| |
|

This overlay will guide you through the buttons:

गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ॥ ०२.२७.०१ ॥
गणिका-अध्यक्षः गणिका-अन्वयाम् अ गणिका-अन्वयाम् वा रूप-यौवन-शिल्प-सम्पन्नाम् सहस्रेण गणिकाम् कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकाम् ॥ ०२।२७।०१ ॥
gaṇikā-adhyakṣaḥ gaṇikā-anvayām a gaṇikā-anvayām vā rūpa-yauvana-śilpa-sampannām sahasreṇa gaṇikām kārayet . kuṭumba-ardhena pratigaṇikām .. 02.27.01 ..
निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ॥ ०२.२७.०२ ॥
निष्पतिता प्रेतयोः दुहिता भगिनी वा कुटुम्बम् भरेत । माता वा प्रतिगणिकाम् स्थापयेत् ॥ ०२।२७।०२ ॥
niṣpatitā pretayoḥ duhitā bhaginī vā kuṭumbam bhareta . mātā vā pratigaṇikām sthāpayet .. 02.27.02 ..
तासां अभावे राजा हरेत् ॥ ०२.२७.०३ ॥
तासाम् अभावे राजा हरेत् ॥ ०२।२७।०३ ॥
tāsām abhāve rājā haret .. 02.27.03 ..
सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ॥ ०२.२७.०४ ॥
सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारम् कनिष्ठम् मध्यमम् उत्तमम् वा आरोपयेत् छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थम् ॥ ०२।२७।०४ ॥
saubhāgya-alaṃkāra-vṛddhyā sahasreṇa vāram kaniṣṭham madhyamam uttamam vā āropayet chatra-bhṛṅgāra-vyajana-śibikā-pīṭhikā-ratheṣu ca viśeṣa-artham .. 02.27.04 ..
सौभाग्य-भङ्गे मातृकां कुर्यात् ॥ ०२.२७.०५ ॥
सौभाग्य-भङ्गे मातृकाम् कुर्यात् ॥ ०२।२७।०५ ॥
saubhāgya-bhaṅge mātṛkām kuryāt .. 02.27.05 ..
निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ॥ ०२.२७.०६ ॥
निष्क्रयः चतुर्-विंशति-साहस्रः गणिकायाः । द्वादश-साहस्रः गणिका-पुत्रस्य ॥ ०२।२७।०६ ॥
niṣkrayaḥ catur-viṃśati-sāhasraḥ gaṇikāyāḥ . dvādaśa-sāhasraḥ gaṇikā-putrasya .. 02.27.06 ..
अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ॥ ०२.२७.०७ ॥
अष्ट-वर्षात् प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ॥ ०२।२७।०७ ॥
aṣṭa-varṣāt prabhṛti rājñaḥ kuśīlava-karma kuryāt .. 02.27.07 ..
गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ॥ ०२.२७.०८ ॥
गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ॥ ०२।२७।०८ ॥
gaṇikā-dāsī bhagna-bhogā koṣṭha-agāre mahānase vā karma kuryāt .. 02.27.08 ..
अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ॥ ०२.२७.०९ ॥
अ विशन्ती स पाद-पणम् अवरुद्धा मास-वेतनम् दद्यात् ॥ ०२।२७।०९ ॥
a viśantī sa pāda-paṇam avaruddhā māsa-vetanam dadyāt .. 02.27.09 ..
भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ॥ ०२.२७.१० ॥
भोगम् दाय-मायम् व्ययम् आयतिम् च गणिकायाः निबन्धयेत् । अति व्यय-कर्म च वारयेत् ॥ ०२।२७।१० ॥
bhogam dāya-māyam vyayam āyatim ca gaṇikāyāḥ nibandhayet . ati vyaya-karma ca vārayet .. 02.27.10 ..
मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ॥ ०२.२७.११ ॥
मातृ-हस्तात् अन्यत्र अभरण-न्यासे स पाद-चतुष्-पणः दण्डः ॥ ०२।२७।११ ॥
mātṛ-hastāt anyatra abharaṇa-nyāse sa pāda-catuṣ-paṇaḥ daṇḍaḥ .. 02.27.11 ..
