| |
|

This overlay will guide you through the buttons:

शुल्क-अध्यक्षः शुल्क-शालां ध्वजं च प्रान्-मुखं उदन्-मुखं वा महा-द्वार-अभ्याशे निवेशयेत् ॥ ०२.२१.०१ ॥
śulka-adhyakṣaḥ śulka-śālāṃ dhvajaṃ ca prān-mukhaṃ udan-mukhaṃ vā mahā-dvāra-abhyāśe niveśayet .. 02.21.01 ..
शुल्क-आदायिनश्चत्वारः पञ्च वा सार्थ-उपयातान्वणिजो लिखेयुः के कुतस्त्याः कियत्-पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति ॥ ०२.२१.०२ ॥
śulka-ādāyinaścatvāraḥ pañca vā sārtha-upayātānvaṇijo likheyuḥ ke kutastyāḥ kiyat-paṇyāḥ kva cābhijñānaṃ mudrā vā kṛtā iti .. 02.21.02 ..
अमुद्राणां अत्ययो देय-द्वि-गुणः ॥ ०२.२१.०३ ॥
amudrāṇāṃ atyayo deya-dvi-guṇaḥ .. 02.21.03 ..
कूट-मुद्राणां शुल्क-अष्ट-गुणो दण्डः ॥ ०२.२१.०४ ॥
kūṭa-mudrāṇāṃ śulka-aṣṭa-guṇo daṇḍaḥ .. 02.21.04 ..
भिन्न-मुद्राणां अत्ययो घटिका-स्थाने स्थानं ॥ ०२.२१.०५ ॥
bhinna-mudrāṇāṃ atyayo ghaṭikā-sthāne sthānaṃ .. 02.21.05 ..
राज-मुद्रा-परिवर्तने नाम-कृते वा सपाद-पणिकं वहनं दापयेत् ॥ ०२.२१.०६ ॥
rāja-mudrā-parivartane nāma-kṛte vā sapāda-paṇikaṃ vahanaṃ dāpayet .. 02.21.06 ..
ध्वज-मूल-उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्-प्रमाणेनार्घेण पण्यं इदं कः क्रेता" इति ॥ ०२.२१.०७ ॥
dhvaja-mūla-upasthitasya pramāṇaṃ arghaṃ ca vaidehikāḥ paṇyasya brūyuḥ "etat-pramāṇenārgheṇa paṇyaṃ idaṃ kaḥ kretā" iti .. 02.21.07 ..
त्रि-रुद्ध-उषितं अर्थिभ्यो दद्यात् ॥ ०२.२१.०८ ॥
tri-ruddha-uṣitaṃ arthibhyo dadyāt .. 02.21.08 ..
क्रेतृ-संघर्षे मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ॥ ०२.२१.०९ ॥
kretṛ-saṃgharṣe mūlya-vṛddhiḥ saśulkā kośaṃ gacchet .. 02.21.09 ..
शुल्क-भयात्पण्य-प्रमाण मूल्यं वा हीनं ब्रुवतस्तदतिरिक्तं राजा हरेत् ॥ ०२.२१.१० ॥
śulka-bhayātpaṇya-pramāṇa mūlyaṃ vā hīnaṃ bruvatastadatiriktaṃ rājā haret .. 02.21.10 ..
शुल्कं अष्ट-गुणं वा दद्यात् ॥ ०२.२१.११ ॥
śulkaṃ aṣṭa-guṇaṃ vā dadyāt .. 02.21.11 ..
तदेव निविष्ट-पण्यस्य भाण्डस्य हीन-प्रतिवर्णकेनार्घ-अपकर्षणे सार-भाण्डस्य फल्गु-भाण्डेन प्रतिच्छादने च कुर्यात् ॥ ०२.२१.१२ ॥
tadeva niviṣṭa-paṇyasya bhāṇḍasya hīna-prativarṇakenārgha-apakarṣaṇe sāra-bhāṇḍasya phalgu-bhāṇḍena praticchādane ca kuryāt .. 02.21.12 ..
