| |
|

This overlay will guide you through the buttons:

सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ॥ ०२.२४.०१ ॥
सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुः-वेद-ज्ञः तद्-ज्ञ-सखः वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथाकालम् गृह्णीयात् ॥ ०२।२४।०१ ॥
sītā-adhyakṣaḥ kṛṣi-tantra-śulba-vṛkṣa-āyuḥ-veda-jñaḥ tad-jña-sakhaḥ vā sarva-dhānya-puṣpa-phala-śāka-kanda-mūla-vāllikya-kṣauma-kārpāsa-bījāni yathākālam gṛhṇīyāt .. 02.24.01 ..
बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ॥ ०२.२४.०२ ॥
बहु-हल-परिकृष्टायाम् स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिः वापयेत् ॥ ०२।२४।०२ ॥
bahu-hala-parikṛṣṭāyām sva-bhūmau dāsa-karma-kara-daṇḍa-pratikartṛbhiḥ vāpayet .. 02.24.02 ..
कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ॥ ०२.२४.०३ ॥
कर्षण-यन्त्र-उपकरण-बलीवर्दैः च एषाम् असङ्गम् कारयेत् । कारुभिः च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिः च ॥ ०२।२४।०३ ॥
karṣaṇa-yantra-upakaraṇa-balīvardaiḥ ca eṣām asaṅgam kārayet . kārubhiḥ ca karmāra-kuṭṭāka-medaka-rajju-vartaka-sarpa-grāha-ādibhiḥ ca .. 02.24.03 ..
तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ॥ ०२.२४.०४ ॥
तेषाम् कर्म-फल-विनिपाते तद्-फल-हानम् दण्डः ॥ ०२।२४।०४ ॥
teṣām karma-phala-vinipāte tad-phala-hānam daṇḍaḥ .. 02.24.04 ..
षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ॥ ०२.२४.०५ ॥
षोडश-द्रोणम् जाङ्गलानाम् वर्ष-प्रमाणम् । अध्यर्धम् आनूपानाम् देश-वापानाम् । अर्ध-त्रयोदश-अश्मकानाम् । त्रयोविंशतिः अवन्तीनाम् । अमितम् अपर-अन्तानाम् हैमन्यानाम् च । कुल्या-आवापानाम् च कालतः ॥ ०२।२४।०५ ॥
ṣoḍaśa-droṇam jāṅgalānām varṣa-pramāṇam . adhyardham ānūpānām deśa-vāpānām . ardha-trayodaśa-aśmakānām . trayoviṃśatiḥ avantīnām . amitam apara-antānām haimanyānām ca . kulyā-āvāpānām ca kālataḥ .. 02.24.05 ..
वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ॥ ०२.२४.०६ ॥
वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपम् ॥ ०२।२४।०६ ॥
varṣa-tri-bhāgaḥ pūrva-paścima-māsayoḥ . dvau tri-bhāgau madhyamayoḥ suṣamā-rūpam .. 02.24.06 ..
तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ॥ ०२.२४.०७ ॥
तस्य औपलधिः बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृतात् च ॥ ०२।२४।०७ ॥
tasya aupaladhiḥ bṛhaspateḥ sthāna-gamana-garbha-ādhānebhyaḥ śukra-udaya-astamaya-cārebhyaḥ sūryasya prakṛti-vaikṛtāt ca .. 02.24.07 ..
सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ॥ ०२.२४.०८ ॥
सूर्यात् बीज-सिद्धिः । बृहस्पतेः सस्यानाम् स्तम्ब-कारि-ता । शुक्रात् वृष्टिः इति ॥ ०२।२४।०८ ॥
sūryāt bīja-siddhiḥ . bṛhaspateḥ sasyānām stamba-kāri-tā . śukrāt vṛṣṭiḥ iti .. 02.24.08 ..