स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ॥ ०२.२७.१२ ॥
स्वापतेयम् विक्रयम् आधानम् वा नयन्त्याः स पाद-पञ्चाशत्-पणः पणः अर्ध-पण-छेदने ॥ ०२।२७।१२ ॥
svāpateyam vikrayam ādhānam vā nayantyāḥ sa pāda-pañcāśat-paṇaḥ paṇaḥ ardha-paṇa-chedane .. 02.27.12 ..
अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ॥ ०२.२७.१३ ॥
अकामायाः कुमार्याः वा साहसे उत्तमः दण्डः । स कामायाः पूर्वः साहस-दण्डः ॥ ०२।२७।१३ ॥
akāmāyāḥ kumāryāḥ vā sāhase uttamaḥ daṇḍaḥ . sa kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.27.13 ..
गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ॥ ०२.२७.१४ ॥
गणिकाम् अकामाम् रुन्धतः निष्पातयतः वा व्रण-विदारणेन वा रूपम् उपघ्नतः सहस्रम् दण्डः ॥ ०२।२७।१४ ॥
gaṇikām akāmām rundhataḥ niṣpātayataḥ vā vraṇa-vidāraṇena vā rūpam upaghnataḥ sahasram daṇḍaḥ .. 02.27.14 ..
स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ॥ ०२.२७.१५ ॥
स्थान्-विशेषेण वा दण्ड-वृद्धिः आ निष्क्रय-द्वि-गुणात् ॥ ०२।२७।१५ ॥
sthān-viśeṣeṇa vā daṇḍa-vṛddhiḥ ā niṣkraya-dvi-guṇāt .. 02.27.15 ..
प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ॥ ०२.२७.१६ ॥
प्राप्त-अधिकारम् गणिकाम् निष्क्रय-त्रि-गुणः दण्डः ॥ ०२।२७।१६ ॥
prāpta-adhikāram gaṇikām niṣkraya-tri-guṇaḥ daṇḍaḥ .. 02.27.16 ..
मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ॥ ०२.२७.१७ ॥
मातृका-दुहितृका-रूप-दासीनाम् घाते उत्तमः साहस-दण्डः ॥ ०२।२७।१७ ॥
mātṛkā-duhitṛkā-rūpa-dāsīnām ghāte uttamaḥ sāhasa-daṇḍaḥ .. 02.27.17 ..
सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ॥ ०२.२७.१८ ॥
सर्वत्र प्रथमे अपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा कामी स्यात् ॥ ०२।२७।१८ ॥
sarvatra prathame aparādhe prathamaḥ . dvitīye dvi-guṇaḥ . tṛtīye tri-guṇaḥ . caturthe yathā kāmī syāt .. 02.27.18 ..
राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ॥ ०२.२७.१९ ॥
राज-आज्ञया पुरुषम् अन् अभिगच्छन्ती गणिका शिफा-सहस्रम् लभीत । पञ्च-सहस्रम् वा दण्डः ॥ ०२।२७।१९ ॥
rāja-ājñayā puruṣam an abhigacchantī gaṇikā śiphā-sahasram labhīta . pañca-sahasram vā daṇḍaḥ .. 02.27.19 ..
भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ॥ ०२.२७.२० ॥
भोगम् गृहीत्वा द्विषत्या भोग-द्वि-गुणः दण्डः ॥ ०२।२७।२० ॥
bhogam gṛhītvā dviṣatyā bhoga-dvi-guṇaḥ daṇḍaḥ .. 02.27.20 ..
वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ॥ ०२.२७.२१ ॥
वसति-भोग-अपहारे भोगम् अष्ट-गुणम् दद्यात् अन्यत्र व्याधि-पुरुष-दोषेभ्यः ॥ ०२।२७।२१ ॥
vasati-bhoga-apahāre bhogam aṣṭa-guṇam dadyāt anyatra vyādhi-puruṣa-doṣebhyaḥ .. 02.27.21 ..
पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ॥ ०२.२७.२२ ॥
पुरुषम् घ्नत्याः चिता-प्रतापे अप्सु प्रवेशनम् वा ॥ ०२।२७।२२ ॥
puruṣam ghnatyāḥ citā-pratāpe apsu praveśanam vā .. 02.27.22 ..
गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ॥ ०२.२७.२३ ॥
गणिका-भरणम् अर्थम् भोगम् वा अपहरतः अष्ट-गुणः दण्डः ॥ ०२।२७।२३ ॥
gaṇikā-bharaṇam artham bhogam vā apaharataḥ aṣṭa-guṇaḥ daṇḍaḥ .. 02.27.23 ..
गणिका भोगं आयतिं पुरुषं च निवेदयेत् ॥ ०२.२७.२४ ॥
गणिका भोगम् आयतिम् पुरुषम् च निवेदयेत् ॥ ०२।२७।२४ ॥
gaṇikā bhogam āyatim puruṣam ca nivedayet .. 02.27.24 ..
एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ॥ ०२.२७.२५ ॥
एतेन नट-नर्तक-गायन-वादक-वाच्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानाम् स्त्री-व्यवहारिणाम् स्त्रियः गूढ-आजीवाः च व्याख्याताः ॥ ०२।२७।२५ ॥
etena naṭa-nartaka-gāyana-vādaka-vāc-jīvana-kuśīlava-plavaka-saubhika-cāraṇānām strī-vyavahāriṇām striyaḥ gūḍha-ājīvāḥ ca vyākhyātāḥ .. 02.27.25 ..
तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ॥ ०२.२७.२६ ॥
तेषाम् तूर्यम् आगन्तुकम् पञ्च-पणम् प्रेक्षा-वेतनम् दद्यात् ॥ ०२।२७।२६ ॥
teṣām tūryam āgantukam pañca-paṇam prekṣā-vetanam dadyāt .. 02.27.26 ..
रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ॥ ०२.२७.२७ ॥
रूप-आजीवाः भोग-द्वय-गुणम् मासम् दद्युः ॥ ०२।२७।२७ ॥
rūpa-ājīvāḥ bhoga-dvaya-guṇam māsam dadyuḥ .. 02.27.27 ..
गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ॥ ०२.२७.२८ ॥
गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिकाः दासी रङ्ग-उपजीविनीः च ग्राहयतः राज-मण्डलात् आजीवम् कुर्यात् ॥ ०२।२७।२८ ॥
gīta-vādya-pāṭhya-nṛtya-nāṭya-akṣara-citra-vīṇā-veṇu-mṛdaṅga-para-citta-jñāna-gandha-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikāḥ dāsī raṅga-upajīvinīḥ ca grāhayataḥ rāja-maṇḍalāt ājīvam kuryāt .. 02.27.28 ..
गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ॥ ०२.२७.२९ ॥
गणिका-पुत्रान् रङ्ग-उपजीविनाम् च मुख्यान् निष्पादयेयुः । सर्व-ताल-अवचराणाम् च ॥ ०२।२७।२९ ॥
gaṇikā-putrān raṅga-upajīvinām ca mukhyān niṣpādayeyuḥ . sarva-tāla-avacarāṇām ca .. 02.27.29 ..
संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ॥ ०२.२७.३०अ ब ॥
संज्ञा-भाषा-अन्तर-ज्ञाः च स्त्रियः तेषाम् अनात्मसु । ॥ ०२।२७।३०अ ब ॥
saṃjñā-bhāṣā-antara-jñāḥ ca striyaḥ teṣām anātmasu . .. 02.27.30a ba ..
चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ॥ ०२.२७.३०च्द् ॥
चार-घात-प्रमाद-अर्थम् प्रयोज्याः बन्धु-वाहनाः ॥ ०२।२७।३०च् ॥
cāra-ghāta-pramāda-artham prayojyāḥ bandhu-vāhanāḥ .. 02.27.30c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In