| |
|

This overlay will guide you through the buttons:

सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ॥ ०२.२५.०१ ॥
सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान् दुर्गे जन-पदे स्कन्ध-आवारे वा तद्-जात-सुरा-किण्व-व्यवहारिभिः कारयेत् । एक-मुखम् अनेक-मुखम् वा विक्रय-क्रय-वशेन वा ॥ ०२।२५।०१ ॥
surā-adhyakṣaḥ surā-kiṇva-vyavahārān durge jana-pade skandha-āvāre vā tad-jāta-surā-kiṇva-vyavahāribhiḥ kārayet . eka-mukham aneka-mukham vā vikraya-kraya-vaśena vā .. 02.25.01 ..
षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ॥ ०२.२५.०२ ॥
षष्-शतम् अत्ययम् अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणाम् स्थापयेत् ॥ ०२।२५।०२ ॥
ṣaṣ-śatam atyayam anyatra kartṛ-kretṛ-vikretṛṛṇām sthāpayet .. 02.25.02 ..
ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ॥ ०२.२५.०३ ॥
ग्रामात् अ निर्णयणम् अ सम्पातम् च सुरायाः । प्रमाद-भयात् कर्मसु ञ्जिः दिष्टानाम् । मर्याद-अतिक्रम-भयात्-आर्याणाम् । उत्साह-भयात् च तीष्क्णानाम् ॥ ०२।२५।०३ ॥
grāmāt a nirṇayaṇam a sampātam ca surāyāḥ . pramāda-bhayāt karmasu ñjiḥ diṣṭānām . maryāda-atikrama-bhayāt-āryāṇām . utsāha-bhayāt ca tīṣkṇānām .. 02.25.03 ..
लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ॥ ०२.२५.०४ ॥
लक्षितम् अल्पम् वा चतुर्-भागम् अर्ध-कुडुबम् कुडुबम् अर्ध-प्रस्थम् प्रस्थम् वा इति ज्ञात-शौचाः निर्हरेयुः ॥ ०२।२५।०४ ॥
lakṣitam alpam vā catur-bhāgam ardha-kuḍubam kuḍubam ardha-prastham prastham vā iti jñāta-śaucāḥ nirhareyuḥ .. 02.25.04 ..
पान-अगारेषु वा पिबेयुरसंचारिणः ॥ ०२.२५.०५ ॥
पान-अगारेषु वा पिबेयुः असंचारिणः ॥ ०२।२५।०५ ॥
pāna-agāreṣu vā pibeyuḥ asaṃcāriṇaḥ .. 02.25.05 ..
निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ॥ ०२.२५.०६ ॥
निक्षेप-उपनिधि-प्रयोग-अपहृतानाम् अनिष्ट-उपगतानाम् च द्रव्याणाम् ज्ञान-अर्थम् अस्वामिकम् कुप्यम् हिरण्यम् च औपलभ्य निष्केप्तारम् अन्यत्र व्यपदेशेन ग्राहयेत् । अति व्यय-कर्तारम् अनायति-व्ययम् च ॥ ०२।२५।०६ ॥
nikṣepa-upanidhi-prayoga-apahṛtānām aniṣṭa-upagatānām ca dravyāṇām jñāna-artham asvāmikam kupyam hiraṇyam ca aupalabhya niṣkeptāram anyatra vyapadeśena grāhayet . ati vyaya-kartāram anāyati-vyayam ca .. 02.25.06 ..
न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ॥ ०२.२५.०७ ॥
न च अनर्घेण कालिकाम् वा सुराम् दद्यात् । अन्यत्र दुष्ट-सुरायाः ॥ ०२।२५।०७ ॥
na ca anargheṇa kālikām vā surām dadyāt . anyatra duṣṭa-surāyāḥ .. 02.25.07 ..
तां अन्यत्र विक्रापयेत् ॥ ०२.२५.०८ ॥
ताम् अन्यत्र विक्रापयेत् ॥ ०२।२५।०८ ॥
tām anyatra vikrāpayet .. 02.25.08 ..
