| |
|

This overlay will guide you through the buttons:

सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ॥ ०२.२६.०१ ॥
सूना-अध्यक्षः प्रदिष्ट-अभयानाम् अभय-वन-वासिनाम् च मृग-पशु-पक्षि-मत्स्यानाम् बन्ध-वध-हिंसायाम् उत्तमम् दण्डम् कारयेत् । कुटुम्बिनाम् अभय-वन-परिग्रहेषु मध्यमम् ॥ ०२।२६।०१ ॥
sūnā-adhyakṣaḥ pradiṣṭa-abhayānām abhaya-vana-vāsinām ca mṛga-paśu-pakṣi-matsyānām bandha-vadha-hiṃsāyām uttamam daṇḍam kārayet . kuṭumbinām abhaya-vana-parigraheṣu madhyamam .. 02.26.01 ..
अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ॥ ०२.२६.०२ ॥
अप्रवृत्त-वधानाम् मत्स्य-पक्षिणाम् बन्ध-वध-हिंसायाम् पाद-ऊन-सप्त-विंशति-पणम् अत्ययम् कुर्यात् । मृग-पशूनाम् द्वि-गुणम् ॥ ०२।२६।०२ ॥
apravṛtta-vadhānām matsya-pakṣiṇām bandha-vadha-hiṃsāyām pāda-ūna-sapta-viṃśati-paṇam atyayam kuryāt . mṛga-paśūnām dvi-guṇam .. 02.26.02 ..
प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ॥ ०२.२६.०३ ॥
प्रवृत्त-हिंसानाम् अ परिगृहीतानाम् षष्-भागम् गृह्णीयात् । मत्स्य-पक्षिणाम् दश-भागम् वा अअधिकम् । मृग-पशूनाम् शुल्कम् वा अअधिकम् ॥ ०२।२६।०३ ॥
pravṛtta-hiṃsānām a parigṛhītānām ṣaṣ-bhāgam gṛhṇīyāt . matsya-pakṣiṇām daśa-bhāgam vā aadhikam . mṛga-paśūnām śulkam vā aadhikam .. 02.26.03 ..
पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ॥ ०२.२६.०४ ॥
पक्षि-मृगाणाम् जीवत्-षष्-भागम् अभय-वनेषु प्रमुञ्चेत् ॥ ०२।२६।०४ ॥
pakṣi-mṛgāṇām jīvat-ṣaṣ-bhāgam abhaya-vaneṣu pramuñcet .. 02.26.04 ..
सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ॥ ०२.२६.०५ ॥
सामुद्र-हस्ति-अश्व-पुरुष-वृष-गर्दभ-आकृतयः मत्स्याः सारसाः न अदेयाः तटाक-कुल्या-उद्भवाः वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन् जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणः मङ्गल्याः च अन्ये अपि प्राणिनः पक्षि-मृगाः हिंसा-बाधेभ्यः रक्ष्याः ॥ ०२।२६।०५ ॥
sāmudra-hasti-aśva-puruṣa-vṛṣa-gardabha-ākṛtayaḥ matsyāḥ sārasāḥ na adeyāḥ taṭāka-kulyā-udbhavāḥ vā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan jīvaka-bhṛṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇaḥ maṅgalyāḥ ca anye api prāṇinaḥ pakṣi-mṛgāḥ hiṃsā-bādhebhyaḥ rakṣyāḥ .. 02.26.05 ..
रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ॥ ०२.२६.०६ ॥
रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ॥ ०२।२६।०६ ॥
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ .. 02.26.06 ..
मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ॥ ०२.२६.०७ ॥
मृग-पशूनाम् अनस्थि-मांसम् सद्यस् हतम् विक्रीणीरन् ॥ ०२।२६।०७ ॥
mṛga-paśūnām anasthi-māṃsam sadyas hatam vikrīṇīran .. 02.26.07 ..
अस्थिमतः प्रतिपातं दद्युः ॥ ०२.२६.०८ ॥
अस्थिमतः प्रतिपातम् दद्युः ॥ ०२।२६।०८ ॥
asthimataḥ pratipātam dadyuḥ .. 02.26.08 ..
तुला-हीने हीन-अष्ट-गुणं ॥ ०२.२६.०९ ॥
तुला-हीने हीन-अष्ट-गुणम् ॥ ०२।२६।०९ ॥
tulā-hīne hīna-aṣṭa-guṇam .. 02.26.09 ..
वत्सो वृषो धेनुश्चएषां अवध्याः ॥ ०२.२६.१० ॥
वत्सः वृषः धेनुः च एषाम् अवध्याः ॥ ०२।२६।१० ॥
vatsaḥ vṛṣaḥ dhenuḥ ca eṣām avadhyāḥ .. 02.26.10 ..
घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ॥ ०२.२६.११ ॥
घ्नतः पञ्चाशत्कः दण्डः । क्लिष्ट-घातम् घातयतः च ॥ ०२।२६।११ ॥
ghnataḥ pañcāśatkaḥ daṇḍaḥ . kliṣṭa-ghātam ghātayataḥ ca .. 02.26.11 ..
परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ॥ ०२.२६.१२ ॥
परिशूनम् अ शिरः-पाद-अस्थि-विगन्धम् स्वयम् मृतम् च न विक्रीणीरन् ॥ ०२।२६।१२ ॥
pariśūnam a śiraḥ-pāda-asthi-vigandham svayam mṛtam ca na vikrīṇīran .. 02.26.12 ..
अन्यथा द्वादश-पणो दण्डः ॥ ०२.२६.१३ ॥
अन्यथा द्वादश-पणः दण्डः ॥ ०२।२६।१३ ॥
anyathā dvādaśa-paṇaḥ daṇḍaḥ .. 02.26.13 ..
दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ॥ ०२.२६.१४अ ब ॥
दुष्टाः पशु-मृग-व्यालाः मत्स्यः च अभय-चारिणः । ॥ ०२।२६।१४अ ब ॥
duṣṭāḥ paśu-mṛga-vyālāḥ matsyaḥ ca abhaya-cāriṇaḥ . .. 02.26.14a ba ..
अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ॥ ०२.२६.१४च्द् ॥
अन्यत्र गुप्ति-स्थानेभ्यः वध-बन्धम् अवाप्नुयुः ॥ ०२।२६।१४च् ॥
anyatra gupti-sthānebhyaḥ vadha-bandham avāpnuyuḥ .. 02.26.14c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In