विद्यात् ॥ ०२.२०.०१ ॥
māna-adhyakṣyo deśa-kāla-mānaṃ vidyāt .. 02.20.01 ..
अष्टौ परम-अणवो रथ-चक्र-विप्रुट् ॥ ०२.२०.०२ ॥
aṣṭau parama-aṇavo ratha-cakra-vipruṭ .. 02.20.02 ..
ता अष्टौ लिक्षा ॥ ०२.२०.०३ ॥
tā aṣṭau likṣā .. 02.20.03 ..
ता अष्तौ यूका ॥ ०२.२०.०४ ॥
tā aṣtau yūkā .. 02.20.04 ..
ता अष्टौ यव-मध्यः ॥ ०२.२०.०५ ॥
tā aṣṭau yava-madhyaḥ .. 02.20.05 ..
अष्टौ यव-मध्या अङ्गुलं ॥ ०२.२०.०६ ॥
aṣṭau yava-madhyā aṅgulaṃ .. 02.20.06 ..
मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्य-प्रकर्षो वाअङ्गुलं ॥ ०२.२०.०७ ॥
madhyamasya puruṣasya madhyamāyā anugulyā madhya-prakarṣo vāaṅgulaṃ .. 02.20.07 ..
चतुर्-अङ्गुलो धनुर्-ग्रहः ॥ ०२.२०.०८ ॥
catur-aṅgulo dhanur-grahaḥ .. 02.20.08 ..
अष्ट-अङ्गुला धनुर्-मुष्टिः ॥ ०२.२०.०९ ॥
aṣṭa-aṅgulā dhanur-muṣṭiḥ .. 02.20.09 ..
द्वादश-अङ्गुला वितस्तिः । छाया-पौरुषं च ॥ ०२.२०.१० ॥
dvādaśa-aṅgulā vitastiḥ . chāyā-pauruṣaṃ ca .. 02.20.10 ..
चतुर्-दश-अङ्गुलं शमः शलः परीरयः पदं च ॥ ०२.२०.११ ॥
catur-daśa-aṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca .. 02.20.11 ..
द्वि-वितस्तिररत्निः प्राजापत्यो हस्तः ॥ ०२.२०.१२ ॥
dvi-vitastiraratniḥ prājāpatyo hastaḥ .. 02.20.12 ..
सधनुर्-ग्रहः पौतव-विवीत-मानं ॥ ०२.२०.१३ ॥
sadhanur-grahaḥ pautava-vivīta-mānaṃ .. 02.20.13 ..
सधनुर्-मुष्टिः कुष्कुः कंसो वा ॥ ०२.२०.१४ ॥
sadhanur-muṣṭiḥ kuṣkuḥ kaṃso vā .. 02.20.14 ..
द्वि-चत्वारिंशद्-अङ्गुलस्तक्ष्णः क्राकचनिक-किष्कुः स्कन्ध-आवार-दुर्ग-राज-परिग्रह-मानं ॥ ०२.२०.१५ ॥
dvi-catvāriṃśad-aṅgulastakṣṇaḥ krākacanika-kiṣkuḥ skandha-āvāra-durga-rāja-parigraha-mānaṃ .. 02.20.15 ..
चतुष्-पञ्चाशद्-अङ्गुलः कूप्य-वन-हस्तः ॥ ०२.२०.१६ ॥
catuṣ-pañcāśad-aṅgulaḥ kūpya-vana-hastaḥ .. 02.20.16 ..
चतुर्-अशीत्य्-अङ्गुलो व्यामो रज्जु-मानं खात-पौरुषं च ॥ ०२.२०.१७ ॥
catur-aśīty-aṅgulo vyāmo rajju-mānaṃ khāta-pauruṣaṃ ca .. 02.20.17 ..
चतुर्-अरत्निर्दण्डो धनुर्-नालिका पौरुषं च गार्हपत्यं ॥ ०२.२०.१८ ॥
catur-aratnirdaṇḍo dhanur-nālikā pauruṣaṃ ca gārhapatyaṃ .. 02.20.18 ..
अष्ट-शत-अङ्गुलं धनुः पथि-प्राकार-मानं पौरुषं चाग्नि-चित्यानां ॥ ०२.२०.१९ ॥
aṣṭa-śata-aṅgulaṃ dhanuḥ pathi-prākāra-mānaṃ pauruṣaṃ cāgni-cityānāṃ .. 02.20.19 ..
षट्-कंसो दण्डो ब्रह्म-देय-आतिथ्य-मानं ॥ ०२.२०.२० ॥
ṣaṭ-kaṃso daṇḍo brahma-deya-ātithya-mānaṃ .. 02.20.20 ..
दश-दण्डो रज्जुः ॥ ०२.२०.२१ ॥
daśa-daṇḍo rajjuḥ .. 02.20.21 ..
द्वि-रज्जुकः परिदेशः ॥ ०२.२०.२२ ॥
dvi-rajjukaḥ parideśaḥ .. 02.20.22 ..
त्रि-रज्जुकं निवर्तनं एकतः ॥ ०२.२०.२३ ॥
tri-rajjukaṃ nivartanaṃ ekataḥ .. 02.20.23 ..