प्रतिक्रेतृ-भयाद्वा पण्य-मूल्यादुपरि मूल्यं वर्धयतो मूल्य-वृद्धिं राजा हरेत् । द्वि-गुणं वा शुल्कं कुर्यात् ॥ ०२.२१.१३ ॥
pratikretṛ-bhayādvā paṇya-mūlyādupari mūlyaṃ vardhayato mūlya-vṛddhiṃ rājā haret . dvi-guṇaṃ vā śulkaṃ kuryāt .. 02.21.13 ..
तदेवाष्ट-गुणं अध्यक्षस्यच्- छादयतः ॥ ०२.२१.१४ ॥
tadevāṣṭa-guṇaṃ adhyakṣasyac- chādayataḥ .. 02.21.14 ..
तस्माद्विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः । तर्कः फल्गु-भाण्डानां आनुग्राहिकाणां च ॥ ०२.२१.१५ ॥
tasmādvikrayaḥ paṇyānāṃ dhṛto mito gaṇito vā kāryaḥ . tarkaḥ phalgu-bhāṇḍānāṃ ānugrāhikāṇāṃ ca .. 02.21.15 ..
ध्वज-मूलं अतिक्रान्तानां चाकृत-शुल्कानां शुल्कादष्ट-गुणो दण्डः ॥ ०२.२१.१६ ॥
dhvaja-mūlaṃ atikrāntānāṃ cākṛta-śulkānāṃ śulkādaṣṭa-guṇo daṇḍaḥ .. 02.21.16 ..
पथिक-उत्पथिकास्तद्विद्युः ॥ ०२.२१.१७ ॥
pathika-utpathikāstadvidyuḥ .. 02.21.17 ..
वैवाहिकं अन्वायनं औपायिकं यज्ञ-कृत्य-प्रसव-नैमित्तिकं देवैज्या-चौल-उपनयन-गो-दान-व्रत-दीक्षा-आदिषु क्रिया-विशेषेषु भाण्डं उच्छुल्कं गच्छेत् ॥ ०२.२१.१८ ॥
vaivāhikaṃ anvāyanaṃ aupāyikaṃ yajña-kṛtya-prasava-naimittikaṃ devaijyā-caula-upanayana-go-dāna-vrata-dīkṣā-ādiṣu kriyā-viśeṣeṣu bhāṇḍaṃ ucchulkaṃ gacchet .. 02.21.18 ..
अन्यथा-वादिनः स्तेय-दण्डः ॥ ०२.२१.१९ ॥
anyathā-vādinaḥ steya-daṇḍaḥ .. 02.21.19 ..
कृत-शुल्केनाकृत-शुल्कं निर्वाहयतो द्वितीयं एक-मुद्रया भित्त्वा पण्य-पुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः ॥ ०२.२१.२० ॥
kṛta-śulkenākṛta-śulkaṃ nirvāhayato dvitīyaṃ eka-mudrayā bhittvā paṇya-puṭaṃ apaharato vaidehakasya tacca tāvacca daṇḍaḥ .. 02.21.20 ..
शुल्क-स्थानाद्गोमय-पलालं प्रमाणं कृत्वाअपहरत उत्तमः साहस-दण्डः ॥ ०२.२१.२१ ॥
śulka-sthānādgomaya-palālaṃ pramāṇaṃ kṛtvāapaharata uttamaḥ sāhasa-daṇḍaḥ .. 02.21.21 ..
शस्त्र-वर्म-कवच-लोह-रथ-रत्न-धान्य-पशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाअवघुषितो दण्डः पण्य-नाशश्च ॥ ०२.२१.२२ ॥
śastra-varma-kavaca-loha-ratha-ratna-dhānya-paśūnāṃ anyatamaṃ anirvāhyaṃ nirvāhayato yathāavaghuṣito daṇḍaḥ paṇya-nāśaśca .. 02.21.22 ..