त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ॥ ०२.२४.०९अ ब ॥
त्रयः सप्त-अहिकाः मेघाः अशीतिः कण-शीकराः । ॥ ०२।२४।०९अ ब ॥
trayaḥ sapta-ahikāḥ meghāḥ aśītiḥ kaṇa-śīkarāḥ . .. 02.24.09a ba ..
षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ॥ ०२.२४.०९च्द् ॥
षष्टिः आतप-मेघानाम् एषा वृष्टिः समा हिता ॥ ०२।२४।०९च् ॥
ṣaṣṭiḥ ātapa-meghānām eṣā vṛṣṭiḥ samā hitā .. 02.24.09c ..
वातं आतप-योगं च विभजन्यत्र वर्षति । ॥ ०२.२४.१०अ ब ॥
वातम् आतप-योगम् च विभजन् यत्र वर्षति । ॥ ०२।२४।१०अ ब ॥
vātam ātapa-yogam ca vibhajan yatra varṣati . .. 02.24.10a ba ..
त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ॥ ०२.२४.१०च्द् ॥
त्रीन् करीषान् च जनयन् तत्र सस्य-आगमः ध्रुवः ॥ ०२।२४।१०च् ॥
trīn karīṣān ca janayan tatra sasya-āgamaḥ dhruvaḥ .. 02.24.10c ..
ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ॥ ०२.२४.११ ॥
ततस् प्रभूत-उदकम् अल्प-उदकम् वा सस्यम् वापयेत् ॥ ०२।२४।११ ॥
tatas prabhūta-udakam alpa-udakam vā sasyam vāpayet .. 02.24.11 ..
शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ॥ ०२.२४.१२ ॥
शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ॥ ०२।२४।१२ ॥
śāli-vrīhi-kodrava-tila-priyaṅgu-udāraka-varakāḥ pūrva-vāpāḥ .. 02.24.12 ..
मुद्ग-माष-शैम्ब्या मध्य-वापाः ॥ ०२.२४.१३ ॥
मुद्ग-माष-शैम्ब्याः मध्य-वापाः ॥ ०२।२४।१३ ॥
mudga-māṣa-śaimbyāḥ madhya-vāpāḥ .. 02.24.13 ..
कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ॥ ०२.२४.१४ ॥
कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चात् वापाः ॥ ०२।२४।१४ ॥
kusumbha-masūra-kulattha-yava-go-dhūma-kalāya-atasī-sarṣapāḥ paścāt vāpāḥ .. 02.24.14 ..
यथा-ऋतु-वशेन वा बीज-वापाः ॥ ०२.२४.१५ ॥
यथा ऋतु-वशेन वा बीज-वापाः ॥ ०२।२४।१५ ॥
yathā ṛtu-vaśena vā bīja-vāpāḥ .. 02.24.15 ..
वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ॥ O२.२४.१६ ॥
वाप-अतिरिक्तम् अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनः वा चतुर्-थ-पञ्च-भागिकाः ॥ ओ२।२४।१६ ॥
vāpa-atiriktam ardha-sītikāḥ kuryuḥ . sva-vīrya-upajīvinaḥ vā catur-tha-pañca-bhāgikāḥ .. o2.24.16 ..
यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ॥ ऊ२.२४.१७ ॥
यथाइष्टम् अनवसित-भागम् दद्युः । अन्यत्र कृच्छ्रेभ्यः ॥ ।२४।१७ ॥
yathāiṣṭam anavasita-bhāgam dadyuḥ . anyatra kṛcchrebhyaḥ .. .24.17 ..
स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ॥ ऊ२.२४.१८ ॥
स्व-सेतुभ्यः हस्त-प्रावर्तिमम् उदक-भागम् पञ्चमम् दद्युः । स्कन्ध-प्रावर्तिमम् चतुर्थम् । च तृतीयम् । चतुर्थम् नदी-सरः-तटाक-कूप-उद्धाटम् ॥ ।२४।१८ ॥
sva-setubhyaḥ hasta-prāvartimam udaka-bhāgam pañcamam dadyuḥ . skandha-prāvartimam caturtham . ca tṛtīyam . caturtham nadī-saraḥ-taṭāka-kūpa-uddhāṭam .. .24.18 ..
कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥ ऊ२.२४.१९ ॥
कर्म-उदक-प्रमाणेन कैदारम् हैमनम् ग्रैष्मिकम् वा सस्यम् स्थापयेत् ॥ ।२४।१९ ॥
karma-udaka-pramāṇena kaidāram haimanam graiṣmikam vā sasyam sthāpayet .. .24.19 ..
शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ॥ ऊ२.२४.२० ॥
शालि-आदि ज्येष्ठम् । षण्डः मध्यमः । इक्षुः प्रत्यवरः ॥ ।२४।२० ॥
śāli-ādi jyeṣṭham . ṣaṇḍaḥ madhyamaḥ . ikṣuḥ pratyavaraḥ .. .24.20 ..
इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ॥ ०२.२४.२१ ॥
इक्षवः हि बहु-आबाधाः व्यय-ग्राहिणः च ॥ ०२।२४।२१ ॥
ikṣavaḥ hi bahu-ābādhāḥ vyaya-grāhiṇaḥ ca .. 02.24.21 ..
फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ॥ ०२.२४.२२ ॥
फेन-आघातः वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यः लवानाम् गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनाम् ॥ ०२।२४।२२ ॥
phena-āghātaḥ vallī-phalānām . parīvāha-antāḥ pippalī-mṛdvīka-ikṣūṇām . kūpa-paryantāḥ śāka-mūlānām . haraṇī-paryantā haritakānām . pālyaḥ lavānām gandha-bhaiṣajya-uśīra-hrībera-piṇḍāluka-ādīnām .. 02.24.22 ..
यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ॥ ०२.२४.२३ ॥
यथा-स्वम् भूमिषु च स्थाल्याः च अनूप्याः च ओषधीः स्थापयेत् ॥ ०२।२४।२३ ॥
yathā-svam bhūmiṣu ca sthālyāḥ ca anūpyāḥ ca oṣadhīḥ sthāpayet .. 02.24.23 ..
तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ॥ ०२.२४.२४ ॥
तुषार-पायनम् उष्ण-शोषणम् च सप्त-रात्रात् इति धान्य-बीजानाम् । त्रि-रात्रम् वा पञ्च-रात्रम् वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृत्-युक्ताभिः काण्ड-बीजानाम् छेद-लेपः । मधु-घृतेन कन्दानाम् । अस्थि-बीजानाम् शकृत्-आलेपः । शाखिनाम् गर्त-दाहः गो-अस्थि-शकृद्भिः काले दौह्र्दम् च ॥ ०२।२४।२४ ॥
tuṣāra-pāyanam uṣṇa-śoṣaṇam ca sapta-rātrāt iti dhānya-bījānām . tri-rātram vā pañca-rātram vā kośī-dhānyānām . madhu-ghṛta-sūkara-vasābhiḥ śakṛt-yuktābhiḥ kāṇḍa-bījānām cheda-lepaḥ . madhu-ghṛtena kandānām . asthi-bījānām śakṛt-ālepaḥ . śākhinām garta-dāhaḥ go-asthi-śakṛdbhiḥ kāle dauhrdam ca .. 02.24.24 ..
प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ॥ ०२.२४.२५ ॥
प्ररूढान् च अशुष्क-कटु-मत्स्यान् च स्नुही-क्षीरेण पाययेत् ॥ ०२।२४।२५ ॥
prarūḍhān ca aśuṣka-kaṭu-matsyān ca snuhī-kṣīreṇa pāyayet .. 02.24.25 ..
कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ॥ ०२.२४.२६अ ब ॥
च समाहरेत् । ॥ ०२।२४।२६अ ब ॥
ca samāharet . .. 02.24.26a ba ..