द्वि-दण्ड-अधिको बाहुः ॥ ०२.२०.२४ ॥
dvi-daṇḍa-adhiko bāhuḥ .. 02.20.24 ..
द्वि-धनुः-सहस्रं गो-रुतं ॥ ०२.२०.२५ ॥
dvi-dhanuḥ-sahasraṃ go-rutaṃ .. 02.20.25 ..
चतुर्-गो-रुतं योजनं ॥ ०२.२०.२६ ॥
catur-go-rutaṃ yojanaṃ .. 02.20.26 ..
इति देश-मानं ॥ ०२.२०.२७ ॥
iti deśa-mānaṃ .. 02.20.27 ..
काल-मानं अत ऊर्ध्वं ॥ ०२.२०.२८ ॥
kāla-mānaṃ ata ūrdhvaṃ .. 02.20.28 ..
तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्व-अपर-भागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः ॥ ०२.२०.२९ ॥
tuṭo lavo nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrva-apara-bhāgau divaso rātriḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti kālāḥ .. 02.20.29 ..
द्वौ तुटौ लवः ॥ ०२.२०.३० ॥
dvau tuṭau lavaḥ .. 02.20.30 ..
द्वौ लवौ निमेषः ॥ ०२.२०.३१ ॥
dvau lavau nimeṣaḥ .. 02.20.31 ..
पञ्च-निमेषाः काष्ठाः ॥ ०२.२०.३२ ॥
pañca-nimeṣāḥ kāṣṭhāḥ .. 02.20.32 ..
त्रिंशत्-काष्ठाः कलाः ॥ ०२.२०.३३ ॥
triṃśat-kāṣṭhāḥ kalāḥ .. 02.20.33 ..
चत्वारिंशत्-कलाः नालिका ॥ ०२.२०.३४ ॥
catvāriṃśat-kalāḥ nālikā .. 02.20.34 ..
सुवर्ण-माषकाश्चत्वारश्चतुर्-अङ्गुल-आयामाः कुम्भच्-छिद्रं आढकं अम्भसो वा नालिका ॥ ०२.२०.३५ ॥
suvarṇa-māṣakāścatvāraścatur-aṅgula-āyāmāḥ kumbhac-chidraṃ āḍhakaṃ ambhaso vā nālikā .. 02.20.35 ..
द्वि-नालिको मुहूर्तः ॥ ०२.२०.३६ ॥
dvi-nāliko muhūrtaḥ .. 02.20.36 ..
पञ्च-दश-मुहूर्तो दिवसो रात्रिश्च चैत्रे चऽश्वयुजे च मासि भवतः ॥ ०२.२०.३७ ॥
pañca-daśa-muhūrto divaso rātriśca caitre ca'śvayuje ca māsi bhavataḥ .. 02.20.37 ..
ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्-मासं वर्धते ह्रसते चैति ॥ ०२.२०.३८ ॥
tataḥ paraṃ tribhirmuhūrtairanyataraḥ ṣaṇ-māsaṃ vardhate hrasate caiti .. 02.20.38 ..
छायायां अष्ट-पौरुष्यां अष्टादश-भागश्छेदः । षट्-पौरुष्यां चतुर्-दश-भागः । त्रि-पौरुष्यां अष्ट-भागः । द्वि-पौरुष्यां षड्-भागः । पौरुष्यां चतुर्-भागः । अष्ट-अङ्गुलायां त्रयो दश-भागाः । चतुर्-अङ्गुलायां त्रयोअष्ट-भागाः । अच्छायो मध्य-अह्न इति ॥ ०२.२०.३९ ॥
chāyāyāṃ aṣṭa-pauruṣyāṃ aṣṭādaśa-bhāgaśchedaḥ . ṣaṭ-pauruṣyāṃ catur-daśa-bhāgaḥ . tri-pauruṣyāṃ aṣṭa-bhāgaḥ . dvi-pauruṣyāṃ ṣaḍ-bhāgaḥ . pauruṣyāṃ catur-bhāgaḥ . aṣṭa-aṅgulāyāṃ trayo daśa-bhāgāḥ . catur-aṅgulāyāṃ trayoaṣṭa-bhāgāḥ . acchāyo madhya-ahna iti .. 02.20.39 ..
परावृत्ते दिवसे शेषं एवं विद्यात् ॥ ०२.२०.४० ॥
parāvṛtte divase śeṣaṃ evaṃ vidyāt .. 02.20.40 ..
आषाढे मासि नष्टच्-छायो मध्य-अह्नो भवति ॥ ०२.२०.४१ ॥
āṣāḍhe māsi naṣṭac-chāyo madhya-ahno bhavati .. 02.20.41 ..
अतः परं श्रावण-आदीनां षण्-मासानां द्व्य्-अङ्गुल-उत्तरा माघ-आदीनां द्व्य्-अङ्गुल-अवरा छाया इति ॥ ०२.२०.४२ ॥
ataḥ paraṃ śrāvaṇa-ādīnāṃ ṣaṇ-māsānāṃ dvy-aṅgula-uttarā māgha-ādīnāṃ dvy-aṅgula-avarā chāyā iti .. 02.20.42 ..