तेषां अन्यतमस्यऽनयने बहिरेवौच्छुल्को विक्रयः ॥ ०२.२१.२३ ॥
teṣāṃ anyatamasya'nayane bahirevaucchulko vikrayaḥ .. 02.21.23 ..
अन्त-पालः सपाद-पणिकां वर्तनीं गृह्णीयात्पण्य-वहनस्य । पणिकां एक-खुरस्य । पशूनां अर्ध-पणिकां क्षुद्र-पशूनां पादिकाम् । अंस-भारस्य माषिकां ॥ ०२.२१.२४ ॥
anta-pālaḥ sapāda-paṇikāṃ vartanīṃ gṛhṇīyātpaṇya-vahanasya . paṇikāṃ eka-khurasya . paśūnāṃ ardha-paṇikāṃ kṣudra-paśūnāṃ pādikām . aṃsa-bhārasya māṣikāṃ .. 02.21.24 ..
नष्ट-अपहृतं च प्रतिविदध्यात् ॥ ०२.२१.२५ ॥
naṣṭa-apahṛtaṃ ca pratividadhyāt .. 02.21.25 ..
वैदेश्यं सार्थं कृत-सार-फल्गु-भाण्ड-विचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेदध्यक्षस्य ॥ ०२.२१.२६ ॥
vaideśyaṃ sārthaṃ kṛta-sāra-phalgu-bhāṇḍa-vicayanaṃ abhijñānaṃ mudrāṃ ca dattvā preṣayedadhyakṣasya .. 02.21.26 ..
वैदेहक-व्यञ्जनो वा सार्थ-प्रमाणं राज्ञः प्रेषयेत् ॥ ०२.२१.२७ ॥
vaidehaka-vyañjano vā sārtha-pramāṇaṃ rājñaḥ preṣayet .. 02.21.27 ..
तेन प्रदेशेन राजा शुल्क-अध्यक्षस्य सार्थ-प्रमाणं उपदिशेत्सर्वज्ञ-ख्यापनार्थं ॥ ०२.२१.२८ ॥
tena pradeśena rājā śulka-adhyakṣasya sārtha-pramāṇaṃ upadiśetsarvajña-khyāpanārthaṃ .. 02.21.28 ..
ततः सार्थं अध्यक्षोअभिगम्य ब्रूयात्"इदं अमुष्यां उष्य च सार-भाण्डं फल्गु-भाण्डं च । न निहूहितव्यम् । एष राज्ञः प्रभावः" इति ॥ ०२.२१.२९ ॥
tataḥ sārthaṃ adhyakṣoabhigamya brūyāt"idaṃ amuṣyāṃ uṣya ca sāra-bhāṇḍaṃ phalgu-bhāṇḍaṃ ca . na nihūhitavyam . eṣa rājñaḥ prabhāvaḥ" iti .. 02.21.29 ..
निहूहतः फल्गु-भाण्डं शुल्क-अष्ट-गुणो दण्डः । सार-भाण्डं सर्व-अपहारः ॥ ०२.२१.३० ॥
nihūhataḥ phalgu-bhāṇḍaṃ śulka-aṣṭa-guṇo daṇḍaḥ . sāra-bhāṇḍaṃ sarva-apahāraḥ .. 02.21.30 ..
राष्ट्र-पीडा-करं भाण्डं उच्छिन्द्यादफलं च यत् । ॥ ०२.२१.३१अ ब ॥
rāṣṭra-pīḍā-karaṃ bhāṇḍaṃ ucchindyādaphalaṃ ca yat . .. 02.21.31a ba ..
महा-उपकारं उच्छुल्कं कुर्याद्बीजं च दुर्लभं ॥ ०२.२१.३१च्द् ॥
mahā-upakāraṃ ucchulkaṃ kuryādbījaṃ ca durlabhaṃ .. 02.21.31cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In