| |
|

This overlay will guide you through the buttons:

नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ॥ ०२.२८.०१ ॥
nāv-adhyakṣaḥ samudra-samyāna-nadī-mukhatara-pracārāndeva-saro-visaro-nadī-tarāṃśca sthānīya-ādiṣvavekṣeta .. 02.28.01 ..
तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ॥ ०२.२८.०२ ॥
tad-velā-kūla-grāmāḥ klṛptaṃ dadyuḥ .. 02.28.02 ..
मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ॥ ०२.२८.०३ ॥
matsya-bandhakā naukā-bhāṭakaṃ ṣaḍ-bhāgaṃ dadyuḥ .. 02.28.03 ..
पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ॥ ०२.२८.०४ ॥
pattana-anuvṛttaṃ śulka-bhāgaṃ vaṇijo dadyuḥ . yātrā-vetanaṃ rāja-naubhiḥ sampatantaḥ .. 02.28.04 ..
शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ॥ ०२.२८.०५ ॥
śaṅkha-muktā-grāhiṇo nau-bhāṭakaṃ dadyuḥ . sva-naubhirvā tareyuḥ .. 02.28.05 ..
अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ॥ ०२.२८.०६ ॥
adhyakṣaścaeṣāṃ khany-adhyakṣeṇa vyākhyātaḥ .. 02.28.06 ..
पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ॥ ०२.२८.०७ ॥
pattana-adhyakṣa-nibaddhaṃ paṇya-pattana-cāritraṃ nāv-adhyakṣaḥ pālayet .. 02.28.07 ..
मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ॥ ०२.२८.०८ ॥
mūḍha-vāta-āhatā nāvaḥ pitāivānugṛhṇīyāt .. 02.28.08 ..
उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ॥ ०२.२८.०९ ॥
udaka-prāptaṃ paṇyaṃ aśulkaṃ ardha-śulkaṃ vā kuryāt .. 02.28.09 ..
यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ॥ ०२.२८.१० ॥
yathā-nirdiṣṭāścaetāḥ paṇya-pattana-yātrā-kāleṣu preṣayet .. 02.28.10 ..
सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ॥ ०२.२८.११ ॥
samyātīrnāvaḥ kṣetra-anugatāḥ śulkaṃ yācet .. 02.28.11 ..
हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ॥ ०२.२८.१२ ॥
hiṃsrikā nirghātayet . amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upaghātikāśca .. 02.28.12 ..
शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ॥ ०२.२८.१३ ॥
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adhiṣṭhitāśca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet . kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu .. 02.28.13 ..
बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ॥ ०२.२८.१४ ॥
bādha-tīrthāścaetāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bhayāt .. 02.28.14 ..
अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ॥ ०२.२८.१५ ॥
akāleatīrthe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.28.15 ..
काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ॥ ०२.२८.१६ ॥
kāle tīrthe cāniṣṛṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇastara-atyayaḥ .. 02.28.16 ..
कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ॥ ०२.२८.१७ ॥
kaivartaka-aṣṭa-tṛṇa-bhāra-puṣpa-phala-vāṭa-ṣaṇḍa-go-pālakānāṃ anatyayaḥ . sambhāvya-dūta-anupātināṃ ca senā-bhāṇḍa-prayogāṇāṃ ca sva-taraṇaistaratām . bīja-bhakta-dravya-upaskarāṃśca'nūpa-grāmāṇāṃ tārayatāṃ .. 02.28.17 ..
ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ॥ ०२.२८.१८ ॥
brāhmaṇa-pravrajita-bāla-vṛddha-vyādhita-śāsana-hara-garbhiṇyo nāv-adhyakṣa-mudrābhistareyuḥ .. 02.28.18 ..
कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ॥ ०२.२८.१९ ॥
kṛta-praveśāḥ pāraviṣayikāḥ sārtha-pramāṇā vā praviśeyuḥ .. 02.28.19 ..
परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ॥ ०२.२८.२० ॥
parasya bhāryāṃ kanyāṃ vittaṃ vāapaharantaṃ śavittaṃ vāapaharantaṃ śaṅkitaṃ āvignaṃ udbhāṇḍī-kṛtaṃ mahā-bhāṇḍena mūrdhni bhāreṇāvacchādayantaṃ sadyo-gṛhīta-liṅginaṃ aliṅginaṃ vā pravrajitaṃ alakṣya-vyādhitaṃ bhaya-vikāriṇaṃ gūḍha-sāra-bhāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgha-pathikaṃ amudraṃ caupagrāhayet .. 02.28.20 ..
क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ॥ ०२.२८.२१ ॥
kṣudra-paśurmanuṣyaśca sa-bhāro māṣakaṃ dadyāt . śiro-bhāraḥ kāya-bhāro gavāśvaṃ ca dvau . uṣṭra-mahiṣaṃ caturaḥ . pañca labhuyānam . ṣaḍgoliṅgam . sapta śakaṭam . panya-bhāraḥ pādaṃ .. 02.28.21 ..
तेन भाण्ड-भारो व्याख्यातः ॥ ०२.२८.२२ ॥
tena bhāṇḍa-bhāro vyākhyātaḥ .. 02.28.22 ..
द्वि-गुणो महा-नदीषु तरः ॥ ०२.२८.२३ ॥
dvi-guṇo mahā-nadīṣu taraḥ .. 02.28.23 ..
क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ॥ ०२.२८.२४ ॥
klṛptaṃ ānūpa-grāmā bhakta-vetanaṃ dadyuḥ .. 02.28.24 ..
प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ॥ ०२.२८.२५ ॥
pratyanteṣu tarāḥ śulkaṃ ātivāhikaṃ vartanīṃ ca gṛhṇīyuḥ . nirgacchataścāmudra-dravyasya bhāṇḍaṃ hareyuḥ . atibhāreṇāvelāyāṃ atirthe tarataśca .. 02.28.25 ..
पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ॥ ०२.२८.२६ ॥
puruṣa-upakaraṇa-hīnāyāṃ asaṃskṛtāyāṃ vā nāvi vipannāyāṃ nāv-adhhyakṣo naṣṭaṃ vinaṣṭaṃ vāabhyāvahet .. 02.28.26 ..
सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ॥ ०२.२८.२७अ ब ॥
sapta-aha-vṛttāṃ āṣāḍhīṃ kārttikīṃ cāntarā taraḥ . .. 02.28.27a ba ..
कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ॥ ०२.२८.२७च्द् ॥
kārmikaḥ pratyayaṃ dadyānnityaṃ ca'hnikaṃ āvahet .. 02.28.27cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In