पञ्चदश-अहो-रात्राः पक्षः ॥ ०२.२०.४३ ॥
pañcadaśa-aho-rātrāḥ pakṣaḥ .. 02.20.43 ..
सोम-आप्यायनः शुक्लः ॥ ०२.२०.४४ ॥
soma-āpyāyanaḥ śuklaḥ .. 02.20.44 ..
सोम-अवच्छेदनो बहुलः ॥ ०२.२०.४५ ॥
soma-avacchedano bahulaḥ .. 02.20.45 ..
द्वि-पक्षो मासः ॥ ०२.२०.४६ ॥
dvi-pakṣo māsaḥ .. 02.20.46 ..
त्रिंशद्-अहो-रात्रः कर्म-मासः ॥ ०२.२०.४७ ॥
triṃśad-aho-rātraḥ karma-māsaḥ .. 02.20.47 ..
सार्धः सौरः ॥ ०२.२०.४८ ॥
sārdhaḥ sauraḥ .. 02.20.48 ..
अर्ध-न्यूनश्चान्द्र-मासः ॥ ०२.२०.४९ ॥
ardha-nyūnaścāndra-māsaḥ .. 02.20.49 ..
सप्त-विंशतिर्नाक्षत्र-मासः ॥ ०२.२०.५० ॥
sapta-viṃśatirnākṣatra-māsaḥ .. 02.20.50 ..
द्वात्रिंशद्बल-मासः ॥ ०२.२०.५१ ॥
dvātriṃśadbala-māsaḥ .. 02.20.51 ..
पञ्चत्रिंशदश्व-वाहायाः ॥ ०२.२०.५२ ॥
pañcatriṃśadaśva-vāhāyāḥ .. 02.20.52 ..
चत्वारिंशद्द्-हस्ति-वाहायाः ॥ ०२.२०.५३ ॥
catvāriṃśadd-hasti-vāhāyāḥ .. 02.20.53 ..
द्वौ मासावृतुः ॥ ०२.२०.५४ ॥
dvau māsāvṛtuḥ .. 02.20.54 ..
श्रावणः प्रौष्ठपदश्च वर्षाः ॥ ०२.२०.५५ ॥
śrāvaṇaḥ prauṣṭhapadaśca varṣāḥ .. 02.20.55 ..
आश्वयुजः कार्त्तिकश्च शरत् ॥ ०२.२०.५६ ॥
āśvayujaḥ kārttikaśca śarat .. 02.20.56 ..
मार्ग-शीर्षः पौषश्च हेमन्तः ॥ ०२.२०.५७ ॥
mārga-śīrṣaḥ pauṣaśca hemantaḥ .. 02.20.57 ..
माघः फाल्गुनश्च शिशिरः ॥ ०२.२०.५८ ॥
māghaḥ phālgunaśca śiśiraḥ .. 02.20.58 ..
चैत्रो वैशाखश्च वसन्तः ॥ ०२.२०.५९ ॥
caitro vaiśākhaśca vasantaḥ .. 02.20.59 ..
ज्येष्ठामूलीय आषाढश्च ग्रीष्मः ॥ ०२.२०.६० ॥
jyeṣṭhāmūlīya āṣāḍhaśca grīṣmaḥ .. 02.20.60 ..
शिशिर-आद्युत्तर-अयणं ॥ ०२.२०.६१ ॥
śiśira-ādyuttara-ayaṇaṃ .. 02.20.61 ..
वर्ष-आदि दक्षिण-अयनं ॥ ०२.२०.६२ ॥
varṣa-ādi dakṣiṇa-ayanaṃ .. 02.20.62 ..
द्व्य्-अयनः संवत्सरः ॥ ०२.२०.६३ ॥
dvy-ayanaḥ saṃvatsaraḥ .. 02.20.63 ..
पञ्च-संवत्सरो युगं इति ॥ ०२.२०.६४ ॥
pañca-saṃvatsaro yugaṃ iti .. 02.20.64 ..
दिवसस्य हरत्यर्कः षष्टि-भागं ऋतौ ततः । ॥ ०२.२०.६५अ ब ॥
divasasya haratyarkaḥ ṣaṣṭi-bhāgaṃ ṛtau tataḥ . .. 02.20.65a ba ..
करोत्येकं अहश्-छेदं तथाएवएकं च चन्द्रमाः ॥ ०२.२०.६५च्द् ॥
karotyekaṃ ahaś-chedaṃ tathāevaekaṃ ca candramāḥ .. 02.20.65cd ..
एवं अर्ध-तृतीयानां अब्दानां अधिमासकं । ॥ ०२.२०.६६अ ब ॥
evaṃ ardha-tṛtīyānāṃ abdānāṃ adhimāsakaṃ . .. 02.20.66a ba ..
ग्रीष्मे जनयतः पूर्वं पञ्च-अब्द-अन्ते च पश्चिमं ॥ ०२.२०.६६च्द् ॥
grīṣme janayataḥ pūrvaṃ pañca-abda-ante ca paścimaṃ .. 02.20.66cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In