| |
|

This overlay will guide you through the buttons:

शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ॥ ०२.२१.०१ ॥
शुल्क-अध्यक्षः शुल्क-शालाम् ध्वजम् च प्राच्-मुखम् उदक्-मुखम् वा महा-द्वार-अभ्याशे निवेशयेत् ॥ ०२।२१।०१ ॥
śulka-adhyakṣaḥ śulka-śālām dhvajam ca prāc-mukham udak-mukham vā mahā-dvāra-abhyāśe niveśayet .. 02.21.01 ..
शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ॥ ०२.२१.०२ ॥
शुल्क-आदायिनः चत्वारः पञ्च वा सार्थ-उपयातान् वणिजः लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व च अभिज्ञानम् मुद्रा वा कृता इति ॥ ०२।२१।०२ ॥
śulka-ādāyinaḥ catvāraḥ pañca vā sārtha-upayātān vaṇijaḥ likheyuḥ ke kutastyāḥ kiyat-paṇyāḥ kva ca abhijñānam mudrā vā kṛtā iti .. 02.21.02 ..
अमुद्राणां अत्ययो देय-द्वि-गुणः ॥ ०२.२१.०३ ॥
अमुद्राणाम् अत्ययः देय-द्वि-गुणः ॥ ०२।२१।०३ ॥
amudrāṇām atyayaḥ deya-dvi-guṇaḥ .. 02.21.03 ..
कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ॥ ०२.२१.०४ ॥
कूट-मुद्राणाम् शुल्क-अष्ट-गुणः दण्डः ॥ ०२।२१।०४ ॥
kūṭa-mudrāṇām śulka-aṣṭa-guṇaḥ daṇḍaḥ .. 02.21.04 ..
भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ॥ ०२.२१.०५ ॥
भिन्न-मुद्राणाम् अत्ययः घटिका-स्थाने स्थानम् ॥ ०२।२१।०५ ॥
bhinna-mudrāṇām atyayaḥ ghaṭikā-sthāne sthānam .. 02.21.05 ..
राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ॥ ०२.२१.०६ ॥
राज-मुद्रा-परिवर्तने नाम-कृते वा स पाद-पणिकम् वहनम् दापयेत् ॥ ०२।२१।०६ ॥
rāja-mudrā-parivartane nāma-kṛte vā sa pāda-paṇikam vahanam dāpayet .. 02.21.06 ..
ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ॥ ०२.२१.०७ ॥
ध्वज-मूल-उपस्थितस्य प्रमाणम् अर्घम् च वैदेहिकाः पण्यस्य ब्रूयुः "एतद्-प्रमाणेन अर्घेण पण्यम् इदम् कः क्रेता" इति ॥ ०२।२१।०७ ॥
dhvaja-mūla-upasthitasya pramāṇam argham ca vaidehikāḥ paṇyasya brūyuḥ "etad-pramāṇena argheṇa paṇyam idam kaḥ kretā" iti .. 02.21.07 ..
त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ॥ ०२.२१.०८ ॥
त्रि-रुद्ध-उषितम् अर्थिभ्यः दद्यात् ॥ ०२।२१।०८ ॥
tri-ruddha-uṣitam arthibhyaḥ dadyāt .. 02.21.08 ..
क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ॥ ०२.२१.०९ ॥
क्रेतृ-संघर्षे मूल्य-वृद्धिः स शुल्का कोशम् गच्छेत् ॥ ०२।२१।०९ ॥
kretṛ-saṃgharṣe mūlya-vṛddhiḥ sa śulkā kośam gacchet .. 02.21.09 ..
शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ॥ ०२.२१.१० ॥
शुल्क-भयात् पण्य-प्रमाण-मूल्यम् वा हीनम् ब्रुवतः तद्-अतिरिक्तम् राजा हरेत् ॥ ०२।२१।१० ॥
śulka-bhayāt paṇya-pramāṇa-mūlyam vā hīnam bruvataḥ tad-atiriktam rājā haret .. 02.21.10 ..
शुल्कं अष्ट-गुणं वा दद्यात् ॥ ०२.२१.११ ॥
शुल्कम् अष्ट-गुणम् वा दद्यात् ॥ ०२।२१।११ ॥
śulkam aṣṭa-guṇam vā dadyāt .. 02.21.11 ..
तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ॥ ०२.२१.१२ ॥
तत् एव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेन अर्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ॥ ०२।२१।१२ ॥
tat eva niviṣṭa-paṇyasya bhāṇḍasya hīna-prativarṇakena argha-apakarṣaṇe sāra-bhāṇḍasya phalgu-bhāṇḍena praticchādane ca kuryāt .. 02.21.12 ..
प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ॥ ०२.२१.१३ ॥
प्रतिक्रेतृ-भयात् वा पण्य-मूल्यात् उपरि मूल्यम् वर्धयतः मूल्य-वृद्धिम् राजा हरेत् । द्वि-गुणम् वा शुल्कम् कुर्यात् ॥ ०२।२१।१३ ॥
pratikretṛ-bhayāt vā paṇya-mūlyāt upari mūlyam vardhayataḥ mūlya-vṛddhim rājā haret . dvi-guṇam vā śulkam kuryāt .. 02.21.13 ..
तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ॥ ०२.२१.१४ ॥
तत् एव अष्ट-गुणम् छादयतः ॥ ०२।२१।१४ ॥
tat eva aṣṭa-guṇam chādayataḥ .. 02.21.14 ..
तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ॥ ०२.२१.१५ ॥
तस्मात् विक्रयः पण्यानाम् धृतः मितः गणितः वा कार्यः । तर्कः फल्गु-भाण्डानाम् आनुग्राहिकाणाम् च ॥ ०२।२१।१५ ॥
tasmāt vikrayaḥ paṇyānām dhṛtaḥ mitaḥ gaṇitaḥ vā kāryaḥ . tarkaḥ phalgu-bhāṇḍānām ānugrāhikāṇām ca .. 02.21.15 ..
ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ॥ ०२.२१.१६ ॥
ध्वज-मूलम् अतिक्रान्तानाम् च अ कृत-शुल्कानाम् शुल्कात् अष्ट-गुणः दण्डः ॥ ०२।२१।१६ ॥
dhvaja-mūlam atikrāntānām ca a kṛta-śulkānām śulkāt aṣṭa-guṇaḥ daṇḍaḥ .. 02.21.16 ..
पथिक-उत्पथिकास्तद्विद्युः ॥ ०२.२१.१७ ॥
पथिक-उत्पथिकाः तत् विद्युः ॥ ०२।२१।१७ ॥
pathika-utpathikāḥ tat vidyuḥ .. 02.21.17 ..
वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ॥ ०२.२१.१८ ॥
वैवाहिकम् अन्वायनम् औपायिकम् यज्ञ-कृत्य-प्रसव-नैमित्तिकम् देव-एज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डम् उच्छुल्कम् गच्छेत् ॥ ०२।२१।१८ ॥
vaivāhikam anvāyanam aupāyikam yajña-kṛtya-prasava-naimittikam deva-ejyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bhāṇḍam ucchulkam gacchet .. 02.21.18 ..
अन्यथा-वादिनः स्तेय-दण्डः ॥ ०२.२१.१९ ॥
अन्यथा वादिनः स्तेय-दण्डः ॥ ०२।२१।१९ ॥
anyathā vādinaḥ steya-daṇḍaḥ .. 02.21.19 ..
कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ॥ ०२.२१.२० ॥
कृत-शुल्केन अ कृत-शुल्कम् निर्वाहयतः द्वितीयम् एक-मुद्रया भित्त्वा पण्य-पुटम् अपहरतः वैदेहकस्य तत् च तावत् च दण्डः ॥ ०२।२१।२० ॥
kṛta-śulkena a kṛta-śulkam nirvāhayataḥ dvitīyam eka-mudrayā bhittvā paṇya-puṭam apaharataḥ vaidehakasya tat ca tāvat ca daṇḍaḥ .. 02.21.20 ..
शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ॥ ०२.२१.२१ ॥
शुल्क-स्थानात् गोमय-पलालम् प्रमाणम् कृत्वा अपहरतः उत्तमः साहस-दण्डः ॥ ०२।२१।२१ ॥
śulka-sthānāt gomaya-palālam pramāṇam kṛtvā apaharataḥ uttamaḥ sāhasa-daṇḍaḥ .. 02.21.21 ..
शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ॥ ०२.२१.२२ ॥
शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनाम् अन्यतमम् अ निर्वाह्यम् निर्वाहयतः यथा अवघुषितः दण्डः पण्य-नाशः च ॥ ०२।२१।२२ ॥
śastra-varma-kavaca-loha-ratha-ratna-dhānya-paśūnām anyatamam a nirvāhyam nirvāhayataḥ yathā avaghuṣitaḥ daṇḍaḥ paṇya-nāśaḥ ca .. 02.21.22 ..
तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ॥ ०२.२१.२३ ॥
तेषाम् अन्यतमस्य अ नयने बहिस् एव औच्छुल्कः विक्रयः ॥ ०२।२१।२३ ॥
teṣām anyatamasya a nayane bahis eva aucchulkaḥ vikrayaḥ .. 02.21.23 ..
अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ॥ ०२.२१.२४ ॥
अन्त-पालः स पाद-पणिकाम् वर्तनीम् गृह्णीयात् पण्य-वहनस्य । पणिकाम् एक-खुरस्य । पशूनाम् अर्ध-पणिकाम् क्षुद्र-पशूनाम् पादिकाम् । अंस-भारस्य माषिकां ॥ ०२।२१।२४ ॥
anta-pālaḥ sa pāda-paṇikām vartanīm gṛhṇīyāt paṇya-vahanasya . paṇikām eka-khurasya . paśūnām ardha-paṇikām kṣudra-paśūnām pādikām . aṃsa-bhārasya māṣikāṃ .. 02.21.24 ..
नष्ट-अपहृतं च प्रतिविदध्यात् ॥ ०२.२१.२५ ॥
नष्ट-अपहृतम् च प्रतिविदध्यात् ॥ ०२।२१।२५ ॥
naṣṭa-apahṛtam ca pratividadhyāt .. 02.21.25 ..
वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ॥ ०२.२१.२६ ॥
वैदेश्यम् सार्थम् कृत-सार-फल्गु-भाण्ड-विचयनम् अभिज्ञानम् मुद्राम् च दत्त्वा प्रेषयेत् अध्यक्षस्य ॥ ०२।२१।२६ ॥
vaideśyam sārtham kṛta-sāra-phalgu-bhāṇḍa-vicayanam abhijñānam mudrām ca dattvā preṣayet adhyakṣasya .. 02.21.26 ..
वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ॥ ०२.२१.२७ ॥
वैदेहक-व्यञ्जनः वा सार्थ-प्रमाणम् राज्ञः प्रेषयेत् ॥ ०२।२१।२७ ॥
vaidehaka-vyañjanaḥ vā sārtha-pramāṇam rājñaḥ preṣayet .. 02.21.27 ..
तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ॥ ०२.२१.२८ ॥
तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणम् उपदिशेत् सर्वज्ञ-ख्यापन-अर्थम् ॥ ०२।२१।२८ ॥
tena pradeśena rājā śulka-adhyakṣasya sārtha-pramāṇam upadiśet sarvajña-khyāpana-artham .. 02.21.28 ..
ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ॥ ०२.२१.२९ ॥
ततस् सार्थम् अध्यक्षः अभिगम्य ब्रूयात्"इदम् अमुष्याम् उष्य च सार-भाण्डम् फल्गु-भाण्डम् च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ॥ ०२।२१।२९ ॥
tatas sārtham adhyakṣaḥ abhigamya brūyāt"idam amuṣyām uṣya ca sāra-bhāṇḍam phalgu-bhāṇḍam ca . na nihūhitavyam . eṣa rājñaḥ prabhāvaḥ" iti .. 02.21.29 ..
निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ॥ ०२.२१.३० ॥
निहूहतः फल्गु-भाण्डम् शुल्क-अष्ट-गुणः दण्डः । सार-भाण्डम् सर्व-अपहारः ॥ ०२।२१।३० ॥
nihūhataḥ phalgu-bhāṇḍam śulka-aṣṭa-guṇaḥ daṇḍaḥ . sāra-bhāṇḍam sarva-apahāraḥ .. 02.21.30 ..
राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ॥ ०२.२१.३१अ ब ॥
राष्ट्र-पीडा-करम् भाण्डम् उच्छिन्द्यात् अफलम् च यत् । ॥ ०२।२१।३१अ ब ॥
rāṣṭra-pīḍā-karam bhāṇḍam ucchindyāt aphalam ca yat . .. 02.21.31a ba ..
महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ॥ ०२.२१.३१च्द् ॥
महा-उपकारम् उच्छुल्कम् कुर्यात् बीजम् च दुर्लभम् ॥ ०२।२१।३१च् ॥
mahā-upakāram ucchulkam kuryāt bījam ca durlabham .. 02.21.31c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In