दास-कर्म-करेभ्यो वा वेतनं दद्यात् ॥ ०२.२५.०९ ॥
दास-कर्म-करेभ्यः वा वेतनम् दद्यात् ॥ ०२।२५।०९ ॥
dāsa-karma-karebhyaḥ vā vetanam dadyāt .. 02.25.09 ..
वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ॥ ०२.२५.१० ॥
वाहन-प्रतिपानम् सूकर-पोषणम् वा दद्यात् ॥ ०२।२५।१० ॥
vāhana-pratipānam sūkara-poṣaṇam vā dadyāt .. 02.25.10 ..
पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ॥ ०२.२५.११ ॥
पान-अगाराणि अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ॥ ०२।२५।११ ॥
pāna-agārāṇi aneka-kakṣyāṇi vibhakta-śayana-āsanavanti pāna-uddeśāni gandha-mālya-udakavanti ṛtu-sukhāni kārayet .. 02.25.11 ..
तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ॥ ०२.२५.१२ ॥
तत्रस्थाः प्रकृति-औत्पत्तिकौ व्ययौ गूढाः विद्युः । आगन्तून् च ॥ ०२।२५।१२ ॥
tatrasthāḥ prakṛti-autpattikau vyayau gūḍhāḥ vidyuḥ . āgantūn ca .. 02.25.12 ..
क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ॥ ०२.२५.१३ ॥
क्रेतृणाम् मत्त-सुप्तानाम् अलङ्कार-आत्छादन-हिरण्यानि च विद्युः ॥ ०२।२५।१३ ॥
kretṛṇām matta-suptānām alaṅkāra-ātchādana-hiraṇyāni ca vidyuḥ .. 02.25.13 ..
तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ॥ ०२.२५.१४ ॥
तद्-नाशे वणिजः तत् च तावत् च दण्डम् दद्युः ॥ ०२।२५।१४ ॥
tad-nāśe vaṇijaḥ tat ca tāvat ca daṇḍam dadyuḥ .. 02.25.14 ..
वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ॥ ०२.२५.१५ ॥
वणिजः तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिः आगन्तूनाम् वास्तव्यानाम् च आर्य-रूपाणाम् मत्त-सुप्तानाम् भावम् विद्युः ॥ ०२।२५।१५ ॥
vaṇijaḥ tu saṃvṛteṣu kakṣyā-vibhāgeṣu sva-dāsībhiḥ peśala-rūpābhiḥ āgantūnām vāstavyānām ca ārya-rūpāṇām matta-suptānām bhāvam vidyuḥ .. 02.25.15 ..
मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ॥ ०२.२५.१६ ॥
मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनाम् ॥ ०२।२५।१६ ॥
medaka-prasanna-āsava-ariṣṭa-maireya-madhūnām .. 02.25.16 ..
उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ॥ ०२.२५.१७ ॥
उदक-द्रोणम् तण्डुलानाम् अर्ध-आढकम् त्रयः प्रस्थाः किण्वस्य एति मेदक-योगः ॥ ०२।२५।१७ ॥
udaka-droṇam taṇḍulānām ardha-āḍhakam trayaḥ prasthāḥ kiṇvasya eti medaka-yogaḥ .. 02.25.17 ..
द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ॥ ०२.२५.१८ ॥
द्वादश-आढकम् पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वच्-फल-युक्तः वा जाति-सम्भारः प्रसन्ना-योगः ॥ ०२।२५।१८ ॥
dvādaśa-āḍhakam piṣṭasya pañca prasthāḥ kiṇvasya kramuka-tvac-phala-yuktaḥ vā jāti-sambhāraḥ prasannā-yogaḥ .. 02.25.18 ..
कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ॥ ०२.२५.१९ ॥
कपित्थ-तुला फाणितम् पञ्च-तौलिकम् प्रस्थः मधुनः इति आसव-योगः ॥ ०२।२५।१९ ॥
kapittha-tulā phāṇitam pañca-taulikam prasthaḥ madhunaḥ iti āsava-yogaḥ .. 02.25.19 ..
पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ॥ ऊ२.२५.२० ॥
पाद्-अधिकः ज्येष्ठः पाद-हीनः कनिष्ठः ॥ ।२५।२० ॥
pād-adhikaḥ jyeṣṭhaḥ pāda-hīnaḥ kaniṣṭhaḥ .. .25.20 ..
चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ॥ ऊ२.२५.२१ ॥
चिकित्सक-प्रमाणाः प्रत्येकशः विकाराणाम् अरिष्टाः ॥ ।२५।२१ ॥
cikitsaka-pramāṇāḥ pratyekaśaḥ vikārāṇām ariṣṭāḥ .. .25.21 ..
मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ॥ ऊ२.२५.२२ ॥
मेष-शृङ्गी-त्वच्-क्वाथ-अभिषुतः गुड-प्रतीवापः पिप्पली-मरिच-सम्भारः त्रिफला-युक्तः वा मैरेयः ॥ ।२५।२२ ॥
meṣa-śṛṅgī-tvac-kvātha-abhiṣutaḥ guḍa-pratīvāpaḥ pippalī-marica-sambhāraḥ triphalā-yuktaḥ vā maireyaḥ .. .25.22 ..
गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ॥ य़्२.२५.२३ ॥
गुड-युक्तानाम् वा सर्वेषाम् त्रि-फला-सम्भारः ॥ ।२५।२३ ॥
guḍa-yuktānām vā sarveṣām tri-phalā-sambhāraḥ .. .25.23 ..
मृद्वीका-रसो मधु ॥ ऊ२.२५.२४ ॥
mṛdvīkā-raso madhu || ū2.25.24 ||
mṛdvīkā-raso madhu || ū2.25.24 ||
तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ॥ उ२.२५.२५ ॥
तस्य स्व-देशः व्याख्यानम् कापि-शायनम् हार-हूरकम् इति ॥ उ२।२५।२५ ॥
tasya sva-deśaḥ vyākhyānam kāpi-śāyanam hāra-hūrakam iti .. u2.25.25 ..
माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ॥ ऊ२.२५.२६ ॥
सिद्धम् वा त्रि-भाग-अधिक-तण्डुलम् मोरट-आदीनाम् कार्षिक-भाग-युक्तम् किण्व-बन्धः ॥ ।२५।२६ ॥
siddham vā tri-bhāga-adhika-taṇḍulam moraṭa-ādīnām kārṣika-bhāga-yuktam kiṇva-bandhaḥ .. .25.26 ..
पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ॥ ०२.२५.२७ ॥
पाठा-लोघ्र-तेजोवती-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनाम् च पञ्च-कार्षिकः सम्भार-योगः मेदकस्य प्रसन्नायाः च ॥ ०२।२५।२७ ॥
pāṭhā-loghra-tejovatī-elā-vāluka-madhuka-madhu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnām ca pañca-kārṣikaḥ sambhāra-yogaḥ medakasya prasannāyāḥ ca .. 02.25.27 ..
मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ॥ ०२.२५.२८ ॥
च ॥ ०२।२५।२८ ॥
ca .. 02.25.28 ..
चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ॥ ०२.२५.२९ ॥
चोच-चित्रक-विलङ्ग-गज-पिप्पलीनाम् च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणाम् द्वि-कार्षिकः च आसव-सम्भारः ॥ ०२।२५।२९ ॥
coca-citraka-vilaṅga-gaja-pippalīnām ca kārṣikaḥ kramuka-madhuka-mustā-lodhrāṇām dvi-kārṣikaḥ ca āsava-sambhāraḥ .. 02.25.29 ..
दश-भागश्चएषां बीज-बन्धः ॥ ०२.२५.३० ॥
दश-भागः च एषाम् बीज-बन्धः ॥ ०२।२५।३० ॥
daśa-bhāgaḥ ca eṣām bīja-bandhaḥ .. 02.25.30 ..