न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ॥ ०२.२४.२६च्द् ॥
न सर्पाः तत्र तिष्ठन्ति धूमः यत्र एष तिष्ठति ॥ ०२।२४।२६च् ॥
na sarpāḥ tatra tiṣṭhanti dhūmaḥ yatra eṣa tiṣṭhati .. 02.24.26c ..
सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥ ०२.२४.२७ ॥
सर्व-जीजानाम् तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुताम् पूर्व-मुष्टिम् वापयेत् । अमुम् च मन्त्रम् ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यताम् देवी बीजेषु च धनेषु च ॥ ०२।२४।२७ ॥
sarva-jījānām tu prathama-vāpe suvarṇa-udaka-samplutām pūrva-muṣṭim vāpayet . amum ca mantram brūyāt "prajāpataye kāśyapāya devāya ca namaḥ sadā sītā me ṛdhyatām devī bījeṣu ca dhaneṣu ca .. 02.24.27 ..
षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ॥ ०२.२४.२८ ॥
षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यः यथा पुरुष-परिवापम् भक्तम् कुर्यात् । स पाद-पणिकम् च मासम् दद्यात् ॥ ०२।२४।२८ ॥
ṣaṇḍa-vāṭa-go-pālaka-dāsa-karma-karebhyaḥ yathā puruṣa-parivāpam bhaktam kuryāt . sa pāda-paṇikam ca māsam dadyāt .. 02.24.28 ..
कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ॥ ०२.२४.२९ ॥
कर्म-अनुरूपम् कारुभ्यः भक्त-वेतनम् ॥ ०२।२४।२९ ॥
karma-anurūpam kārubhyaḥ bhakta-vetanam .. 02.24.29 ..
प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ॥ ०२.२४.३० ॥
प्रशीर्णम् च पुष्प-फलम् देव-कार्य-अर्थम् व्रीहि-यवम् आग्रयण-अर्थम् श्रोत्रियाः तपस्विनः च आहरेयुः । राशि-मूलम् उञ्छ-वृत्तयः ॥ ०२।२४।३० ॥
praśīrṇam ca puṣpa-phalam deva-kārya-artham vrīhi-yavam āgrayaṇa-artham śrotriyāḥ tapasvinaḥ ca āhareyuḥ . rāśi-mūlam uñcha-vṛttayaḥ .. 02.24.30 ..
यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ॥ ०२.२४.३१अ ब ॥
यथा कालम् च सस्य-आदि जातम् जातम् प्रवेशयेत् । ॥ ०२।२४।३१अ ब ॥
yathā kālam ca sasya-ādi jātam jātam praveśayet . .. 02.24.31a ba ..
न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ॥ ०२.२४.३१च्द् ॥
न क्षेत्रे स्थापयेत् किंचिद् पलालम् अपि पण्डितः ॥ ०२।२४।३१च् ॥
na kṣetre sthāpayet kiṃcid palālam api paṇḍitaḥ .. 02.24.31c ..
प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ॥ ०२.२४.३२अ ब ॥
प्राकाराणाम् समुच्छ्रयान् वलभीः वा तथाविधाः । ॥ ०२।२४।३२अ ब ॥
prākārāṇām samucchrayān valabhīḥ vā tathāvidhāḥ . .. 02.24.32a ba ..
न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥ ०२.२४.३२च्द् ॥
न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥ ०२।२४।३२च् ॥
na saṃhatāni kurvīta na tucchāni śirāṃsi ca .. 02.24.32c ..
खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ॥ ०२.२४.३३अ ब ॥
खलस्य प्रकरान् कुर्यात् मण्डल-अन्ते समाश्रितान् । ॥ ०२।२४।३३अ ब ॥
khalasya prakarān kuryāt maṇḍala-ante samāśritān . .. 02.24.33a ba ..
अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ॥ ०२.२४.३३च्द् ॥
अनग्निकाः स औदकाः च खले स्युः परिकर्मिणः ॥ ०२।२४।३३च् ॥
anagnikāḥ sa audakāḥ ca khale syuḥ parikarmiṇaḥ .. 02.24.33c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In