| |
|

This overlay will guide you through the buttons:

नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ॥ ०२.२८.०१ ॥
नौ-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान् देव-सरः-विसरः-नदी-तरान् च स्थानीय-आदिषु अवेक्षेत ॥ ०२।२८।०१ ॥
nau-adhyakṣaḥ samudra-samyāna-nadī-mukhatara-pracārān deva-saraḥ-visaraḥ-nadī-tarān ca sthānīya-ādiṣu avekṣeta .. 02.28.01 ..
तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ॥ ०२.२८.०२ ॥
तद्-वेला-कूल-ग्रामाः क्लृप्तम् दद्युः ॥ ०२।२८।०२ ॥
tad-velā-kūla-grāmāḥ klṛptam dadyuḥ .. 02.28.02 ..
मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ॥ ०२.२८.०३ ॥
मत्स्य-बन्धकाः नौका-भाटकम् षष्-भागम् दद्युः ॥ ०२।२८।०३ ॥
matsya-bandhakāḥ naukā-bhāṭakam ṣaṣ-bhāgam dadyuḥ .. 02.28.03 ..
पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ॥ ०२.२८.०४ ॥
पत्तन-अनुवृत्तम् शुल्क-भागम् वणिजः दद्युः । यात्रा-वेतनम् राज-नौभिः सम्पतन्तः ॥ ०२।२८।०४ ॥
pattana-anuvṛttam śulka-bhāgam vaṇijaḥ dadyuḥ . yātrā-vetanam rāja-naubhiḥ sampatantaḥ .. 02.28.04 ..
शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ॥ ०२.२८.०५ ॥
शङ्ख-मुक्ता-ग्राहिणः नौ-भाटकम् दद्युः । स्व-नौभिः वा तरेयुः ॥ ०२।२८।०५ ॥
śaṅkha-muktā-grāhiṇaḥ nau-bhāṭakam dadyuḥ . sva-naubhiḥ vā tareyuḥ .. 02.28.05 ..
अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ॥ ०२.२८.०६ ॥
अध्यक्षः च एषाम् खनि-अध्यक्षेण व्याख्यातः ॥ ०२।२८।०६ ॥
adhyakṣaḥ ca eṣām khani-adhyakṣeṇa vyākhyātaḥ .. 02.28.06 ..
पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ॥ ०२.२८.०७ ॥
पत्तन-अध्यक्ष-निबद्धम् पण्य-पत्तन-चारित्रम् नाव् अध्यक्षः पालयेत् ॥ ०२।२८।०७ ॥
pattana-adhyakṣa-nibaddham paṇya-pattana-cāritram nāv adhyakṣaḥ pālayet .. 02.28.07 ..
मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ॥ ०२.२८.०८ ॥
मूढ-वात-आहताः नावः पिता इव अनुगृह्णीयात् ॥ ०२।२८।०८ ॥
mūḍha-vāta-āhatāḥ nāvaḥ pitā iva anugṛhṇīyāt .. 02.28.08 ..
उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ॥ ०२.२८.०९ ॥
उदक-प्राप्तम् पण्यम् अशुल्कम् अर्ध-शुल्कम् वा कुर्यात् ॥ ०२।२८।०९ ॥
udaka-prāptam paṇyam aśulkam ardha-śulkam vā kuryāt .. 02.28.09 ..
यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ॥ ०२.२८.१० ॥
यथा निर्दिष्टाः च एताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ॥ ०२।२८।१० ॥
yathā nirdiṣṭāḥ ca etāḥ paṇya-pattana-yātrā-kāleṣu preṣayet .. 02.28.10 ..
सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ॥ ०२.२८.११ ॥
सम्यातीः नावः क्षेत्र-अनुगताः शुल्कम् याचेत् ॥ ०२।२८।११ ॥
samyātīḥ nāvaḥ kṣetra-anugatāḥ śulkam yācet .. 02.28.11 ..
हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ॥ ०२.२८.१२ ॥
हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाः च ॥ ०२।२८।१२ ॥
hiṃsrikā nirghātayet . amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upaghātikāḥ ca .. 02.28.12 ..
शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ॥ ०२.२८.१३ ॥
शासक-निर्यामक-दात्र-रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताः च महा-नावः हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ॥ ०२।२८।१३ ॥
śāsaka-niryāmaka-dātra-raśmi-grāhaka-utsecaka-adhiṣṭhitāḥ ca mahā-nāvaḥ hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet . kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu .. 02.28.13 ..
बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ॥ ०२.२८.१४ ॥
बाध-तीर्थाः च एताः कार्याः राज-द्विष्ट-कारिणाम् तरण-भयात् ॥ ०२।२८।१४ ॥
bādha-tīrthāḥ ca etāḥ kāryāḥ rāja-dviṣṭa-kāriṇām taraṇa-bhayāt .. 02.28.14 ..
अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ॥ ०२.२८.१५ ॥
अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ॥ ०२।२८।१५ ॥
akāleatīrthe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.28.15 ..
काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ॥ ०२.२८.१६ ॥
काले तीर्थे च अनिष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पण-स्तर-अत्ययः ॥ ०२।२८।१६ ॥
kāle tīrthe ca aniṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇa-stara-atyayaḥ .. 02.28.16 ..
कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ॥ ०२.२८.१७ ॥
कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानाम् अनत्ययः । सम्भाव्य-दूत-अनुपातिनाम् च सेना-भाण्ड-प्रयोगाणाम् च स्व-तरणैः तरताम् । बीज-भक्त-द्रव्य-उपस्करान् च अनूप-ग्रामाणाम् तारयताम् ॥ ०२।२८।१७ ॥
kaivartaka-aṣṭa-tṛṇa-bhāra-puṣpa-phala-vāṭa-ṣaṇḍa-go-pālakānām anatyayaḥ . sambhāvya-dūta-anupātinām ca senā-bhāṇḍa-prayogāṇām ca sva-taraṇaiḥ taratām . bīja-bhakta-dravya-upaskarān ca anūpa-grāmāṇām tārayatām .. 02.28.17 ..
ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ॥ ०२.२८.१८ ॥
ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यः नाव् अध्यक्ष-मुद्राभिः तरेयुः ॥ ०२।२८।१८ ॥
brāhmaṇa-pravrajita-bāla-vṛddha-vyādhita-śāsana-hara-garbhiṇyaḥ nāv adhyakṣa-mudrābhiḥ tareyuḥ .. 02.28.18 ..
कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ॥ ०२.२८.१९ ॥
कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणाः वा प्रविशेयुः ॥ ०२।२८।१९ ॥
kṛta-praveśāḥ pāraviṣayikāḥ sārtha-pramāṇāḥ vā praviśeyuḥ .. 02.28.19 ..
परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ॥ ०२.२८.२० ॥
परस्य भार्याम् कन्याम् वित्तम् वा अपहरन्तम् शवित्तम् वा अपहरन्तम् शङ्कितम् आविग्नम् उद्भाण्डी-कृतम् महा-भाण्डेन मूर्ध्नि भारेण अवच्छादयन्तम् सद्यस् गृहीत-लिङ्गिनम् अलिङ्गिनम् वा प्रव्रजितम् अलक्ष्य-व्याधितम् भय-विकारिणम् गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगम् विष-हस्तम् दीर्घ-पथिकम् अमुद्रम् च औपग्राहयेत् ॥ ०२।२८।२० ॥
parasya bhāryām kanyām vittam vā apaharantam śavittam vā apaharantam śaṅkitam āvignam udbhāṇḍī-kṛtam mahā-bhāṇḍena mūrdhni bhāreṇa avacchādayantam sadyas gṛhīta-liṅginam aliṅginam vā pravrajitam alakṣya-vyādhitam bhaya-vikāriṇam gūḍha-sāra-bhāṇḍa-śāsana-śastra-agniyogam viṣa-hastam dīrgha-pathikam amudram ca aupagrāhayet .. 02.28.20 ..