प्रसन्ना-योगः श्वेत-सुरायाः ॥ ०२.२५.३१ ॥
प्रसन्ना-योगः श्वेत-सुरायाः ॥ ०२।२५।३१ ॥
prasannā-yogaḥ śveta-surāyāḥ .. 02.25.31 ..
सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ॥ ०२.२५.३२ ॥
सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ॥ ०२।२५।३२ ॥
sahakāra-surā rasa-uttarā bīja-uttarā vā mahā-surā sambhārikī vā .. 02.25.32 ..
तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ॥ ०२.२५.३३ ॥
तासाम् मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितम् दग्ध-कट-शर्करा-चूर्णम् लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शतपुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तम् अन्तर् नखः मुष्टिः कुम्भीम् राज-पेयाम् प्रसादयति ॥ ०२।२५।३३ ॥
tāsām moraṭā-palāśa-pattūra-meṣa-śṛṅgī-karañja-kṣīra-vṛkṣa-kaṣāya-bhāvitam dagdha-kaṭa-śarkarā-cūrṇam loghra-citraka-vilaṅga-pāṭhā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śatapuṣpa-apāmārga-sapta-parṇa-nimba-āsphota-kalka-ardha-yuktam antar nakhaḥ muṣṭiḥ kumbhīm rāja-peyām prasādayati .. 02.25.33 ..
फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ॥ ०२.२५.३४ ॥
फाणितः पञ्च-पलिकः च अत्र रस-वृद्धिः देयः ॥ ०२।२५।३४ ॥
phāṇitaḥ pañca-palikaḥ ca atra rasa-vṛddhiḥ deyaḥ .. 02.25.34 ..
कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ॥ ०२.२५.३५ ॥
कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थम् वा अरिष्टम् । अन्यत् वा कर्तुम् लभेरन् ॥ ०२।२५।३५ ॥
kuṭumbinaḥ kṛtyeṣu śveta-surām . auṣadha-artham vā ariṣṭam . anyat vā kartum labheran .. 02.25.35 ..
उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ॥ ०२.२५.३६ ॥
उत्सव-समाज-यात्रासु चतुर्-अहः सौरिकः देयः ॥ ०२।२५।३६ ॥
utsava-samāja-yātrāsu catur-ahaḥ saurikaḥ deyaḥ .. 02.25.36 ..
तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ॥ ०२.२५.३७ ॥
तेषु अननुज्ञातानाम् दैवसिकम् अत्ययम् गृह्णीयात् ॥ ०२।२५।३७ ॥
teṣu ananujñātānām daivasikam atyayam gṛhṇīyāt .. 02.25.37 ..
सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ॥ ०२.२५.३८ ॥
सुरा-किण्व-विचयम् स्त्रियः बालाः च कुर्युः ॥ ०२।२५।३८ ॥
surā-kiṇva-vicayam striyaḥ bālāḥ ca kuryuḥ .. 02.25.38 ..
अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ॥ ०२.२५.३९ ॥
अ राज-पण्याः पञ्चकम् शतम् शुल्कम् दद्युः । च ॥ ०२।२५।३९ ॥
a rāja-paṇyāḥ pañcakam śatam śulkam dadyuḥ . ca .. 02.25.39 ..
अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ॥ ०२.२५.४०अ ब ॥
अह्नः च विक्रयम् ज्ञात्वा व्याजीम् मान-हिरण्ययोः । ॥ ०२।२५।४०अ ब ॥
ahnaḥ ca vikrayam jñātvā vyājīm māna-hiraṇyayoḥ . .. 02.25.40a ba ..
तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ॥ ०२.२५.४०च्द् ॥
तथा वैधरणम् कुर्यात् उचितम् च अनुवर्तयेत् ॥ ०२।२५।४०च् ॥
tathā vaidharaṇam kuryāt ucitam ca anuvartayet .. 02.25.40c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In