| |
|

This overlay will guide you through the buttons:

बाह्यं आभ्यन्तरं चऽतिथ्यं ॥ ०२.२२.०१ ॥
बाह्यम् आभ्यन्तरम् च आतिथ्यम् ॥ ०२।२२।०१ ॥
bāhyam ābhyantaram ca ātithyam .. 02.22.01 ..
निष्क्राम्यं प्रवेश्यं च शुल्कं ॥ ०२.२२.०२ ॥
निष्क्राम्यम् प्रवेश्यम् च शुल्कम् ॥ ०२।२२।०२ ॥
niṣkrāmyam praveśyam ca śulkam .. 02.22.02 ..
प्रवेश्यानां मूल्य-पञ्च-भागः ॥ ०२.२२.०३ ॥
प्रवेश्यानाम् मूल्य-पञ्च-भागः ॥ ०२।२२।०३ ॥
praveśyānām mūlya-pañca-bhāgaḥ .. 02.22.03 ..
पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानां षड्-भागं गृह्णीयात् ॥ ०२.२२.०४ ॥
पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानाम् षष्-भागम् गृह्णीयात् ॥ ०२।२२।०४ ॥
puṣpa-phala-śāka-mūla-kanda-vāllikya-bīja-śuṣka-matsya-māṃsānām ṣaṣ-bhāgam gṛhṇīyāt .. 02.22.04 ..
शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणां तज्-जात-पुरुषैः कारयेत्कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ॥ ०२.२२.०५ ॥
शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणाम् तद्-जात-पुरुषैः कारयेत् कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ॥ ०२।२२।०५ ॥
śaṅkha-vajra-maṇi-muktā-pravāla-hārāṇām tad-jāta-puruṣaiḥ kārayet kṛta-karma-pramāṇa-kāla-vetana-phala-niṣpattibhiḥ .. 02.22.05 ..
क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनां चन्दन-अगुरु-कटुक-किण्व-अवराणां चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानां आज-एडकस्य च दश-भागः पञ्च-दश-भागो वा ॥ ०२.२२.०६ ॥
क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनाम् चन्दन-अगुरु-कटुक-किण्व-अवराणाम् चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानाम् आज-एडकस्य च दश-भागः पञ्च-दश-भागः वा ॥ ०२।२२।०६ ॥
kṣauma-dukūla-krimi-tāna-kaṅkaṭa-hari-tāla-manaḥ-śilā-añjana-hiṅguluka-loha-varṇa-dhātūnām candana-aguru-kaṭuka-kiṇva-avarāṇām carma-danta-āstaraṇa-prāvaraṇa-krimi-jātānām āja-eḍakasya ca daśa-bhāgaḥ pañca-daśa-bhāgaḥ vā .. 02.22.06 ..
वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ॥ ०२.२२.०७ ॥
वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्-भ-अण्डानाम् धान्य-स्नेह-क्षार-लवण-मद्य-पक्व-अन्न-आदीनाम् च विंशति-भागः पञ्च-विंशति-भागः वा ॥ ०२।२२।०७ ॥
vastra-catuṣpada-dvipada-sūtra-kārpāsa-gandha-bhaiṣajya-kāṣṭha-veṇu-valkala-carma-mṛd-bha-aṇḍānām dhānya-sneha-kṣāra-lavaṇa-madya-pakva-anna-ādīnām ca viṃśati-bhāgaḥ pañca-viṃśati-bhāgaḥ vā .. 02.22.07 ..
द्वारादेयं शुल्कं पञ्च-भागः आनुग्राहिकं वा यथा-देश-उपकारं स्थापय्तेत् ॥ ०२.२२.०८ ॥
द्वारादेयम् शुल्कम् पञ्च-भागः आनुग्राहिकम् वा यथा देश-उपकारम् ॥ ०२।२२।०८ ॥
dvārādeyam śulkam pañca-bhāgaḥ ānugrāhikam vā yathā deśa-upakāram .. 02.22.08 ..
जाति-भूमिषु च पण्यानां विक्रयः ॥ ०२.२२.०९ ॥
जाति-भूमिषु च पण्यानाम् विक्रयः ॥ ०२।२२।०९ ॥
jāti-bhūmiṣu ca paṇyānām vikrayaḥ .. 02.22.09 ..
खनिभ्यो धातु-पण्यादाने षट्-छतं अत्ययः ॥ ०२.२२.१० ॥
खनिभ्यः धातु-पण्य-आदाने षष्-छतम् अत्ययः ॥ ०२।२२।१० ॥
khanibhyaḥ dhātu-paṇya-ādāne ṣaṣ-chatam atyayaḥ .. 02.22.10 ..
पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०२.२२.११ ॥
पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्पञ्चाशत्-पणः दण्डः ॥ ०२।२२।११ ॥
puṣpa-phala-vāṭebhyaḥ puṣpa-phala-ādāne catuṣpañcāśat-paṇaḥ daṇḍaḥ .. 02.22.11 ..
षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनं द्वि-पञ्चाशत्-पणो दण्डः ॥ ०२.२२.१२ ॥
षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनम् द्वि-पञ्चाशत्-पणः दण्डः ॥ ०२।२२।१२ ॥
ṣaṇḍebhyaḥ śāka-mūla-kanda-ādāne pāda-ūnam dvi-pañcāśat-paṇaḥ daṇḍaḥ .. 02.22.12 ..
क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ॥ ०२.२२.१३ ॥
क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ॥ ०२।२२।१३ ॥
kṣetrebhyaḥ sarva-sasya-ādāne tri-pañcāśat-paṇaḥ .. 02.22.13 ..
पणोअध्यर्ध-पणश्च सीता-अत्ययः ॥ ०२.२२.१४ ॥
पणः अध्यर्ध-पणः च सीता-अत्ययः ॥ ०२।२२।१४ ॥
paṇaḥ adhyardha-paṇaḥ ca sītā-atyayaḥ .. 02.22.14 ..
अतो नव-पुराणां देश-जाति-चरित्रतः । ॥ ०२.२२.१५अ ब ॥
अतस् नव-पुराणाम् देश-जाति-चरित्रतः । ॥ ०२।२२।१५अ ब ॥
atas nava-purāṇām deśa-jāti-caritrataḥ . .. 02.22.15a ba ..
पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ॥ ०२.२२.१५च्द् ॥
पण्यानाम् स्थापयेत् शुक्लम् अत्ययम् च अपकारतः ॥ ०२।२२।१५च् ॥
paṇyānām sthāpayet śuklam atyayam ca apakārataḥ .. 02.22.15c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In