क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ॥ ०२.२८.२१ ॥
क्षुद्र-पशुः मनुष्यः च स भारः माषकम् दद्यात् । शिरः-भारः काय-भारः गवाश्वम् च द्वौ । उष्ट्र-महिषम् चतुरः । पञ्च लभुयानम् । षष्-गो-लिङ्गम् । सप्त-शकटम् । पन्य-भारः पादम् ॥ ०२।२८।२१ ॥
kṣudra-paśuḥ manuṣyaḥ ca sa bhāraḥ māṣakam dadyāt . śiraḥ-bhāraḥ kāya-bhāraḥ gavāśvam ca dvau . uṣṭra-mahiṣam caturaḥ . pañca labhuyānam . ṣaṣ-go-liṅgam . sapta-śakaṭam . panya-bhāraḥ pādam .. 02.28.21 ..
तेन भाण्ड-भारो व्याख्यातः ॥ ०२.२८.२२ ॥
तेन भाण्ड-भारः व्याख्यातः ॥ ०२।२८।२२ ॥
tena bhāṇḍa-bhāraḥ vyākhyātaḥ .. 02.28.22 ..
द्वि-गुणो महा-नदीषु तरः ॥ ०२.२८.२३ ॥
द्वि-गुणः महा-नदीषु तरः ॥ ०२।२८।२३ ॥
dvi-guṇaḥ mahā-nadīṣu taraḥ .. 02.28.23 ..
क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ॥ ०२.२८.२४ ॥
क्लृप्तम् आनूप-ग्रामाः भक्त-वेतनम् दद्युः ॥ ०२।२८।२४ ॥
klṛptam ānūpa-grāmāḥ bhakta-vetanam dadyuḥ .. 02.28.24 ..
प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ॥ ०२.२८.२५ ॥
प्रत्यन्तेषु तराः शुल्कम् आतिवाहिकम् वर्तनीम् च गृह्णीयुः । निर्गच्छतः चामुद्र-द्रव्यस्य भाण्डम् हरेयुः । अतिभारेण अवेलायाम् तरतः च ॥ ०२।२८।२५ ॥
pratyanteṣu tarāḥ śulkam ātivāhikam vartanīm ca gṛhṇīyuḥ . nirgacchataḥ cāmudra-dravyasya bhāṇḍam hareyuḥ . atibhāreṇa avelāyām tarataḥ ca .. 02.28.25 ..
पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ॥ ०२.२८.२६ ॥
पुरुष-उपकरण-हीनायाम् असंस्कृतायाम् वा नावि विपन्नायाम् नाव्-अध्ह्यक्षः नष्टम् विनष्टम् वा अभ्यावहेत् ॥ ०२।२८।२६ ॥
puruṣa-upakaraṇa-hīnāyām asaṃskṛtāyām vā nāvi vipannāyām nāv-adhhyakṣaḥ naṣṭam vinaṣṭam vā abhyāvahet .. 02.28.26 ..
सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ॥ ०२.२८.२७अ ब ॥
सप्त-अह-वृत्ताम् आषाढीम् कार्त्तिकीम् च अन्तरा तरः । ॥ ०२।२८।२७अ ब ॥
sapta-aha-vṛttām āṣāḍhīm kārttikīm ca antarā taraḥ . .. 02.28.27a ba ..
कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ॥ ०२.२८.२७च्द् ॥
कार्मिकः प्रत्ययम् दद्यात् नित्यम् च आह्निकम् आवहेत् ॥ ०२।२८।२७च् ॥
kārmikaḥ pratyayam dadyāt nityam ca āhnikam āvahet .. 02.28.27c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In